एकादशोपनिषदः

 

(मूल मन्त्राः)

 

(ईश, केन, काठक, प्रश्न, मुण्डक, माण्डुक्य, तैत्तिरीय, ऐतरेय, श्वेताश्वतर, छान्दोग्य एवं बृहदारण्यक)

 

 

 

 

 

 

 

 

 

 

 

 

 

 

प्रकाशक

 

डिवाइन लाइफ सोसायटी

पत्रालय : शिवानन्दनगर-२४९१९२

जिला : टिहरी गढ़वाल, उत्तराखण्ड (हिमालय), भारत

www.sivanandaonline.org, www.dlshq.org

प्रथम संस्करण : २०१२

(१००० प्रतियाँ)

 

 

 

 

 

© डिवाइन लाइफ ट्रस्ट सोसायटी

 

 

 

 

PRICE: 140/-

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

' डिवाइन लाइफ सोसायटी, शिवानन्दनगर' के लिए

स्वामी पद्मनाभानन्द द्वारा प्रकाशित तथा उन्हीं के द्वारा

'योग-वेदान्त फारेस्ट एकाडेमी प्रेस, शिवानन्दनगर-२४९१९२,

टिहरी गढ़वाल, उत्तराखण्ड' में मुद्रित

For online orders and Catalogue: visit disbooks.org

 

 

 

प्रस्तावना

 

 

उपनिषन्मन्त्राः चिन्ताप्रचोदकाश्चित्तशुद्धिकराश्च इत्यभि- ज्ञमतम् आर्षकालादारभ्याद्यप्रभृति महान्तो ज्ञानिनः स्वस्वरूपानुसन्धानिनश्चौपनिषन्मन्त्रपारायणं मननं प्रतिदिनं श्रद्धापूर्वकमवश्यं करणीयमित्युद्बोधयन्त्यस्मान् अतो मुमुक्षुणां सुखस्वाध्यायार्थमेकादशोपनिषन्मन्त्रा एकस्मिन्पुस्तके मुद्रिता- श्चेत्समीचीनं भवेदिति विचार्य श्रीगुरोः करुणयेदानीमत्र प्रकाशितमस्ति। अस्य ग्रन्थस्य पाठकानां स्वाध्यायशीलानामुपरि सर्वेषामृषिवर्याणामनुग्रहवर्षा भवेदिति प्रार्थना।

 

 

शिवानन्दाश्रमः                                                                         इति नारायणस्मरणम्

 

स्कन्दषष्ठीः                                                                             डिवाइन लाइफ सोसायटी

नवम्बर , २०११

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

दश शान्ति मन्त्राः

 

शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा शं इन्द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः नमो ब्रह्मणे नमस्ते वायो। त्वमेव प्रत्यक्षं ब्रह्मासि त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि ऋतं वदिष्यामि। सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवतु अवतु माम् अवतु वक्तारम् ।। शान्तिः शान्तिः शान्तिः ।।१ ।।

 

सह नाववतु। सह नौ भुनक्तु सह वीर्यं करवावहै। तेजस्वि नावधीतमस्तु मा विद्विषावहै ।। शान्तिः शान्तिः शान्तिः ।।२।।

 

यश्छन्दसामृषभो विश्वरूपः छन्दोभ्योऽध्यमृतात्सम्बभूव मेन्द्रो मेधया स्पृणोतु अमृतस्य देव धारणो भूयासम् शरीरं मे विचर्षणम्। जिह्वा मे मधुमत्तमा कर्णाभ्यां भूरि विश्रुवम् ब्रह्मणः कोशोऽसि मेधया पिहितः श्रुतं मे गोपाय ।। शान्तिः शान्तिः शान्तिः ।।३।।

 

अहं वृक्षस्य रेरिवा। कीर्तिः पृष्ठं गिरेरिव ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि द्रविणꣲ᳭ सवर्चसम् सुमेधा अमृतोऽक्षितः इति त्रिशंकोर्वेदानुवचनम् ।। शान्तिः शान्तिः शान्तिः ।।४।।

 

पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।। शान्तिः शान्तिः शान्तिः ।।५ ।।

 

आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि सर्वाणि सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मे अस्तु तदात्मनि निरते उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ।। शान्तिः शान्तिः शान्तिः ।।६ ।।

 

वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितम्। आविरावीर्म एधि। वेदस्य आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्संदधाम्यृतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवतु अवतु माम् अवतु वक्तारम् अवतु वक्तारम् ।। शान्तिः शान्तिः शान्तिः ।।७।।

 

भद्रं नो अपिवातय मनः ।। शान्तिः शान्तिः शान्तिः ।।८।।

 

भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवा ꣲ᳜ सस्तनूभिर्व्यशेम देवहितं यदायुः स्वस्ति इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्ताक्ष्योंऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।। शान्तिः शान्तिः शान्तिः ।।९।।

 

यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै तं देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ।। शान्तिः शान्तिः शान्तिः ।।१०।।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

श्री गुरु-वन्दना

 

नमो ब्रह्मादिभ्यो ब्रह्मविद्यासंप्रदायकर्तृभ्यो वंशर्षिक महद्भयो नमो गुरुभ्यः सर्वोपप्लवरहितः प्रज्ञानघनः प्रत्यग ब्रह्मैवाहमस्मि ।।१ ।।

 

नारायणं पद्मभवं वशिष्ठं शक्तिं तत्पुत्रपराशरं

व्यासं शुकं गौडपदं महान्तं गोविन्दयोगीन्द्रमथास्य शिष्यम् ।।२

 

श्रीशंकराचार्यमथास्य पद्मपादं हस्तामलकं शिष्यम्

तं तोटकं वार्तिककारमन्यानस्मद्गुरून्संततमानतोऽस्मि ।। ।।

 

श्रुतिस्मृतिपुराणानामालयं करुणालयम्

नमामि भगवत्पादं शंकरं लोकशंकरम् ।।४।।

 

शंकरं शंकराचार्यं केशवं बादरायणम्

सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः ।।५ ।।

 

ईश्वरो गुरुरात्मेति मूर्तिभेदविभागिने

व्योमवद्व्याप्तदेहाय दक्षिणामूर्तये नमः ।।६ ।।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

श्री दक्षिणामूर्ति स्तोत्रम्

 

विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं

पश्यन्नात्मनिमायया बहिरिवोद्भूतं यथा निद्रया

यःसाक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं

तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ।।१ ।।

 

बीजस्यान्तरिवाङ्कुरो जगदिदं प्रानिर्विकल्पं पुन-

र्मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम्।

मायावीव विजृम्भयत्यपि महायोगीव यः स्वेच्छया

तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ।। ।।

 

यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थकं भासते

साक्षात्तत्वमसीतिवेदवचसा यो बोधयत्याश्रितान्

यत्साक्षात्करणाद्भवेन्न पुनरावृत्तिर्भवाम्भोनिधौ

तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ।।३ ।।

 

नानाछिद्रघटोदरस्थितमहादीपप्रभाभास्वरं

ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिः स्पन्दते

जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत्

तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ।।४ ।।

 

देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं शून्यंविदुः

स्त्रीबालान्धजडोपमास्त्वहमिति भ्रांता भृशं वादिनः

मायाशक्तिविलासकल्पितमहाव्यामोहसंहारिणे

तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ।।५ ।।

 

राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्छादनात्

सन्मात्रः करणोपसंहरणतो योऽभूत्सुषुप्तः पुमान्।

प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते

तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ।।६ ।।

 

बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि

व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा

स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया

तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ।।७।।

 

विश्वं पश्यति कार्यकारणतया स्वस्वामिसम्बन्धतः

शिष्याचार्यतया तथैव पितृपुत्राद्यात्मना भेदतः

स्वप्ने जाग्रति वा एष पुरुषो मायापरिभ्रामितः

तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ।।८।।

 

 

भूरम्भांस्यनलोनिलोम्बरमहर्नाथो हिमांशुः पुमान्

इत्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम्

नान्यत्किंचन विद्यते विमृशतां यस्मात्परस्माद्विभोः

तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ।।९।।

 

सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिन् स्तवें

तेनास्य श्रवणात्तथाऽर्थमननाद् ध्यानाच्च संकीर्तनात्

सर्वात्मत्वमहाविभूतिसहितं स्यादिश्वरत्वं स्वतः

सिद्धयेत्तत्पुनरष्टधापरिणतं चैश्वर्यमव्याहृतम् ।।१०।।

 

 

 

 

 

 

 

 

 

 

 

विषयसूचिका

 

ईशावास्योपनिषत्. 12

केनोपनिषत्. 15

काठकोपनिषत्. 19

प्रश्नोपनिषत्. 33

मुण्डकोपनिषत्. 41

माण्डूक्योपनिषत्. 49

तैत्तिरीयोपनिषत्. 51

ऐतरेयोपनिषत्. 64

श्वेताश्वतरोपनिषत्. 69

छान्दोग्योपनिषत्. 81

बृहदारण्यकोपनिषत्. 166

 

 

 

 

 

 

 

 

 

 

 

 

 

 

ईशावास्योपनिषत्

 

पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।।

शान्तिः शान्तिः शान्तिः ।।

 

ईशावास्यमिदंꣲ᳜  सर्वं यत्किञ्च जगत्यां जगत्

तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम् ।।१ ।।

 

कुर्वन्नेवेह कर्माणि जिजीविषेच्छतꣲ᳭ समाः

एवं त्वयि नान्यथेतोऽस्ति कर्म लिप्यते नरे ।।२ ।।

 

असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः

ताꣲ᳭  स्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ।।३ ।।

 

अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत्

तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ।। ।।

 

तदेजति तन्नैजति तद्दूरे तद्वन्तिके

तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ।।५।।

 

यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति

सर्वभूतेषु चाऽऽत्मानं ततो विजुगुप्सते ।।६ ।।

 

यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः

तत्र को मोहः कः शोक एकत्वमनुपश्यतः ।।७ ।।

 

 

 

पर्यगाच्छुक्रमकायमव्रणमस्नाविर शुद्धमपापविद्धम् कविर्मनीषी

परिभू: स्वयंभूर्याथातथ्यतोऽर्थान्यदधाच्छाश्वतीभ्यः समाप्यः ॥८॥

 

 

अन्धं तमः प्रविशन्ति येऽविद्यामुपासते

ततो भूय इव ते तमो विद्याया रताः ।।९ ।।

 

अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया

इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ।।१० ।।

 

विद्यां चाविद्यां यस्तद्वेदोभयꣲ᳭ सह

अविद्यया मृत्युं तीर्खा विद्ययामृतमश्नुते ।।११ ।।

 

अन्धं तमः प्रविशन्ति येऽसंभूतिमुपासते

ततो भूय इव ते तमो संभूत्याꣲ᳭  रताः ।।१२ ।।

 

अन्यदेवाहुः संभवादन्यदाहुरसंभवात्

इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ।। १३ ।।

 

संभूतिं विनाशं यस्तद्वेदोभयꣲ᳭ सह

विनाशेन मृत्युं तीर्त्वाऽसंभूत्याऽमृतमश्नुते ।।१४ ।।

 

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्

तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ।।१५ ।।

 

पूषन्नेकर्षे यम सूर्य प्राजापत्यव्यूहरश्मीन्समूह तेजो यत्ते रूपं

कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ।। १६ ।।

 

वायुरनिलममृतमथेदं भस्मान्तꣲ᳭ शरीरम्

क्रतो स्मर कृतꣲ᳭ स्मर क्रतो स्मर कृतँꣲ᳭ स्मर ।।१७।।

 

अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान्

युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ।।१८ ।।

 

पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।। शान्तिः शान्तिः शान्तिः ।।

 

।। इति ईशावास्योपनिषत्संपूर्णा ।।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

केनोपनिषत्

प्रथमः खण्डः

 

आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि सर्वाणि सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु तदात्मनि निरते उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ।। शान्तिः शान्तिः शान्तिः ।।

 

केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः

केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं देवो युनक्ति ।।१।।

 

श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो वाचꣲ᳭ प्राणस्य प्राणः।

चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ।। ।।

 

तत्र चक्षुर्गच्छति वाग्गच्छति नो मनो विद्मो

विजानीमो यथैतदनुशिष्यादन्यदेव तद्विदितादथो अविदितादधि

इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ।।३ ।।

 

यद्वाचाऽनभ्युदितं येन वागभ्युद्यते

तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ।।४ ।।

 

यन्मनसा मनुते येनाऽऽहुर्मनो मतम्

तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ।।५ ।।

 

यच्चक्षुषा पश्यति येन चक्षुꣲ᳭ षि पश्यति

तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ।।६ ।।

 

यच्छ्रोत्रेण शृणोति येन श्रोत्रमिदंꣲ᳭ श्रुतम्

तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ।।७ ।।

 

यत्प्राणेन प्राणिति येन प्राणः प्रणीयते

तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ।।८ ।।

 

।। इति प्रथमः खण्डः ।।

द्वितीयः खण्डः

 

यदि मन्यसे सुवेदेति दभ्रमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपं

यदस्य त्वं यदस्य देवेष्वथ नु मीमांस्यमेव ते मन्ये विदितम् ।।१ ।।

 

नाहं मन्ये सुवेदेति नो वेदेति वेद

यो नस्तद्वेद तद्वेद नो वेदेति वेद ।।२ ।।

 

यस्यामतं तस्य मतं मतं यस्य वेद सः

अविज्ञातं विजानतां विज्ञातमविजानताम् ।।३।।

 

प्रतिबोधविदितं मतममृतत्वं हि विन्दते

आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् ।।४।।

 

इह चेदवेदीदथ सत्यमस्ति चेदिहावेदीन्महती विनष्टिः

भूतेषु भूतेषु विचित्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ।।५।।

 

।। इति द्वितीयः खण्डः ।।

 

तृतीयः खण्डः

 

ब्रह्म देवेभ्यो विजिग्ये तस्य ब्रह्मणो विजये देवा अमहीयन्त

ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति ।।१।।

 

तद्वैषां विजज्ञौ तेभ्यो प्रादुर्बभूव तन्न व्यजानत किमिदं यक्षमिति ।।२ ।।

 

तेऽग्निमब्रुवञ्जातवेद एतद्विजानीहि किमेतद्यक्षमिति तथेति ।।३।।

 

तदभ्यद्रवत्तमभ्यवदत्कोऽसीत्यग्निर्वा अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति ।।४ ।।

 

तस्मिꣲ᳭ स्त्वयि किं वीर्यमित्यपीदꣲ᳭ सर्वं दहेयं यदिदं पृथिव्यामिति ।।५ ।।

 

तस्मै तृणं निदधावेतद्दहेति तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुं तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ।।६।।

 

अथ वायुमब्रुवन्वायवे तद्विजानीहि किमेतद्यक्षमिति तथेति ।।७।।

 

तदभ्यद्रवत्तमभ्यवदत्कोऽसीति वायुर्वा अहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति ।।८ ।।

 

तस्मिꣲ᳭ स्त्वयि किं वीर्यमित्यपीदꣲ᳭ सर्वमाददीय यदिदं पृथिव्यामिति ।।९ ।।

 

तस्मै तृणं निदधावेतदादत्स्वेति तदुपप्रेयाय सर्वजनेन तन्नशशाका- ऽऽदातुं तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ।। १० ।।

 

अथेन्द्रमब्रुवन्मघवन्नेतद्विजानीहि किमेतद्यक्षमिति तथेति तदभ्य- द्रवत्तस्मात्तिरोदधे ।। ११ ।।

 

तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमां हैमवतीं ताꣲ᳭ होवाच किमेतद्यक्षमिति ।। १२ ।।

 

।। इति तृतीयः खण्डः ।।

 

चतुर्थः खण्डः

 

सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्वमिति ततो हैव विदांचकार ब्रह्मेति ।।१।।

 

तस्माद्वा एते देवा अतितरामिवान्यान्देवान्यदग्निर्वायुरिन्द्रस्ते

ह्येनन्नेदिष्ठं पस्पर्शस्ते ह्येनत्प्रथमो विदांचकार ब्रह्मेति ।।२।।

 

तस्माद्वा इन्द्रो ऽतितरामिवान्यान्देवान्स ह्येनन्नेदिष्ठं पस्पर्श ह्येनत्प्रथमो विदांचकार ब्रह्मेति ।। ।।

 

तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा३ इतीन्न्यमीमिषदा इत्यधिदैवतम् ।।४।।

 

अथाध्यात्मं यदेतद्रच्छतीव मनोऽनेन चैतदुपस्मरत्यभीक्ष्णं संकल्पः ।।५ ।।

 

तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं एतदेवं वेदाऽभि हैवं सर्वाणि भूतानि संवाञ्छन्ति ।।६ ।।

 

उपनिषदं भो ब्रूहीत्युक्ता उपनिषद्ब्राह्मीं वाव उपनिषद- मब्रूमेति ।।७ ।।

 

तस्यै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वाङ्गानि सत्यमायतनम् ।।८ ।।

 

यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ।।९।।

 

।। इति चतुर्थः खण्डः ।।

 

आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि सर्वाणि सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु तदात्मनि निरते उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ।। शान्तिः शान्तिः शान्तिः ।।

 

।। इति केनोपनिषत्संपूर्णा ।।

 

 

 

 

 

 

 

 

 

 

 

 

 

काठकोपनिषत्

 

प्रथमोऽध्यायः

 

प्रथमा वल्ली

 

सहनाववतु सह नौ भुनक्तु सह वीर्यं करवावहै। तेजस्वि नावधीतमस्तु मा विद्विषावहै शान्तिः शान्तिः शान्तिः ।।

 

उशन्ह वै वाजश्रवसः सर्ववेदसं ददौ

तस्य नचिकेता नाम पुत्र आस ।।१।।

 

ꣲ᳭ कुमारꣲ᳭ सन्तं दक्षिणासु नीयमानासु श्रद्धाऽऽविवेश सोऽमन्यत

 

पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः

 अनन्दा नाम ते लोकास्तान्स गच्छति ता ददत् ।।३

 

होवाच पितरं तत कस्मै मां दास्यसीति

 द्वितीयं तृतीयं ꣲ᳭ होवाच मृत्यवे त्वा ददामीति ।।४।।

 

बहूनामेमि प्रथमो बहूनामेमि मध्यमः

किꣲ᳭ स्विद्यमस्य कर्तव्यं यन्मयाऽद्य करिष्यति ॥५॥

 

अनुपश्य यथा पूर्वे प्रतिपश्य तथाऽपरे

सस्यमिव मर्त्यः पच्यते सस्यमिवाऽऽजायते पुनः ।।६।।

 

वैश्वानरः प्रविशत्यतिथिर्बाह्मणो गृहान्

तस्यैताꣲ᳭ शान्ति कुर्वन्ति हर वैवस्वतोदकम् ।।७।।

 

आशाप्रतीक्षे सङ्गतꣲ᳭ सूनृतां चेष्टापूर्ते पुत्रपशूꣲ᳭ श्च सर्वान्

एतद्वृड्क्ते पुरुषस्यात्पमेधसो यस्यानश्नन्यसति ब्राह्मणो गृहे।।८ ।।

 

तिस्रो रात्रीर्यदवात्सीगृहे मेऽनश्नन् ब्रह्मन्नतिथिर्नमस्यः

नमस्तेऽस्तु ब्रह्मन्स्वस्ति मेऽस्तु तस्मात्प्रति त्रीन्वरान्वृणीष्व ।।९ ।।

 

शान्तसंकल्पः सुमना यथा स्याद्वीतमन्युर्गौतमो माऽभि मृत्यो

त्वत्प्रसृष्टं माऽभिवदेत्प्रतीत एतत्त्रयाणां प्रथमं वरं वृणे ॥१०॥

 

यथा पुरस्ताद् भविता प्रतीत औद्दालकिरारुणिर्मत्प्रसृष्टः

सुखꣲ᳭ रात्रीः शयिता वीतमन्युस्त्वां ददृशिवान्मृत्युमुखात् प्रमुक्तम् ।।११ ।।

 

स्वर्गे लोके भयं किंचनास्ति तत्र त्वं जरया बिभेति

उभे तीर्त्वाऽशनायापिपासे शोकातिगो मोदते स्वर्गलोके ।।१२।।

 

ꣲ᳭ त्वमग्नि स्वर्ण्यमध्येषि मृत्यो प्रब्रूहि ꣲ᳭ श्रद्धानाय मह्यम्

स्वर्गलोका अमृतत्वं भजन्त एतद्वितीयेन वृणे वरेण ।।१३॥

 

प्र ते ब्रवीमि तदु मे निबोध स्वर्ण्यमग्निं नचिकेतः प्रजानन्

अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेतं निहितं गुहायाम् ।।१४।।

 

लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा

चापि तत्प्रत्यवदद्यथोक्तमथास्य मृत्युः पुनरेवाह तुष्टः ।।१५ ।।

 

तमब्रवीत्प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः

तवैव नाम्ना भवितायमग्निः सृङ्कां चेमामनेकरूपां गृहाण ।।१६ ।।

 

त्रिणाचिकेतस्त्रिभिरेत्य सन्धि त्रिकर्मकृत्तरति जन्ममृत्यू

ब्रह्मजज्ञ देवमीड्यं विदित्वा निचाय्येमाꣲ᳭ शान्तिमत्यन्तमेति ।।१७।।

 

त्रिणाचिकेतस्त्रयमेतद्विदित्वा एवं विद्वाꣲ᳭ श्चिनुते नाचिकेतम्

मृत्युपाशान्पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके ।।१८ ।।

 

एष तेऽग्निर्नचिकेतः स्वग्यों यमवृणीथा द्वितीयेन वरेण

एतमग्निं तवैव प्रवक्ष्यन्ति जनासस्तृतीयं वरं नचिकेतो वृणीष्व ।।१९ ।।

 

येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके

एतद्विद्यामनुशिष्टस्त्वयाऽहं वराणामेष वरस्तृतीयः ।।२०।।

 

देवैरत्रापि विचिकित्सितं पुरा हि सुविज्ञेयमणुरेष धर्मः

अन्य वरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मा सृजैनम् ।।२१ ।।

 

देवैरत्रापि विचिकित्सितं किल त्वं मृत्यो यन्न सुविज्ञेयमात्थ

वक्ता चास्य त्वादृगन्यो लभ्यो नान्यो वरस्तुल्य एतस्य कश्चित् ।।२२ ।।

 

शतायुषः पुत्रपौत्रान्वृणीष्व बहून्पशून्हस्तिहिरण्यमश्वान्

भूमेर्महदायतनं वृणीष्व स्वयं जीव शरदो यावदिच्छसि ।।२३ ।।

 

एतत्तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां

महाभूमौ नचिकेतस्त्वमेधि कामानां त्वा कामभाजं करोमि ।।२४ ।।

 

ये ये कामा दुर्लभा मर्त्यलोके सर्वान्कामाꣲ᳭ श्छन्दतः प्रार्थयस्व

इमा रामाः सरथाः सतूर्या हीदृशा लम्भनीया मनुष्यैः

आभिर्मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरणं माऽनुप्राक्षीः ।॥२५॥

 

श्वोभावा मर्त्यस्य यदन्तकैतत्सर्वेन्द्रियाणां जरयन्ति तेजः

अपि सर्वं जीवितमल्पमेव तवैव वाहास्तव नृत्यगीते ।। २६ ।।

 

वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्म चेत्त्वा

जीविष्यामो यावदीशिष्यसि त्वं वरस्तु मे वरणीयः एव ॥२७॥

 

अजीर्यताममृतानामुपेत्य जीर्यन्मर्त्यः क्वधःस्थः प्रजानन्

अभिध्यायन्वर्णरतिप्रमोदानतिदीर्घ जीविते को रमेत ।।२८

 

यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्सांपराये महति ब्रूहि नस्तत्

योऽयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता वृणीते ।।२९

 

।। इति प्रथमा वल्ली ।।

 

 

द्वितीया वल्ली

अन्यच्छ्रेयोऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषꣲ᳭ सिनीतः

तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाद्य प्रेयो वृणीते ।।१ ।।

 

श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ संपरीत्य विविनक्ति धीरः

श्रेयो हि धीरोऽभि प्रेयसो वृणीते प्रेयो मन्दो योगक्षेमावृणीते ।।२।।

 

त्वं प्रियान्प्रियरूपाꣲ᳭ श्च कामानभिध्यायन्नचिकेतोऽत्यस्राक्षीः

नैताꣲ᳭ सृङ्कां वित्तमयीमवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः ।।३।।

 

दूरमेते विपरीते विषूची अविद्या या विद्येति ज्ञाता

विद्याभीप्सिनं नचिकेतसं मन्ये त्वा कामा बहवोऽलोलुपन्त ।।४।।

 

अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः

दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ।।५ ।।

 

सांपरायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम्

अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ।।६ ।।

 

श्रवणायापि बहुभियों लभ्यः शृण्वन्तोऽपि बहवो यं विद्युः

आश्चर्यो वक्ता कुशलोऽस्य लब्धाऽऽश्चर्यो ज्ञाता कुशलानुशिष्टः ।।७।।

 

नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः

अनन्यप्रोक्ते गतिरत्र नास्त्यणीयान्ह्यतर्त्यमणुप्रमाणात् ।।८।।

 

नैषा तर्केण मतिरापनेया प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ

यां त्वमापः सत्यधृतिर्बतासि त्वादृङ्नो भूयान्नचिकेतः प्रष्टा ।।९।।

 

जानाम्यहꣲ᳭ शेवधिरित्यनित्यं ह्यध्रुवैः प्राप्यते हि ध्रुवं तत्

ततो मया नचिकेतश्चितोऽग्निरनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम् ।।१०।।

 

कामस्याप्तिं जगतः प्रतिष्ठां क्रतोरनन्त्यमभयस्य पारम्

स्तोम- महदुरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतो ऽत्यस्राक्षीः ।।११।।

 

तं दुर्दर्श गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्

अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ॥१२॥

 

एतच्छ्रुत्वा संपरिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेतमाप्य

मोदते मोदनीयꣲ᳭ हि लब्ध्वा विवृत सद्म नचिकेतसं मन्ये ॥१३॥

 

अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्

अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद ।।१४।॥

 

सर्वे वेदा यत्पदमामनन्ति तपाꣲ᳭सि सर्वाणि यद्वदन्ति।

यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदꣲ᳭ संग्रहेण ब्रवीम्योमित्येतत् ।।१५।

 

एतद्धयेवाक्षरं ब्रह्म एतद्धयेवाक्षरं परम्

एतद्धयेवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ।।१६ ।।

 

एतदालम्बनꣲ᳭ श्रेष्ठमेतदालम्बनं परम्

एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ।।१७।।

 

जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित्

अजो नित्यः शाश्वतोऽयं पुराणो हन्यते हन्यमाने शरीरे ।।१८ ।।

 

हन्ता चेन्मन्यते हन्तुꣲ᳭ हतश्चेन्मन्यते हतम्

उभौ तौ विजानीतो नायꣲ᳭ हन्ति हन्यते ।।१९।।

 

अणोरणीयान्महतो महीयानात्माऽस्य जन्तोर्निहितो गुहायाम्

तमक्रतुः पश्यति वीतशोको धातुप्रसादान्महिमानमात्मनः ।।२० ।।

 

आसीनो दूरं व्रजति शयानो याति सर्वतः

कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ।। २१ ।।

 

अशरीरꣲ᳭ शरीरेष्वनवस्थेष्ववस्थितम्

महान्तं विभुमात्मानं मत्वा धीरो शोचति ।।२२ ।।

 

नायमात्मा प्रवचनेन लभ्यो मेधया बहुना श्रुतेन

यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूꣲ᳭ स्वाम् ।।२३ ।।

 

नाविरतो दुश्चरितान्नाशान्तो नासमाहितः

नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात् ।।२४ ।।

यस्य ब्रह्म क्षत्रं उभे भवत ओदनः

मृत्युर्यस्योपसेचनं इत्था वेद यत्र सः ।।२५ ।।

 

।। इति द्वितीया वल्ली ।।

 

तृतीया वल्ली

 

ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे

छायातपौ ब्रह्मविदो वदन्ति पञ्चाप्नयो ये त्रिणाचिकेताः ।।१।।

 

यः सेतुरीजानानामक्षरं ब्रह्म यत्परम्

अभयं तितीर्षतां पारं नाचिकेतꣲ᳭ शकेमहि ।।२।।

 

आत्मानं रथिनं विद्धि शरीर रथमेव तु

बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव ।।३।।

 

इन्द्रियाणि हयानाहुर्विषयाꣲ᳭ स्तेषु गोचरान्

आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ।।४।।

 

यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा

तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ।।५।।

 

यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा

तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ।।६।।

 

यस्त्वविज्ञानवान्भवत्यमनस्कः सदाऽशुचिः

तत्पदमाप्नोति संसारं चाधिगच्छति ।।७।।

 

यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः

तु तत्पदमाप्नोति यस्माद्भूयो जायते ।।८ ।।

 

विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः

सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ।।९।।

 

इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः

मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ।।१० ।।

 

महतः परमव्यक्तमव्यक्तात्पुरुषः परः

पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ।। ११ ।।

 

एष सर्वेषु भुतेषु गूढोऽऽत्मा प्रकाशते

दृश्यते त्वग्रयया बुद्धया सूक्ष्मया सूक्ष्मदर्शिभिः ।।१२।।

 

यच्छेवाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि

ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि ।।१३ ।।

 

उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत

क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति ।।१४ ।।

 

अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्

अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तन्मृत्युमुखात्प्रमुच्यते ।। १५ ।।

 

नाचिकेतमुपाख्यानं मृत्युप्रोक्तꣲ᳭ सनातनम्

उक्त्वा श्रुत्वा मेधावी ब्रह्मलोके महीयते ।।१६ ।।

 

इमं परमं गुह्यं श्रावयेद्ब्रह्मसंसदि।

प्रयतः श्राद्धकाले वा तदानन्त्याय कल्पते तदानन्त्याय कल्पत इति ।।१७ ।।

 

।। इति तृतीया वल्ली ।।

इति प्रथमोऽध्यायः

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

द्वितीयोऽध्यायः

 

प्रथमा वल्ली

 

पराञ्चि खानि व्यतृणत्स्वयम्भूस्तस्मात्परापश्यति नान्तरात्मन्

कश्चिद्वीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन् ।।१।।

 

पराचः कामाननुयन्ति बालास्ते मृत्योर्यन्ति विततस्य पाशम्

अथ धीरा अमृतत्वं विदित्वा ध्रुवमध्रुवेष्विह प्रार्थयन्ते ॥२॥

 

येन रूपं रसं गन्धं शब्दान्स्पर्शाꣲ᳭ श्च मैथुनान्

एतेनैव विजानाति किमत्र परिशिष्यते एतद्वै तत् ।।३ ।।

 

स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति

महान्तं विभुमात्मानं मत्वा धीरो शोचति ।।४।।

 

इमं मध्वदं वेद आत्मानं जीवमन्तिकात्

ईशानं भूतभव्यस्य ततो विजुगुप्सते एतद्वै तत् ।।५॥

 

यः पूर्वं तपसो जातमद्भयः पूर्वमजायत

गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत एतद्वै तत् ।।६।।

 

या प्राणेन संभवत्यदितिर्देवतामयी

गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर्व्यजायत एतद्वै तत् ।।७।।

 

अरण्योर्निर्हितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः

दिवे दिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः एतद्वै तत् ।।८।।

 

यतश्चोदेति सूर्योऽस्तं यत्र गच्छति

तं देवाः सर्वे अर्पितास्तदु नात्येति कश्चन एतद्वै तत् ।।९।।

 

यदेवेह तदमुत्र यदमुत्र तदन्विह।

मृत्योः मृत्युमाप्नोति इह नानेव पश्यति ।। १० ।।

 

मनसैवेदमाप्तव्यं नेह नानाऽस्ति किंचन

मृत्योः मृत्युं गच्छति इह नानेव पश्यति ।। ११ ।।

 

अंगुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति

ईशानं भूतभव्यस्य ततो विजुगुप्सते एतद्वै तत् ।।१२।।

 

अंगुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः

ईशानो भूतभव्यस्य एवाद्य श्वः एतद्वै तत् ।।१३ ।।

 

यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति

एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति ।। १४ ।।

 

यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति

एवं मुनेर्विजानत आत्मा भवति गौतम ।।१५।।

 

।। इति प्रथमा वल्ली ।।

 

 

द्वितीया वल्ली

 

पुरमेकादशद्वारमजस्यावक्रचेतसः

अनुष्ठाय शोचति विमुक्तश्च विमुच्यते एतद्वै तत् ।।१ ।।

 

ꣲ᳭सः शुचिषद्द्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत्

नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ।।२।।

 

ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति

मध्ये वामनमासीनं विश्वे देवा उपासते ।।३ ।।

 

अस्य विसंसमानस्य शरीरस्थस्य देहिनः

देहाद्विमुच्यमानस्य किमत्र परिशिष्यते एतद्वै तत् ।।४।।

 

प्राणेन नाऽपानेन मयों जीवति कश्चन

इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ।।५ ।।

 

हन्त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम्

यथा मरणं प्राप्य आत्मा भवति गौतम ।। ।।

 

योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः

स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ।।७।।

 

एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः

तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते

तस्मिंल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन एतद्वै तत् ।।८ ।।

 

अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव

एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ।।९

 

वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव

 एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ।।१० ।।

 

सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषैः एकस्तथा सर्वभूतान्तरात्मा लिप्यते लोकटु खेन बाह्यः ।।११ ।।

 

एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति

तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ।।१२ ।।

नित्योऽनित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्

तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् ।।१३ ।।

 

तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम्

कथं नु तद्विजानीयां किमु भाति विभाति वा ।।१४ ।।

 

तत्र सूर्यो भाति चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः

तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ।। १५ ।।

 

।। इति द्वितीया वल्ली ।।

 

 

तृतीया वल्ली

 

ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः

तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते

तस्मिल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन एतद्वै तत् ।।१ ।।

 

यदिदं किञ्च जगत्सर्वं प्राण एजति निःसृतम्

महद्भयं वज्रमुद्यतं एतद्विदुरमृतास्ते भवन्ति ।।२।।

 

भयादस्याग्निस्तपति भयात्तपति सूर्यः

भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ।।३ ।।

 

इह चेदशकद्बोद्धं प्राक्शरीरस्य विस्रसः

ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते ।।४ ।।

 

यथाऽदर्श तथात्मनि यथा स्वप्ने तथा पितृलोके

यथाऽप्सु परीव ददृशे तथा गन्धर्वलोके च्छायातपयोरिव ब्रह्मलोके ।।५।।

 

इन्द्रियाणां पृथग्भावमुदयास्तमयौ यत्

पृथगुत्पद्यमानानां मत्वा धीरो शोचति ।। ।।

 

इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम्

सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् ।।७।।

 

अव्यक्तात्तु परः पुरुषो व्यापकोऽलिङ्ग एव च।

यं ज्ञात्वा मुच्यते जन्तुरमृतत्वं गच्छति ।।८ ।।

 

संदृशे तिष्ठति रूपमस्य चक्षुषा पश्यति कश्चनैनम्

हृदा मनीषा मनसाऽभिक्लृप्तो एतद्विदुरमृतास्ते भवन्ति ।।९।।

 

यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह।

बुद्धिश्च विचेष्टति तामाहुः परमां गतिम् ।।१०।।

 

तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम्

अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ।।११ ।।

 

नैव वाचा मनसा प्राप्तुं शक्यो चक्षुषा

अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ।।१२ ।।

 

अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः

अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति ।। १३ ।।

 

 

यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः

अथ मर्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ।।१४ ।।

 

यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः

अथ मर्योऽमृतो भवत्येतावद्ध्यनुशासनम् ।।१५ ।।

 

 

शतं चैका हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका

तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्कन्या उत्क्रमणे भवन्ति ।। १६ ।।

 

अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिविष्टः

तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण

तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृतमिति ।। १७ ।।

 

मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा विद्यामेतां योगविधिं कृत्स्सम्म

महाप्राप्तो विरजोऽभूद्विमृत्युरन्योऽप्येवं यो विदध्यात्ममेव ॥१८॥

 

इति द्वितीयोऽध्यायः

 

सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै। तेजस्वि नावधीतमस्तु मा विद्विषावहै ।।

शान्तिः शान्तिः शान्तिः ।।

 

।। इति काठकोपनिषत्संपूर्णा ।।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

प्रश्नोपनिषत्

प्रथमः प्रश्नः

 

भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवा सस्तनूभिर्व्यशेम देवहितं यदायुः स्वस्ति इन्द्रो वृद्धश्रवाः। स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्थोऽ रिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।। शान्तिः शान्तिः शान्तिः ।।

 

सुकेशा भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी गार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनस्ते हैते ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणा एष वै तत्सर्वं वक्ष्यतीति ते समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ।।१ ।।

 

तान्ह ऋषिरुवाच भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ यथाकामं प्रश्नान्पृच्छत यदि विज्ञास्यामः सर्वं वो वक्ष्याम इति ।। ।।

 

अथ कबन्धी कात्यायन उपेत्य पप्रच्छ भगवन्कुतो वा इमाः प्रजाः प्रजायन्त इति ।। ।।

 

तस्मै होवाच प्रजाकामो वै प्रजापतिः तपोऽतप्यत तपस्तप्त्वा मिथुनमुत्पादयते रयिं प्राणं चेत्येतौ मे बहुधा प्रजाः करिष्यत इति ।।४ ।।

 

आदित्यो वै प्राणो रयिरेव चन्द्रमा रथिर्वा एतत्सर्वं यन्थले चामूर्त तस्मान्मूर्तिरेव रयि ।।५ ।।

 

अधादित्य उदयन्यत्प्राचीं दिशं प्रविशतिर प्राच्च्यान्प्राणान्रश्मिषु सनिधत्ते

यद्दक्षिणां यत्प्रतीचीं यदुदीची यशो यदूर्ध्वं यदन्तरा दिशो यत्सर्वं प्रकाशयति तेन सर्वान्प्राणानज्यि सनिधत्ते ।।६ ।।

 

एष वैश्वानरो विश्वरूपः प्राणोऽनिरुदयते

तदेतदृचाम्युक्तम् ॥७।

विश्वरूप हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम

सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ।॥८॥

 

संवत्सरो वै प्रजापतिस्तस्यायने. दक्षिणं चोत्तरं तये वै तदिष्टापूर्ते कृतमित्युपासते ते चान्द्रमसमेव लोकमभिजयन्ते एव पुनरावर्तन्ते तस्मादेत ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते एष वै रयिर्यः पितृयाणः ।।९ ।।

अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मान- मन्विष्यादित्यमभिजयन्ते एतद्वै प्राणानामायतनमेतदमृतमभय- मेतत्परायणमेतस्मान्न पुनरावर्तन्त इत्येष निरोधस्तदेष श्लोकः ॥१०॥

 

पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् अथेमे अन्य परे विचक्षणं सप्तचक्रे षडर आहुरर्पितमिति ।।१९

 

मासो वै प्रजापतिस्तस्य कृष्णपक्ष एव रविः शुक्ल प्राणस्तस्मादेत ऋषयः शुक्ल इष्टं कुर्वन्तीतर इतरस्मिन् ॥१२॥

 

अहोरात्रो वै प्रजापतिस्तस्याहरेव प्राणो रात्रिरेव रयिः प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या संयुज्यन्ते ।।१३ ।।

 

अन्नं वै प्रजापतिस्ततो वै तद्रेतस्तस्मादिमाः प्रजाः प्रजायन्त इति ।।१४।।

 

तद्ये वै तत्प्रजापतिव्रतं चरन्ति ते मिथुनमुत्पादयन्ते तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्ठितम् ।।१५।।

 

तेषामसौ विरजो ब्रह्मलोको येषु जिह्ममनृतं माया चेति ।। १६ ।।

 

।। इति प्रथमः प्रश्नः ।।

 

 

 

 

 

 

द्वितीयः प्रश्नः

 

अथ हैनं भार्गवो वैदर्भिः पप्रच्छ।

भगवन्कत्येव देवाः प्रजा विधारयन्ते कतर एतत्प्रकाशयन्ते कः पुनरेषां वरिष्ठ इति ।।१।।

 

तस्मै होवाच। आकाशो वा एष देवो वायुरनिरापः पृथिवी वाङ्मनश्चक्षुः श्रोत्रं

ते प्रकाश्याभिवदन्ति वयमेतद्वाणमवश्थ्य विधारयामः ।।२ ।।

 

तान्वरिष्ठः प्राण उवाच मा मोहमापद्यथाहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्वाणमवष्टभ्य विधारयामीति तेऽश्रद्दधाना बभूवुः ।॥३॥

 

सोऽभिमानादूर्ध्वमुत्क्रामत इव तस्मिन्नुत्क्रामत्यथेतरे सर्व एवोत्क्रामन्ते तस्मिꣲ᳭श्च प्रतिष्ठमाने सर्व एव प्रातिष्ठन्ते तद्यथा मक्षिका मधुकरराजानमुत्क्रामन्तं सर्वा एवोत्क्रामन्ते तस्मिंꣲ᳭श्च प्रतिष्ठमाने सर्वा एव प्रातिष्ठन्त एवं वाङ्मनश्चक्षुः श्रोत्रं ते प्रीताः प्राणं स्तुन्वन्ति ।।४ ।।

 

एषोऽग्निस्तपत्येष सूर्य एष पर्जन्यो मघवानेष वायुरेष पृथिवी रयिर्देवः सदसच्चामृतं यत् ।।५।।

 

अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् ऋचो यजूꣲ᳭ षि सामानि यज्ञः क्षत्रं ब्रह्म ।। ।।

 

प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे तुभ्यं प्राण प्रजास्त्विमा बलिं हरन्ति यः प्राणैः प्रतितिष्वति ॥७

 

देवानामसि वह्नितमः पितणां प्रथमा स्वधा ऋषीणां चरितं सत्यमथर्वाङ्गिरसामसि ।।८ ।।

 

इन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्षिता त्वमन्तरिक्षे चरसि सूर्यस्त्वं ज्योतिषां पतिः ।।९ ।।

 

यदा त्वमभिवर्षस्यथेमाः प्राण ते प्रजाः आनन्दरूपास्तिष्ठन्ति कामायान्न भविष्यतीति ।। १० ।।

 

ब्रात्यस्त्वं प्राणैकर्षिरत्ता विश्वस्य सत्पतिः वयमाद्यस्य दातारः पिता त्वं मातरिश्व नः ।।११ ।।

 

या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या चक्षुषि या मनसि संतता शिवां तां कुरु मोत्क्रमीः ।।१२।।

 

प्राणस्येदं वशे सर्वं त्रिदिवे यत्प्रतिष्ठितम् मातेव पुत्रान्रक्षस्व श्रीश्च प्रज्ञां विधेहि इति ।। १३ ।।

 

।। इति द्वितीयः प्रश्नः ।।

 

तृतीयः प्रश्नः

 

अथ हैनं कौसल्यश्चाश्वलायनः पप्रच्छ भगवन्कुत एष प्राणो जायते कथमायात्यस्मिशरीर आत्मानं वा प्रविभज्य कथं प्रतिष्ते केनोत्क्रमते कथं बाह्यमभिधत्ते कथमध्यात्ममिति ।।१।।

 

तस्मै होवाचातिप्रश्नान्पृच्छसि ब्रह्मिष्ठोऽसीति तस्मात्तेऽज ब्रवीमि ।। ।।

 

आत्मन एष प्राणो जायते यथैषा पुरुषे छायैतस्मिन्नैतदानतं मनोकृतेनायात्यस्मिञ्छरीरे ।। ।।

 

यथा सम्राडेवाधिकृतान्विनियुङ्क्त एतान्ग्रामानेतान्ग्रामानधितिष्ठ- स्वेत्येवमेवैष प्राण इतरान्प्राणान्पृथक्पृथगेव संनिधत्ते ।।४।।

 

पायूपस्थेऽपानं चक्षुःश्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रातिष्ठते मध्ये तु समानः एष ह्येतद्भुतमन्नं समं नयति तस्मादेताः सप्तार्चिषो भवन्ति ।।५ ।।

 

हृदि ह्येष आत्मा अत्रैतदेकशतं नाडीनां तासां शतं द्वासप्ततिर्द्वासप्ततिः शतमेकैकस्यां भवन्त्यासु व्यानश्चरति ।।६ ।। प्रतिशाखानाडीसहस्राणि

 

अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति पापेन पापमुभाभ्यामेव मनुष्यलोकम् ।।७।।

 

आदित्यो वै बाह्यः प्राण उदयत्येष होने चाक्षुष प्राणमनुगृह्णानः पृथिव्यां या देवता सैषा पुरुषस्यापानमवष्टभ्यान्तरा यदाकाशः समानो वायुर्व्यानः ।।८ ।।

 

तेजो वाव उदानस्तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि संपद्यमानैः ।।९ ।।

 

यच्चित्तस्तेनैष प्राणमायाति प्राणस्तेजसा युक्तः सहात्मना यथासंकल्पितं लोकं नयति ।। १० ।।

 

एवं विद्वान्प्राणं वेद हास्य प्रजा हीयतेऽमृतो भवति तदेष श्लोकः ।।११ ।।

उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते विज्ञायामृतमश्नुत इति ।।१२ ।।

 

।। इति तृतीय प्रश्नः ।।

 

 

चतुर्थः प्रश्नः

 

अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ

भगवन्नेतस्मिन्पुरुषे कानि स्वपन्ति कान्यस्मिञ्जाग्रति कतर एष देवः स्वप्नान्पश्यति कस्यैतत्सुखं भवति कस्मिन्नु सर्वे संप्रतिष्ठिता भवन्तीति ।।१ ।।

 

तस्मै होवाच यथा गार्ग्य मरीचयोऽर्कस्यास्तं गच्छतः सर्वा एतस्मिंस्तेजोमण्डल एकीभवन्ति ताः पुनः पुनरुदयतः प्रचरन्त्येवं वै तत्सर्वं परे देवे मनस्येकीभवति

तेन तह्येष पुरुषो शृणोति पश्यति जिघ्रति रसयते स्पृशते नाभिवदते नादत्ते नानन्दयते विसृजते नेयायते स्वपितीत्याचक्षते ।।२ ।।

 

प्राणाग्नय एवैतस्मिन्पुरे जाग्रति

गार्हपत्यो वा एषोऽपानो व्यानोऽन्वाहार्यपचनो यद्रार्हपत्यात्प्रणीयते प्रणयनादाहवनीयः प्राणः ।।३ ।।

 

यदुच्छ्रासनिःश्वासावेतावाहुती समं नयतीति समानः

मनो वाव यजमान इष्टफलमेवोदानः एनं यजमानमहरहर्ब्रह्म गमयति ।।४ ।।

 

अत्रैष देवः स्वप्ने महिमानमनुभवति

यदृष्टं दृष्टमनुपश्यति श्रुतं श्रुतमेवार्थमनुशृणोति देशदिगन्तरैश्च प्रत्यनुभूतं पुनःपुनः प्रत्यनुभवति दृष्टं चादृष्टं श्रुतं चाश्रुतं चानुभूतं चाननुभूतं सच्चासच्च सर्वं पश्यति सर्वः पश्यति ।।५ ।।

 

यदा तेजसाऽभिभूतो भवत्यत्रैष देवः स्वप्नान्न पश्यत्यथ तदैतस्मिञ्छरीर एतत्सुखं भवति ।। ।।

 

यथा सोम्य वयांसि वासोवृक्षं संप्रतिष्ठन्ते

एवं वै तत्सर्वं पर आत्मनि संप्रतिष्ठते ।।७ ।।

पृथिवी पृथिवीमात्रा चापश्चापोमात्रा तेजश्च तेजोमात्रा वायुश्च वायुमात्रा चाकाशश्चाकाशमात्रा चक्षुश्च द्रष्टव्यं श्रोत्र श्रोतव्यं घ्राणं घ्रातव्यं रसश्च रसयितव्यं त्वक्च स्पर्शयितव्यं वाक्च वक्तव्यं हस्तौ चादातव्यं चोपस्थश्चा- ऽऽनन्दयितव्यं पायुश्च विसर्जयितव्यं पादौ गन्तव्यं मनश्च मन्तव्यं बुद्धिश्च बोद्धव्यं चाहंकारश्चाहकर्तव्यं चित्तं चेतयितव्यं तेजश्च विद्योतयितव्यं प्राणश्च विधारयितव्यं ।।८ ।।

 

एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः परेऽक्षर आत्मनि संप्रतिष्ठते ।।९ ।।

 

परमेवाक्षरं प्रतिपद्यते यो वै तदच्छायमशरीरमलोहितं शुभ्रमक्षरं वेदयते यस्तु सोम्य सर्वज्ञः सर्वो भवति तदेष श्लोकः ।।१० ।।

 

विज्ञानात्मा सहदेवैश्च सर्वैः प्राणा भूतानि संप्रतिष्ठन्ति यत्र

तदक्षरं वेदयते यस्तु सोम्य सर्वज्ञः सर्वमेवाविवेशेति ।।११ ।।

 

।। इति चतुर्थः प्रश्नः ।।

 

पञ्चमः प्रश्नः

 

अथ हैनं शैब्यः सत्यकामः पप्रच्छ।

यो वै तद्भगवन्मनुष्येषु प्रायणान्तमोंकारमभिध्यायीत

कतमं वाव तेन लोकं जयतीति ।।१ ।।

 

तस्मै होवाच

एतद्वै सत्यकाम परं चापरं ब्रह्म यदोंकारः

तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति ।।२ ।।

 

यद्येकमात्रमभिध्यायीत तेनैव संवेदितस्तूर्णमेव जगत्यामभिसंपद्यते

तमृचो मनुष्यलोकमुपनयन्ते तत्र तपसा ब्रह्मचर्येण श्रद्धया संपन्नो महिमानमनुभवति ।। ।।

 

 

अथ यदि द्विमात्रेण मनसि संपद्यते सोऽन्तरिक्षं यजुर्भिरुन्नीयते सोमलोकम्।

सोमलोके विभूतिमनुभूय पुनरावर्तते ।।४ ।।

 

यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत तेजसि सूर्ये संपन्नः

यथा पादोदरस्त्वचा विनिर्मुच्यत एवं वै पाप्मना विनिर्मुक्तः सामभिरुन्नीयते ब्रह्मलोकं एतस्माज्जीवस घनात्परात्परं पुरिशयं पुरुषमीक्षते

तदेतौ श्लोकौ भवतः ।।५।।

 

तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता अन्योन्यसक्ता अनविप्रयुक्ताः

क्रियासु बाह्याभ्यन्तरमध्यमासु सम्यक्प्रयुक्तासु कम्पते ज्ञः ।।६।।

 

ऋग्भिरेतं यजुर्भिरन्तरिक्षं सामभिर्यत्तत्कवयो वेदयन्ते

तमोंकारेणैवायतनेनान्वेति विद्वान्यत्तच्छान्तमजरममृतमभयं परं चेति ।।७ ।।

 

।। इति पञ्चमः प्रश्नः ।।

 

षष्ठः प्रश्नः

 

अथ हैनं सुकेशा भारद्वाजः पप्रच्छ

भगवन्हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैतं प्रश्नमपृच्छत षोडशकलं भारद्वाज पुरुषं वेत्थ

तमहं कुमारमब्रुवं नाहमिमं वेद यद्यहमिममवेदिषं कथं ते नावक्ष्यमिति समूलो वा एष परिशुष्यति योऽनृतमभिवदति तस्मान्नार्हाम्यनृतं वक्तुम्

तूष्णीं रथमारुह्य प्रवव्राज तं त्वा पृच्छामि क्वासौ पुरुष इति ।। ।।

 

तस्मै होवाच इहैवान्तःशरीरे सोम्य पुरुषो यस्मिन्नेता षोडशकलाः प्रभवन्तीति ।। ।।

 

ईक्षांचक्रे कस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति ।। ।।

 

 

प्राणमसृजत प्राणाच्छूद्धां खं वायुज्योतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम ।।४।।

यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति भिद्येते तासां नामरूपे समुद्र इत्येवं प्रोच्यते एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति भिद्येते चासां नामरूपे पुरुष इत्येवं प्रोच्यते एषोऽकलोऽमृतो भवति तदेष श्लोकः ।।५।।

 

अरा इव रथनाभौ कला यस्मिन्प्रतिष्ठिताः

तं वेद्यं पुरुषं वेद यथा मा वो मृत्युः परिव्यथा इति ।।६ ।।

 

तान्होवाचैतावदेवाहमेतत्परं ब्रह्म वेद नातः परमस्तीति ।।७ ।।

 

ते तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसीति

नमः परमऋषिभ्यो नमः परमऋषिभ्यः ।।८ ।।

 

भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः

स्थिरैरंगैस्तुष्टुवा सस्तनूभिर्व्यशेम देवहितं यदायुः

स्वस्ति इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः

स्वस्ति नस्तार्थोऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।।

।।ॐ शान्तिः शान्तिः शान्तिः ।।

 

।। इति प्रश्नोपनिषत्संपूर्णा ।।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

मुण्डकोपनिषत्

प्रथमं मुण्डकम्

प्रथमः खण्डः

 

भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः

स्थिरैरङ्गैस्तुष्टुवा सस्तनूभिर्व्यशेम देवहितं यदायुः

स्वस्ति इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः

स्वस्ति नस्तार्थोऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।।

।। शान्तिः शान्तिः शान्तिः ।।

 

ब्रह्मा देवानां प्रथमः संबभूव विश्वस्य कर्ता भुवनस्य गोप्ता

ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह ।।१ ।।

 

अथर्वणे यां प्रवदेत ब्रह्माथर्वा तां पुरोवाचाङ्गिरे ब्रह्मविद्याम्

भारद्वाजाय सत्यवहाय प्राह भारद्वाजोऽङ्गिरसे परावराम् ।।२।।

 

शौनको वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ

कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ।। ।।

 

तस्मै होवाच

द्वे विद्ये वेदितव्ये इति स्म यद्ब्रह्मविदो वदन्ति परा चैवापरा ।।४।।

 

तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति

अथ परा यया तदक्षरमधिगम्यते ।।५ ।।

 

यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुः श्रोत्रं तदपाणिपादम्।

नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः ।।६ ।।

यथोर्णनाभिः सृजते गृह्णते यथा पृथिव्यामोषधयः संभवन्ति

यथा सतः पुरुषात्केशलोमानि तथाक्षरात्संभवतीह विश्वम् ।।७।।

 

तपसा चीयते ब्रह्म ततोऽन्नमभिजायते

अन्नात्प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ।।८।।

 

यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः

तस्मादेतद्ब्रह्म नाम रूपमन्नं जायते ।।९ ।।

 

।। इति प्रथममुण्डके प्रथमः खण्डः ।।

 

द्वितीयः खण्डः

 

तदेतत्सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा संततानि

तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके ।।१ ।।

 

यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने

तदाज्यभागावन्त- रेणाहुतीः प्रतिपादयेत् ।।२।।

 

यस्याग्निहोत्रमदर्शमपौर्णमासमचातुर्मास्यमनाग्रयणमतिथिवर्जित च।

अहुतमवैश्वदेवमविधिना हुतमासप्तमांस्तस्य लोकान्हिनस्ति ॥३॥

 

काली कराली मनोजवा सुलोहिता या सुधूम्रवर्णा

स्फुलिङ्गिनी विश्वरुची देवी लेलायमाना इति सप्त जिह्वाः ।।४।।

 

एतेषु यश्चरते भ्राजमानेषु यथाकालं चाहुतयो ह्याददायन्

तं नयन्त्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोऽधिवासः ।।॥५॥

 

एह्येहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति

प्रियां वाचमभिवदन्त्योऽर्चयन्त्य एष वः पुण्यः सुकृतो ब्रह्मलोकः ।।६।।

 

प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म।

एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति ॥७॥

 

अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः जङ्घन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ।।८ ।।

 

अविद्यायां बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बालाः यत्कर्मिणो प्रवेदयन्ति रागात्तेनातुराः क्षीणलोकाश्च्यवन्ते ।।९।।

 

 

इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः

नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति ।। १० ।।

 

तपःश्रद्धे ये ह्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्ष्यचर्यां चरन्तः

सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः पुरुषो ह्यव्ययात्मा ।।११ ।।

 

परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन

तद्विज्ञानार्थं गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ।।१२ ।।

 

तस्मै विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय

येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ।।१३।।

 

।। इति प्रथममुण्डके द्वितीयः खण्डः।।

 

।। इति प्रथममुण्डकं समाप्तम् ।।

 

 

 

 

 

 

 

 

 

द्वितीयं मुण्डकम्

 

प्रथमः खण्डः

 

तदेतत्सत्यं यथा सुदीप्तात्पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः

तथाक्षराद्विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति ।।१ ।।

 

दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः

अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः ।।२।।

 

एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि

खं वायुर्थ्योतिरापः पृथिवी विश्वस्य धारिणी ।। ।।

 

अग्निर्मूर्धा चक्षुषी चन्द्रसूयौं दिशः श्रोत्रे वाग्विवृताश्च वेदाः

वायुः प्राणो हृदयं विश्वमस्य पद्भयां पृथिवी ह्येष सर्वभूतान्तरात्मा ।।४।

 

तस्मादग्निः समिधो यस्य सूर्यः सोमात्पर्जन्य ओषधयः पृथिव्याम्

पुमान्रेतः सिञ्चति योषितायां बह्वीः प्रजाः पुरुषात्संप्रसूताः ।।५ ।।

 

तस्मादृचः साम यजूꣲ᳭ षि दीक्षा यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च

संवत्सरश्च यजमानश्च लोकाः सोमो यत्र पवते यत्र सूर्यः ।।६ ।।

 

तस्माच्च देवा बहुधा संप्रसूताः साध्या मनुष्याः पशवो वयांसि

प्राणापानौ व्रीहियवौ तपश्च श्रद्धा सत्यं ब्रह्मचर्यं विधिश्च ।।७ ।।

 

सप्त प्राणाः प्रभवन्ति तस्मात्सप्तार्चिषः समिधः सप्त होमाः

सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया निहिताः सप्त सप्त ।।८ ।।

 

अतः समुद्रा गिरयश्च सर्वेऽस्मात्स्यन्दन्ते सिन्धवः सर्वरूपाः

अतश्च सर्वा ओषधयो रसश्च येनैष भूतैस्तिष्ठते ह्यन्तरात्मा ।।९ ।।

 

पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम्

एतद्यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरतीह सोम्य ।।१० ।।

 

।। इति द्वितीयमुण्डके प्रथमः खण्डः ।।

 

 

द्वितीयः खण्डः

 

आविः संनिहितं गुहाचरं नाम महत्पदमत्रैतत्समर्पितम्।

एजत्प्राणन्निमिषच्च यदेतज्जानथ सदसद्वरेण्यं परं विज्ञानाद्यद्वरिष्ठं प्रजानाम् ।।१ ।।

 

यदर्चिमद्यदणुभ्योऽणु यस्मिँल्लोका निहिता लोकिनश्च

तदेतदक्षरं ब्रह्म प्राणस्तदु वाङ्मनः तदेतत्सत्यं तदमृतं तद्वेद्धव्यं सोम्य विद्धि ।।२ ।।

 

धनुगृहीत्वौपनिषदं महास्त्रं शरं ह्युपासानिशितं संदधीत

आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सोम्य विद्धि ।।३ ।।

 

प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते

अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ।।४।।

 

यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः

तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः ।।५ ।।

 

अरा इव रथनाभौ संहता यत्र नाड्यः एषोऽन्तश्चरते बहुधा जायमानः

ओमित्येवं ध्यायथ आत्मानं स्वस्ति वः पाराय तमसः परस्तात् ।।६ ।।

 

यः सर्वज्ञः सर्वविद्यस्यैष महिमा भुवि।

दिव्ये ब्रह्मपुरे ह्येष व्योमन्यात्मा प्रतिष्ठितः ।।७।।

 

मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्ने हृदयं सन्निधाय

तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभाति ।।८।।

 

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः।

क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ।।९ ।।

 

हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम्

तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः ।। १० ।।

 

तत्र सूर्यो भाति चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः

तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ।। ११ ।।

 

ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण

अधश्चोर्ध्वं प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम् ।।१२।।

 

।। इति द्वितीयमुण्डके द्वितीयः खण्डः ।।

।। इति द्वितीयमुण्डकं समाप्तम् ।।

 

तृतीयं मुण्डकम्

 

प्रथमः खण्डः

 

द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते

तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ।।१ ।।

 

समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः

जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ।।२।।

 

यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्

तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ॥३ ।।

 

प्राणो ह्येष यः सर्वभूतैर्विभाति विजानन्विद्वान्भवते नातिवादी

आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः ।।४ ।।

 

सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम्

अन्तःशरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः ।।५ ।।

 

सत्यमेव जयते नानृतं सत्येन पन्था विततो देवयानः

येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत्सत्यस्य परमं निधानम् ।।६ ।।

 

बृहच्च तद्दिव्यमचिन्त्यरूपं सूक्ष्माच्च तत्सूक्ष्मतरं विभाति

दूरात्सुदूरे तदिहान्तिके पश्यत्स्विहैव निहितं गुहायाम् ॥७॥

 

चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा

ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः ।।८ ।।

 

एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन्प्राणः पञ्चधा संविवेश

प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन्विशुद्धे विभवत्येष आत्मा ।।९

 

यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान्

तं तं लोकं जयते तांश्च कामांस्तस्मादात्मज्ञं ह्यर्चयेद् भूतिकामः ।।१०।।

 

।। इति तृतीयमुण्डके प्रथमः खण्डः ।।

 

द्वितीयः खण्डः

 

वेदैतत्परमं ब्रह्म धाम यत्र विश्वं निहितं भाति शुभ्रम्

उपासते पुरुषं ये ह्यकामास्ते शुक्रमेतदतिवर्तन्ति धीराः ।।१ ।।

 

कामान्यः कामयते मन्यमानः कामभिर्जायते तत्र तत्र

पर्याप्तकामस्य कृतात्मनस्त्विहैव सर्वे प्रविलीयन्ति कामाः ।।२ ।।

 

नायमात्मा प्रवचनेन लभ्यो मेधया बहुना श्रुतेन

यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ।।३ ।।

 

नायमात्मा बलहीनेन लभ्यो प्रमादात्तपसो वाप्यलिङ्गात्

एतैरुपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्मधाम ।।४ ।।

 

संप्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्ताः

ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशन्ति ।।५ ।।

 

वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः

ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे ।।६।।

 

गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु

कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति ।।७।।

 

यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय

तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ।।८।।

 

यो वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति नास्याब्रह्मवित्कुले भवति

तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति ।।९ ।।

 

तदेतदृचाभ्युक्तम्-

क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्षिं श्रद्धयन्तः

तेषामेवैता ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम् ।।१०।।

 

तदेतत्सत्यमृषिरङ्गिराः पुरोवाच नैतदचीर्णव्रतोऽधीते

नमः परमऋषिभ्यो नमः परमऋषिभ्यः ।।११।।

 

।। इति तृतीयमुण्डके द्वितीयः खण्डः ।।

।। इति तृतीयमुण्डकं समाप्तम् ।।

 

भद्र कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवाꣲ᳭ सस्तनूभिर्व्यशेम देवहितं यदायुः स्वस्ति इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्थोऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।। शान्तिः शान्तिः शान्तिः ।।

 

।। इति मुण्डकोपनिषत्संपूर्णा ।।

माण्डूक्योपनिषत्

 

भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः

स्थिरैरङ्गैस्तुष्टुवाꣲ᳭ सस्तनूभिर्व्यशेम देवहितं यदायुः

स्वस्ति इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः

स्वस्ति नस्तार्थोऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।।

शान्तिः शान्तिः शान्तिः ।।

 

ओमित्येतदक्षरमिदंꣲ᳭ सर्वं तस्योपव्याख्यानं भूतं भवद्भविष्य- दिति सर्वमोंकार एव

यच्चान्यत्त्रिकालातीतं तदप्योंकार एव ।।१ ।।

 

सर्वꣲ᳭ ह्येतद् ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ।।२।।

 

जागरितस्थानो बहिष्प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः ।।३ ।।

 

स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्त- भुक्तैजसो द्वितीयः पादः ।।४ ।।

 

यत्र सुप्तो कञ्चन कामं कामयते कञ्चन स्वप्नं पश्यति तत्सुषुप्तम्

सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक्चेतोमुखः प्राज्ञस्तृतीयः पादः ।।५ ।।

 

एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ।।६ ।।

 

नान्तःप्रज्ञं बहिष्प्रज्ञं नोभयतःप्रज्ञं प्रज्ञानघनं प्रज्ञ नाप्रज्ञम् अदृश्यमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्म-

प्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते आत्मा विज्ञेयः ।।७ ।।

 

सोऽयमात्माध्यक्षरमोंकारोऽधिमात्रं पादा मात्रा मात्राश्च पादा अकार उकारो मकार इति ।।८ ।।

 

जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्राऽऽप्तेरादिमत्त्वाद्वा- ऽऽप्नोति वै सर्वान्कामानादिश्च भवति एवं वेद ।।९ ।।

 

स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्षादुभय-

त्वाद्बोत्कर्षति वै ज्ञानसंततिं समानश्च भवति नास्याब्रह्मवित्कुले भवति एवं वेद ।।१०।।

 

सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा मिनोति वा इदं सर्वमपीतिश्च भवति एवं वेद ।।११ ।।

 

अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवमोंकार आत्मैव संविशत्यात्मनाऽऽत्मानं एवं वेद ।। १२ ।।

 

भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवाꣲ᳭ सस्तनूभिर्व्यशेम देवहितं यदायुः स्वस्ति इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्थोऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।। शान्तिः शान्तिः शान्तिः ।।

 

।। इति माण्डूक्योपनिषत्संपूर्णा ।।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

तैत्तिरीयोपनिषत्

शीक्षावल्ली

प्रथमोऽनुवाकः

 

शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा शं इन्द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षं ब्रह्मासि त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि ऋतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवतु अवतु माम् अवतु वक्तारम् शान्तिः शान्तिः शान्तिः ।।

।। इति प्रथमोऽनुवाकः ।।

 

द्वितीयोऽनुवाकः

 

शीक्षां व्याख्यास्यामः वर्णः स्वरः मात्रा बलम् साम संतानः इत्युक्तः शीक्षाध्यायः ।।१ ।।

 

।। इति द्वितीयोऽनुवाकः ।।

 

तृतीयोऽनुवाकः

 

सह नौ यशः सह नौ ब्रह्मवर्चसम् अथातः ꣲ᳭ हिताया उपनिषदं व्याख्यास्यामः। पञ्चस्वधिकरणेषु अधिलोक- मधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम्। ता महासꣲ᳭ हिता इत्या- ऽऽचक्षते अथाधिलोकम् पृथिवी पूर्वरूपम् द्यौरुत्तररूपम् आकाशः सन्धिः ।।१।।

 

वायुः सन्धानम् इत्यधिलोकम् अथाधिज्यौतिषम् अग्निः पूर्वरूपम् आदित्य उत्तररूपम् आपः सन्धिः वैद्युतः सन्धानम् इत्यधिज्यौतिषम् अथाधिविद्यम् आचार्यः पूर्वरूपम् ।।२।।

 

अन्तेवास्युत्तररूपम्। विद्या सन्धिः प्रवचनꣲ᳭ सन्धानम् इत्यधिविद्यम् अथाधिप्रजम् माता पूर्वरूपम्। पितोत्तररूपम् प्रजा सन्धिः प्रजननꣲ᳭ सन्धानम् इत्यधिप्रजम् ।।३।।

 

अथाध्यात्मम् अधरा हनुः पूर्वरूपम् उत्तरा हनुरुत्तररूपम् वाक्सन्धिः जिह्वा सन्धानम् इत्यध्यात्मम् इतीमा महासꣲ᳭ हिताः एवमेता महासꣲ᳭ हिता व्याख्याता वेद संधीयते प्रजया पशुभिः ब्रह्मवर्चसेनान्नाद्येन सुवर्गेण लोकेन ।।४।।

 

।। इति तृतीयोऽनुवाकः ।।

 

चतुर्थोऽनुवाकः

 

यश्छन्दसामृषभो विश्वरूपः छन्दोभ्योऽध्यमृतात्संबभूव मेन्द्रो मेधया स्पृणोतु अमृतस्य देवधारणो भूयासम् शरीरं मे विचर्षणम्। जिह्वा मे मधुमत्तमा कर्णाभ्यां भूरि विश्रुवम् ब्रह्मणः कोशोऽसि मेधया पिहितः श्रुतं मे गोपाय आवहन्ती वितन्वाना ।।।१ ।।

 

कुर्वाणाऽचीरमात्मनः वासाꣲ᳭ सि मम गावश्च अन्नपाने सर्वदा ततो मे श्रियमावह। लोमशां पशुभिः सह स्वाहा। आमायन्तु ब्रह्मचारिणः स्वाहा विमायन्तु ब्रह्मचारिणः स्वाहा प्रमायन्तु ब्रह्मचारिणः स्वाहा। दमायन्तु ब्रह्मचारिणः स्वाहा। शमायन्तु ब्रह्मचारिणः स्वाहा ।।२।।

 

यशो जनेऽसानि स्वाहा श्रेयान्वस्यसोऽसानि स्वाहा तं त्वा भग प्रविशानि स्वाहा। मा भग प्रविश स्वाहा। तस्मिन्सहस्रशाखे निभगाहं त्वयि मृजे स्वाहा यथापः प्रवता यन्ति यथा मासा अहर्जरम् एवं मां ब्रह्मचारिणः धातरायन्तु सर्वतः स्वाहा प्रतिवेशोऽसि प्र मा पाहि प्र मा पद्यस्व ।। ।।

 

।। इति चतुर्थोऽनुवाकः ।।

 

पश्चमोऽनुवाकः

 

भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः तासामु स्मैतां चतुर्थीम् माहाचमस्यः प्रवेदयते मह इति तद्ब्रह्म आत्मा अङ्गान्यन्या देवताः भूरिति वा अयं लोकः भुव इत्यन्तरिक्षम् सुवरित्यसौ लोकः ।।१।।

 

मह इत्यादित्यः आदित्येन वाव सर्वे लोका महीयन्ते भूरिति वा अग्निः। भुव इति वायुः। सुवरित्यादित्यः मह इति चन्द्रमाः। चन्द्रमसा वाव सर्वाणि ज्योतीꣲ᳭ षि महीयन्ते भूरिति वा ऋचः भुव इति सामानि

सुवरिति यजूꣲ᳭ षि ।।२।।

 

मह इति ब्रह्म ब्रह्मणा वाव सर्वे वेदा महीयन्ते भूरिति वै प्राणः भुव इत्यपानः सुवरिति व्यानः मह इत्यन्नम् अन्नेन वाव सर्वे प्राणा महीयन्ते। ता वा एताश्चतस्रश्चतुर्धा चतस्रश्चतम्रो व्याहृतयः ता यो वेद। वेद ब्रह्म सर्वेऽस्मै देवा बलिमावहन्ति ।।३ ।।

 

 ।। इति पञ्चमोऽनुवाकः ।।

 

षष्ठोऽनुवाकः

 

एषोऽन्तहृदय आकाशः तस्मिन्नयं पुरुषो मनोमयः अमृतो हिरण्मयः अन्तरेण तालुके एष स्तन इवावलम्बते सेन्द्रयोनिः यत्रासौ केशान्तो विवर्तते व्यपोह्य शीर्षकपाले भूरित्यग्नौ प्रतितिष्ठति भुव इति वायौ ।।१।।

 

सुवरित्यादित्ये। मह इति ब्रह्मणि आप्नोति स्वाराज्यम् आप्नोति मनसस्पतिम् वाक्पतिश्चक्षुष्पतिः श्रोत्रपतिर्विज्ञान- पतिः एतत्ततो भवति आकाशशरीरं ब्रह्म सत्यात्म प्राणारामं मन आनन्दम् शान्ति समृद्धममृतम्। इति प्राचीनयोग्योपास्स्व ।।२ ।।

 

।। इति षष्ठोऽनुवाकः ।।

 

सप्तमोऽनुवाकः

 

पृथिव्यन्तरिक्ष द्यौर्दिशोऽवान्तरदिशः अग्निर्वायु- रादित्यश्चन्द्रमा नक्षत्राणि आप ओषधयो वनस्पतय आकाश आत्मा इत्यधिभूतम्। अथाध्यात्मम् प्राणो व्यानोऽपान उदानः समानः चक्षुः श्रोत्रं मनो वाक् त्वक्

चर्म माꣲ᳭  ꣲ᳭  स्नावास्थि मज्जा एतदधिविधाय ऋषिरवोचत् पाङ्क्तं वा इदꣲ᳭  सर्वम्। पाङ्ङ्क्तेनैव पाङ्क्तꣲ᳭  स्पृणोतीति ।।१ ।।

इति सप्तमोऽनुवाकः ।।

 

अष्टमोऽनुवाकः

 

ओमिति ब्रह्म ओमितीदꣲ᳭  सर्वम् ओमित्येतदनुकृतिर्ह स्म वा अप्यो श्रावयेत्याश्रावयन्ति ओमिति सामानि गायन्ति ꣲ᳭  शोमिति शस्त्राणि ꣲ᳭  सन्ति ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति ओमिति ब्रह्मा प्रसौति ओमित्यग्निहोत्रमनुजानाति ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मोपाप्नवानीति ब्रह्मैवोपाप्नोति ।।१ ।।

 

।। इत्यष्टमोऽनुवाकः ।।

 

नवमोऽनुवाकः

 

ऋतं स्वाध्यायप्रवचने सत्यं स्वाध्यायप्रवचने तपश्च स्वाध्यायप्रवचने दमश्च स्वाध्यायप्रवचने शमश्च स्वाध्यायप्रवचने अग्नयश्च स्वाध्यायप्रवचने अग्निहोत्रं स्वाध्यायप्रवचने च। अतिथयश्च स्वाध्यायप्रवचने मानुषं स्वाध्यायप्रवचने प्रजा स्वाध्यायप्रवचने च। प्रजनश्च स्वाध्यायप्रवचने च। प्रजातिश्च स्वाध्यायप्रवचने च। सत्यमिति सत्यवचा राथीतरः तप इति तपोनित्यः पौरुशिष्टिः स्वाध्यायप्रवचने एवेति नाको मौद्रल्यः तद्धि तपस्तद्धि तपः ।।१ ।।

 

।। इति नवमोऽनुवाकः ।।

दशमोऽनुवाकः

 

अहं वृक्षस्य रेरिवा। कीर्तिः पृष्ठं गिरेरिव ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि द्रविणꣲ᳭  सवर्चसम् सुमेधा अमृतोक्षितः इति त्रिशङ्कोर्वेदानुवचनम् ।।१ ।।

 

।। इति दशमोऽनुवाकः ।।

 

एकादशोऽनुवाकः

 

वेदमनूच्याचार्योऽन्तेवासिनमनुशास्ति सत्यं वद धर्म चर स्वाध्यायान्मा प्रमदः आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः सत्यान्न प्रमदितव्यम्। धर्मान्न प्रमदितव्यम् कुशलान्न प्रमदितव्यम् भूत्यै प्रमदितव्यम् स्वाध्याय- प्रवचनाभ्यां प्रमदितव्यम् ।।१ ।।

 

देवपितृकार्याभ्यां प्रमदितव्यम्। मातृदेवो भव पितृदेवो भव आचार्यदेवो भव अतिथिदेवो भव यान्यनवद्यानि कर्माणि तानि सेवितव्यानि नो इतराणि यान्यस्माकꣲ᳭  सुचरितानि तानि त्वयोपास्यानि ।।२ ।।

 

नो इतराणि ये के चास्मच्छ्रेयाꣲ᳭  सो ब्राह्मणाः तेष त्वयाऽऽसनेन प्रश्वसितव्यम् श्रद्धया देयम् अश्रद्धयाऽदेयम् श्रिया देयम् ह्रिया देयम् भिया देयम्। संविदा देयम् अथ यदि ते कर्म विचिकित्सा वा वृत्तविचिकित्सा वा स्यात् ।।३।।

 

ये तत्र ब्राह्मणाः संमर्शिनः युक्ता आयुक्ताः अलूक्षा धर्मकामाः स्युः। यथा ते तत्र वर्तेरन् तथा तत्र वर्तेथाः। अथाऽभ्याख्यातेषु ये तत्र ब्राह्मणाः संमर्शिनः युक्ता आयुक्ताः अलूक्षा धर्मकामाः स्युः यथा ते तेषु वर्तेरन् तथा तेषु वर्तेथाः एष आदेशः एष उपदेशः एषा वेदोपनिषत् एतदनुशासनम् एवमुपासितव्यम् एवमु चैतदुपास्यम् ।।

 

।। इत्येकादशोऽनुवाकः ।।

 

द्वादशोऽनुवाकः

 

शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा शं इन्द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षं ब्रह्मासि त्वामेव प्रत्यक्षं ब्रह्मावादिषम् ऋतमवादिषम् सत्यमवादिषम् तन्मामावीत्। तद्वक्तारमावीत् आवीन्माम् आवीद्वक्तारम् शान्तिः शान्तिः शान्तिः ।।

 

।। इति द्वादशोऽनुवाकः ।।

 

 ।। इति शीक्षावल्ली समाप्ता ।।

 

 

ब्रह्मानन्दवल्ली

 

प्रथमोऽनुवाकः

 

सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै। तेजस्वि नावधीतमस्तु मा विद्विषावहै ।। शान्तिः शान्तिः शान्तिः ।।

 

ब्रह्मविदाप्नोति परम् तदेषाऽभ्युक्ता सत्यं ज्ञानमनन्तं ब्रह्म यो वेद निहितं गुहायां परमे व्योमन् सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चितेति तस्माद्वा एतस्मादात्मन आकाशः संभूतः आकाशाद्वायुः वायोरग्निः अग्नेरापः अद्भयः पृथिवी पृथिव्या ओषधयः ओषधीभ्योऽन्नम् अन्नात्पुरुषः वा एष पुरुषोऽन्नरसमयः तस्येदमेव शिरः अयं दक्षिणः पक्षः। अयमुत्तरः पक्षः अयमात्मा इदं पुच्छं प्रतिष्ठा तदप्येष श्लोको भवति

 

।। इति प्रथमोऽनुवाकः ।।

 

द्वितीयोऽनुवाकः

 

अन्नाद्वै प्रजाः प्रजायन्ते याः काश्च पृथिवीꣲ᳭  श्रिताः अथो अन्नेनैव जीवन्ति अथैनदपि यन्त्यन्ततः अन्नꣲ᳭  हि भूतानां ज्येष्ठम् तस्मात्सर्वोषधमुच्यते सर्वं वै तेऽन्नमाप्नुवन्ति येऽन्नं ब्रह्मोपासते अन्नꣲ᳭  हि भूतानां ज्येष्ठम् तस्मात्सर्वोषधमुच्यते अन्नाद्भूतानि जायन्ते जातान्यन्नेन वर्धन्ते अद्यतेऽत्ति भूतानि तस्मादन्नं तदुच्यत इति तस्माद्वा एतस्मादन्नरसमयात् अन्योऽन्तर आत्मा प्राणमयः तेनैष पूर्णः वा एष पुरुषविध एव तस्य पुरुषविधताम् अन्वयं पुरुषविधः तस्य प्राण एव शिरः व्यानो दक्षिणः पक्षः अपान उत्तरः पक्षः आकाश आत्मा पृथिवी पुच्छं प्रतिष्ठा तदप्येष श्लोको भवति

 

।। इति द्वितीयोऽनुवाकः ।।

 

तृतीयोऽनुवाकः

 

प्राणं देवा अनु प्राणन्ति मनुष्याः पशवश्च ये। प्राणो हि भूतानामायुः तस्मात्सर्वायुषमुच्यते सर्वमेव आयुर्यन्ति ये प्राणं ब्रह्मोपासते प्राणो हि भूतानामायुः तस्मात्सर्वायुषमुच्यत इति तस्यैष एव शारीर आत्मा यः पूर्वस्य तस्माद्वा एतस्मात्प्राणमयात् अन्योऽन्तर आत्मा मनोमयः तेनैष पूर्णः वा एष पुरुषविध एव तस्य पुरुषविधताम् अन्वयं पुरुषविधः तस्य यजुरेव शिरः ऋग्दक्षिणः पक्षः सामोत्तरः पक्षः आदेश आत्मा अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा तदप्येष श्लोको भवति

 

।। इति तृतीयोऽनुवाकः ।।

 

चतुर्थोऽनुवाकः

 

यतो वाचो निवर्तन्ते अप्राप्य मनसा सह आनन्दं ब्रह्मणो विद्वान् बिभेति कदाचनेति तस्यैष एव शारीर आत्मा यः पूर्वस्य तस्माद्वा एतस्मान्मनोमयात् अन्योऽन्तर आत्मा विज्ञानमयः तेनैष पूर्णः वा एष पुरुषविध एव। तस्य पुरुषविधताम् अन्वयं पुरुषविधः तस्य श्रद्धेव शिरः। ऋतं दक्षिणः पक्षः सत्यमुत्तरः पक्षः योग आत्मा महः पुच्छं प्रतिष्ठा तदप्येष श्लोको भवति

 

।। इति चतुर्थोऽनुवाकः ।।

 

पश्चमोऽनुवाकः

 

विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि विज्ञानं देवाः सर्वे ब्रह्म ज्येष्ठमुपासते विज्ञानं ब्रह्म चेद्वेद तस्माच्चेन्न प्रमाद्यति शरीरे पाप्मनो हित्वा सर्वान्कामान्समश्नुत इति तस्यैष एव शारीर आत्मा यः पूर्वस्य तस्माद्वा एतस्माद्विज्ञानमयात् अन्योऽन्तर आत्मानन्दमयः तेनैष पूर्णः वा एष पुरुषविध एव तस्य पुरुषविधताम् अन्वयं पुरुषविधः तस्य प्रियमेव शिरः मोदो दक्षिणः पक्षः प्रमोद उत्तरः पक्षः आनन्द आत्मा ब्रह्म पुच्छं प्रतिष्ठा तदप्येष श्लोको भवति ।।

 

।। इति पश्चमोऽनुवाकः ।।

 

 

 

 

षष्ठोऽनुवाकः

 

असन्नेव भवति असद्ब्रह्मेति वेद चेत् अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुरिति तस्यैष एव शारीर आत्मा यः पूर्वस्य अथातोऽनुप्रश्नाः उताविद्वानमुं लोकं प्रेत्य। कश्चन गच्छती ३। आहो विद्वानमुं लोकं प्रेत्य कश्चित्समश्नुता उ। सोऽकामयत बहु स्यां प्रजायेयेति तपोऽतप्यत। तपस्तप्त्वा इदंꣲ᳭  सर्वमसृजत यदिदं किंच तत्सृष्ट्वा तदेवानुप्राविशत् तदनुप्रविश्य सच्च त्यच्चाभवत् निरुक्तं चानिरुक्तं निलयनं चानिलयनं विज्ञानं चाविज्ञानं सत्यं चानृतं सत्यमभवत् यदिदं किंच तत्सत्यमित्याचक्षते तदप्येष श्लोको भवति

।। इति षष्ठोऽनुवाकः ।।

 

सप्तमोऽनुवाकः

असद्वा इदमग्र आसीत्। ततो वै सदजायत तदात्मानꣲ᳭  स्वयमकुरुत तस्मात्तत्सुकृतमुच्यत इति यद्वै तत्सुकृतम् रसो वै सः। रसꣲ᳭  ह्येवायं लब्ध्वानन्दी भवति को ह्येवान्यात्कः प्राण्यात् यदेष आकाश आनन्दो स्यात् एष ह्येवानन्दयाति यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते अथ सोऽभयं गतो भवति यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते अथ तस्य भयं भवति तत्त्वेव भयं विदुषोऽमन्वानस्य तदप्येष श्लोको भवति

।। इति सप्तमोऽनुवाकः ।।

अष्टमोऽनुवाकः

 

भीषाऽस्माद्वातः पवते भीषोदेति सूर्यः भीषाऽस्मा- दग्निश्चन्द्रश्च मृत्युर्धावति पञ्चम इति सैषाऽऽनन्दस्य मीमाꣲ᳭  सा भवति युवा स्यात्साधु युवाध्यायकः आशिष्ठो द्रढिष्ठो बलिष्ठः तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् एको मानुष आनन्दः ते ये शतं मानुषा आनन्दाः ।।१।।

 

एको मनुष्यगन्धर्वाणामानन्दः श्रोत्रियस्य चाकामहतस्य ते ये शतं मनुष्यगन्धर्वाणामानन्दाः एको देवगन्धर्वाणामानन्दः श्रोत्रियस्य चाकामहतस्य ते ये शतं देवगन्धर्वाणामानन्दाः एकः पितणां चिरलोकलोकानामानन्दः श्रोत्रियस्य चाकामहतस्य ते ये शतं पितणां चिरलोकलोकानामानन्दाः एक आजानजानां देवानामानन्दः ।।२।।

श्रोत्रियस्य चाकामहतस्य ते ये शतमाजानजानां देवानामानन्दाः एकः कर्मदेवानां देवानामानन्दः ये कर्मणा देवानपियन्ति श्रोत्रियस्य चाकामहतस्य ते ये शतं कर्मदेवानां देवानामानन्दाः एको देवानामानन्दः श्रोत्रियस्य चाकामहतस्य ते ये शतं देवानामानन्दाः एक इन्द्रस्यानन्दः ।।३।।

 

श्रोत्रियस्य चाकामहतस्य ते ये शतमिन्द्रस्यानन्दाः एको बृहस्पतेरानन्दः श्रोत्रियस्य चाकामहतस्य ते ये शतं बृहस्पतेरानन्दाः एकः प्रजापतेरानन्दः श्रोत्रियस्य चाकामहतस्य ते ये शतं प्रजापतेरानन्दाः एको ब्रह्मण आनन्दः श्रोत्रियस्य चाकामहतस्य ।।४।।

 

एतं यश्चायं पुरुषे यश्चासावादित्ये। एकः एवंवित् अस्माल्लोकात्प्रेय एतमन्नमयमात्मानमुपसंक्रामति प्राणमयमात्मानमुपसंक्रामति एतं मनोमयमात्मानमुपसंक्रामति एतं विज्ञानमयमात्मानमुपसंक्रामति एतमानन्दमयमात्मानमुपसंक्रामति तदप्येष श्लोको भवति

 

।। इत्यष्टमोऽनुवाकः ।।

 

नवमोऽनुवाकः

 

यतो वाचो निवर्तन्ते अप्राप्य मनसा सह आनन्दं ब्रह्मणो विद्वान् बिभेति कुतश्चनेति एतꣲ᳭  वाव तपति किमहꣲ᳭  साधु नाकरवम् किमहं पापमकरवमिति एवं विद्वानेते आत्मान स्पृणुते। उभे ह्येवैष एते आत्मानꣲ᳭  स्पृणुते एवं वेद। इत्युपनिषत्

 

।। इति नवमोऽनुवाकः ।।

 

।। इति ब्रह्मानन्दवल्ली समाप्ता ।।

 

 

 

 

 

 

भृगुवल्ली

 

प्रथमोऽनुवाकः

 

भृगुर्वै वारुणिः। वरुणं पितरमुपससार अधीहि भगवो ब्रह्मेति तस्मा एतत्प्रोवाच अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति ꣲ᳭  होवाच यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व तद्ब्रह्मेति तपोऽतप्यत तपस्तप्त्वा

 

।। इति प्रथमोऽनुवाकः ।।

 

द्वितीयोऽनुवाकः

 

अन्नं ब्रह्मेति व्यजानात्। अन्नाद्धयेव खल्विमानि भूतानि जायन्ते अन्नेन जातानि जीवन्ति अन्नं प्रयन्त्यभिसंविशन्तीति तद्विज्ञाय पुनरेव वरुणं पितरमुपससार अधीहि भगवो ब्रह्मेति ꣲ᳭  होवाच तपसा ब्रह्म विजिज्ञासस्व तपो ब्रह्मेति तपोऽतप्यत तपस्तप्त्वा

।। इति द्वितीयोऽनुवाकः ।।

 

तृतीयोऽनुवाकः

 

प्राणो ब्रह्मेति व्यजानात्। प्राणाद्धयेव खल्विमानि भूतानि जायन्ते प्राणेन जातानि जीवन्ति प्राणं प्रयन्त्यभिसंविशन्तीति तद्विज्ञाय पुनरेव वरुणं पितरमुपससार अधीहि भगवो ब्रह्मेति ꣲ᳭  होवाच तपसा ब्रह्म विजिज्ञासस्व तपो ब्रह्मेति तपोऽतप्यत तपस्तप्त्वा ।।

 ।। इति तृतीयोऽनुवाकः ।।

 

चतुर्थोऽनुवाकः

 

मनो ब्रह्मेति व्यजानात्। मनसो ह्येव खल्विमानि भूतानि जायन्ते मनसा जातानि जीवन्ति मनः प्रयन्त्यभिसंविशन्तीति तद्विज्ञाय पुनरेव वरुणं पितरमुपससार अधीहि भगवो ब्रह्मेति ꣲ᳭  होवाच तपसा ब्रह्म विजिज्ञासस्व तपो ब्रह्मेति तपोऽतप्यत तपस्तप्त्वा

 

।। इति चतुर्थोऽनुवाकः ।।

 

पञ्चमोऽनुवाकः

 

विज्ञानं ब्रह्मेति व्यजानात् विज्ञानाद्धयेव खल्विमानि भूतानि जायन्ते। विज्ञानेन जातानि जीवन्ति विज्ञानं प्रयन्त्यभि- संविशन्तीति तद्विज्ञाय पुनरेव वरुणं पितरमुपससार। अधीहि भगवो ब्रह्मेति ꣲ᳭  होवाच तपसा ब्रह्म विजिज्ञासस्व। तपो ब्रह्मेति तपोऽतप्यत तपस्तप्त्वा

।। इति पञ्चमोऽनुवाकः ।।

 

षष्ठोऽनुवाकः

 

आनन्दो ब्रह्मेति व्यजानात् आनन्दाद्धयेव खल्विमानि भूतानि जायन्ते आनन्देन जातानि जीवन्ति आनन्दं प्रयन्त्यभि- संविशन्तीति सैषा भार्गवी वारुणी विद्या परमे व्योमन्प्रतिष्ठिता सय एवं वेद प्रतितिष्ठति अन्नवान्नन्नादो भवति महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन महान्कीर्त्या

 

।। इति षष्ठोऽनुवाकः ।।

 

सप्तमोऽनुवाकः

 

अन्नं निन्द्यात् तद्व्रतम् प्राणो वा अन्नम् शरीरमन्नादम् प्राणे शरीरं प्रतिष्ठितम् शरीरे प्राणः प्रतिष्ठितः तदेतदन्नमन्ने प्रतिष्ठितम् एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति अन्नवानन्नादो भवति महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन महान्कीर्त्या

 

।। इति सप्तमोऽनुवाकः ।।

 

 

 

 

 

अष्टमोऽनुवाकः

 

अन्नं परिचक्षीत तद्ब्रतम् आपो वा अन्नम्। ज्योतिरन्नादम् अप्सु ज्योतिः प्रतिष्ठितम्। ज्योतिष्यापः प्रतिष्ठिताः। तदेतदन्नमन्ने प्रतिष्ठितम्। एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति अन्नवानन्नादो भवति महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन महान्कीर्त्या

 

।। इत्यष्टमोऽनुवाकः ।।

 

नवमोऽनुवाकः

 

अन्नं बहु कुर्वीत तव्रतम् पृथिवी वा अन्नम्। आकाशोऽन्नादः। पृथिव्यामाकाशः प्रतिष्ठितः। आकाशे पृथिवी प्रतिष्ठिता तदेतदन्नमन्ने प्रतिष्ठितम्। एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति अन्नवानन्नादो भवति महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन महान्कीर्त्या

 

।। इति नवमोऽनुवाकः ।।

 

दशमोऽनुवाकः

 

कंचन वसतौ प्रत्याचक्षीत तद्भतम् तस्माद्यया कया विधया बह्वन्नं प्राप्नुयात् अराध्यस्मा अन्नमित्याचक्षते एतद्वै मुखतोऽन्नꣲ᳭  राद्धम् मुखतोऽस्मा अन्नꣲ᳭  राध्यते एतद्वै मध्यतोऽन्नꣲ᳭  राद्धम्। मध्यतोऽस्मा अन्नꣲ᳭  राध्यते एतद्वा अन्ततोऽन्नꣲ᳭  राद्धम् अन्ततोऽस्मा अन्नꣲ᳭  राध्यते ।।१।।

 

एवं वेद क्षेम इति वाचि योगक्षेम इति प्राणापानयोः कर्मेति हस्तयोः गतिरिति पादयोः विमुक्तिरिति पायौ इति मानुषीः समाज्ञाः। अथ दैवीः तृप्तिरिति वृष्टौ बलमिति विद्युति ।।२।।

 

यश इति पशुषु ज्योतिरिति नक्षत्रेषु प्रजातिरमृतमानन्द इत्युपस्थे सर्वमित्याकाशे तत्प्रतिष्ठेत्युपासीत प्रतिष्ठावान् भवति तन्मह इत्युपासीत महान्भवति तन्मन इत्युपासीत मानवान्भवति ।।३।।

 

तन्नम इत्युपासीत नम्यन्तेऽस्मै कामाः तद्ब्रह्मेत्युपासीत ब्रह्मवान् भवति तद्ब्रह्मणः परिमर इत्युपासीत पर्येणं प्रियन्ते द्विषन्तः सपत्नाः परि येऽप्रिया भ्रातृव्याः यश्चायं पुरुषे यश्चासावादित्ये एकः ।।४।।

 

एतं एवंवित्। अस्माल्लोकात्प्रेत्य एतमन्नमयमात्मा- नमुपसंक्रम्य एतं प्राणमयमात्मानमुपसंक्रम्य मनोमयमात्मानमुपसंक्रम्य एतं विज्ञानमयमात्मानमुपसंक्रम्य एतमानन्दमयमात्मानमुपसंक्रम्य इमाँल्लोकान्कामान्नीकामरूप्यनु- संचरन् एतत्साम गायन्नास्ते हा३वु हाश्वु हाश्वु ।।५।।

 

अहमन्नमहमन्नमहमन्नम्। अहमन्नादो३ऽहमन्नादो ३ऽहमन्नादः अहꣲ᳭ श्लोककृदहꣲ᳭ श्लोककृदहꣲ᳭  श्लोककृत्। अहमस्मि प्रथमजा ऋता३ऽस्य पूर्व देवेभ्योऽमृतस्य ना३भायि यो मा ददाति इदेव मा३वाः अहमन्नमन्नमदन्तमा३द्मि अहं विश्वं भुवनमभ्यभवा३म् सुवर्न ज्योतीः एवं वेद इत्युपनिषत् ।। ।।

 

इति दशमोऽनुवाकः

 

।। इति भृगुवल्ली समाप्ता ।।

 

शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा। शं इन्द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षं ब्रह्मासि त्वामेव प्रत्यक्षं ब्रह्मा वादिषम्। ऋतमवादिषम्। सत्यमवादिषम् तन्मामावीत्। तद्वक्तारमावीत्। आवीन्माम् आवीद्वक्तारम् शान्तिः शान्तिः शान्तिः ।।

 

।। इति तैत्तिरीयोपनिषत्संपूर्णा ।।

 

 

 

 

 

 

 

ऐतरेयोपनिषत्

प्रथमोऽध्यायः

प्रथमः खण्डः

 

वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितम् आविरावीर्म एधि वेदस्य आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्संदधाम्यृतं वदिष्यामि वदिष्यामि तन्मामवतु तद्वक्तारमवतु अवतु माम्। अवतु वक्तारम् अवतु वक्तारम् शान्तिः शान्तिः शान्तिः ।। सत्यं

 

आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किंचन मिषत् ईक्षत लोकान्नु सृजा इति ।।१ ।।

 

इमाँल्लोकानसृजत अम्भो मरीचीर्मरमापोऽदोऽम्भः परेण दिवं द्यौः प्रतिष्ठाऽन्तरिक्षं मरीचयः पृथिवी मरो या अधस्तात्ता आपः ।।२ ।।

 

ईक्षतेमे नु लोका लोकपालान्नु सृजा इति सोऽभ्य एव पुरुषं समुद्धृत्यामूर्छयत् ।।३ ।।

 

तमभ्यतपत्तस्याभितप्तस्य मुखं निरभिद्यत यथाण्डं मुखाद्वाग्वाचो- ऽग्निर्नासिके निरभिद्येतां नासिकाभ्यां प्राणः प्राणाद्वायुरक्षिणी निरभिद्येतामक्षिभ्यां चक्षुश्चक्षुष आदित्यः कर्णौ निरभिद्येतां कर्णाभ्यां श्रोत्रं श्रोत्राद्दिशस्त्वङ् निरभिद्यत त्वचो लोमानि लोमध्य ओषधिवनस्पतयो हृदयं निरभिद्यत हृदयान्मनो मनसश्चन्द्रमा नाभिर्निरभिद्यत नाभ्या अपानोऽपानान्मृत्युः शिश्नं निरभिद्यत शिश्नाद्रेतो रेतस आपः ।।४ ।।

 

।। इति प्रथमः खण्डः ।।

 

 

 

 

द्वितीयः खण्डः

 

ता एता देवताः सृष्टा अस्मिन्महत्यर्णवे प्रापतंस्तमशनाया- पिपासाभ्यामन्ववार्जत् ता एनमब्रुवन्नायतनं नः प्रजानीहि यस्मिन्प्रतिष्ठिता अन्नमदामेति ।।१ ।।

 

ताभ्यो गामानयत्ता अब्रुवन्न वै नोऽयमलमिति ताभ्यो- ऽश्वमानयत्ता अब्रुवन्न वै नोऽयमलमिति ।। ।।

 

ताभ्यः पुरुषमानयत्ता अन्ब्रुवन्सुकृतं बतेति पुरुषो वाव सुकृतम् ता अब्रवीद्यथाऽऽयतनं प्रविशतेति ।। ।।

 

अग्निर्वाग्भूत्वा मुखं प्राविशद्वायुः प्राणो भूत्वा नासिके प्राविशदादित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशद्दिशः श्रोत्रं भूत्वा कणों प्राविशन्नोषधिवनस्पतयो लोमानि भूत्वा त्वचं प्राविशंश्चन्द्रमा मनो भूत्वा हृदयं प्राविशन्मृत्युरपानो भूत्वा नाभिं प्राविशदापो रेतो भूत्वा शिश्नं प्राविशन् ।।४ ।।

 

तमशनायापिपासे अब्रूतामावाभ्यामभिप्रजानीहीति ते अब्रवी- देतास्वेव वां देवतास्वाभजाम्येतासु भागिन्यौ करोमीति तस्माद्यस्यै कस्यै देवतायै हविगृह्यते भागिन्यावेवास्यामशनायापिपासे भवतः ।।५ ।।

 

।। इति द्वितीयः खण्डः ।।

 

तृतीयः खण्डः

 

ईक्षतेमे नु लोकाश्च लोकपालाश्चान्नमेभ्यः सृजा इति ।।१ ।।

 

सोऽपोऽभ्यतपत्ताभ्योऽभितप्ताभ्यो मूर्तिरजायत

या वै सा मूर्तिरजायताऽन्नं वै तत् ।।२।।

 

तदेनदभिसृष्टं पराङत्यजिघांसत्तद्वाचाजिघृक्षत्तन्नाशक्नोद्वाचा ग्रहीतुम्।

यद्धैनद्वाचाऽग्रहैष्यदभिव्याहृत्य हैवान्नमत्रप्स्यत् ।।३ ।।

 

तत्प्राणेनाजिघृक्षत्तन्नाशक्नोत्प्राणेन ग्रहीतुम्

यद्वैनत्प्राणेनाग्रहैष्यदभिप्राण्य हैवान्नमत्रप्स्यत् ।।४ ।।

 

तच्चक्षुषाऽजिघृक्षत्तन्नाशक्नोच्चक्षुषा ग्रहीतुम्

यद्धैनच्चक्षुषाऽग्रहैष्यदृष्ट्वा हैवान्नमत्रप्स्यत् ।।५ ।।

 

तच्छ्रोत्रेणाजिघृक्षत्तन्नाशक्नोच्छ्रोत्रेण ग्रहीतुम्

यद्धेनच्छ्रोत्रेणाग्रहैष्यच्छ्रुत्वा हैवान्नमत्रप्स्यत् ।।६ ।।

 

तत्त्वचाऽजिघृक्षत्तन्नाशक्नोत्त्वचा ग्रहीतुम्

यद्वैनतत्त्वचाऽग्रहैष्यत्स्पृष्ट्वा हैवान्नमत्रप्स्यत् ।।७ ।।

 

तन्मनसाऽजिघृक्षत्तन्नाशक्नोन्मनसा ग्रहीतुम्

यद्धैनन्मनसाऽग्रहैष्यद्ध्यात्वा हैवान्नमत्रप्स्यत् ।।८ ।।

 

तच्छिश्नेनाजिघृक्षत्तन्नाशक्नोच्छिश्नेन ग्रहीतुम्।

यद्वैन- च्छिश्नेनाग्रहैष्यद्विसृज्य हैवान्नमत्रप्स्यत् ।।९ ।।

 

तदपानेनाजिघृक्षत्तदावयत्

सैषोऽन्नस्य ग्रहो यद्वायुरन्नायुर्वा एष यद्वायुः ।।१०।।

 

ईक्षत कथं न्विदं मदृते स्यादिति ईक्षत कतरेण प्रपद्या इति ईक्षत यदि वाचाऽभिव्याहृतं यदि प्राणेनाभिप्राणितं यदि चक्षुषा दृष्टं यदि श्रोत्रेण श्रुतं यदि त्वचा स्पृष्टं यदि मनसा ध्यातं यद्यपानेनाभ्यपानितं यदि शिश्नेन विसृष्टमथ कोऽहमिति ।। ११ ।।

 

एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत सैषा विदृतिर्नाम द्वास्तदेतन्नान्दनम् तस्य त्रय आवसथास्त्रयः स्वप्ना अयमाव- सथोऽयमावसथोऽयमावसथ इति ।। १२ ।।

 

जातो भूतान्यभिव्यैख्यत्किमिहान्यं वावदिषदिति

एतमेव पुरुषं ब्रह्म ततममपश्यदिदमदर्शमिती३ ।।१३।।

 

तस्मादिदन्द्रो नामेदन्द्रो वै नाम तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते परोक्षेण

परोक्षप्रिया इव हि देवाः परोक्षप्रिया इव हि देवाः ।।१४।।

।। इति तृतीयः खण्डः ।।

 

 

द्वितीयोऽध्यायः

चतुर्थः खण्डः

 

पुरुषे वा अयमादितो गर्भो भवति यदेतद्रेतस्त- देतत्सर्वेभ्योऽङ्गेभ्यस्तेजः संभूतमात्मन्येवात्मानं बिभर्ति तद्यदा स्त्रियां सिञ्चत्यथैनज्जनयति तदस्य प्रथमं जन्म ।। ।।

 

तत्त्रिया आत्मभूयं गच्छति यथा स्वमङ्गं तथा तस्मादेनां हिनस्ति सास्यैतमात्मानमत्र गतं भावयति ।।२।।

 

सा भावयित्री भावयितव्या भवति तं स्त्री गर्भ बिभर्ति सोऽग्र एव कुमारं जन्मनोऽग्रेऽधिभावयति यत्कुमारं जन्मनो- ऽग्रेऽधिभावयत्यात्मानमेव तद्भावयत्येषां लोकानां सन्तत्या एवं सन्तता हीमे लोकास्तदस्य द्वितीयं जन्म ।। ।।

 

सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयते अथास्याय- मितर आत्मा कृतकृत्यो वयोगतः प्रैति इतः प्रयन्नेव पुनर्जायते तदस्य तृतीयं जन्म ।।४ ।।

 

तदुक्तमृषिणा। गर्भे नु सन्नन्वेषामवेदमहं देवानां जनिमानि विश्वा शतं मा पुर आयसीररक्षन्नधः श्येनो जवसा निरदीयमिति गर्भ एवैतच्छयानो वामदेव एवमुवाच ।।५ ।।

 

एवं विद्वानस्माच्छरीरभेदादूर्ध्व उत्क्रम्यामुष्मिन्स्वर्गे लोके सर्वान्कामानाप्त्वामृतः समभवत्समभवत् ।।६ ।।

 

।। इति चतुर्थः खण्डः ।।

इति द्वितीयोऽध्यायः

 

 

 

 

 

तृतीयोऽध्यायः

पञ्चमः खण्डः

 

कोऽयमात्मेति वयमुपास्महे कतरः आत्मा येन वा पश्यति येन वा शृणोति येन वा गन्धानाजिघ्रति येन वा वाचं व्याकरोति येन वा स्वादु चास्वादु विजानाति ।।१ ।।

 

यदेतत् हृदयं मनश्चैतत्। संज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेवा दृष्टिधृतिर्मतिर्मनीषा जूतिः स्मृतिः संकल्पः क्रतुरसुः कामो वश इति सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति ॥२॥

 

एष ब्रह्मष इन्द्र एष प्रजापतिरेते सर्वे देवा इमानि पञ्च महाभूतानि पृथिवी वायुराकाश आपो ज्योतींषीत्येतानीमानि क्षुद्रमिश्राणीव बीजानीतराणि चेतराणि चाण्डजानि जारुजानि स्वेदजानि चोद्भिज्जानि चाश्वा गावः पुरुषा हस्तिनो यत्किंचेदं प्राणि जङ्गमं पतत्रि यच्च स्थावरम् सर्वं तत्प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म ।। ।।

 

एतेन प्रज्ञेनात्मनास्माल्लोकादुत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान्कामानाप्त्वाऽमृतः समभवत्समभवत् इत्योम् ।।४ ।।

 

।। इति पञ्चमः खण्डः ।।

इति तृतीयोऽध्यायः

 

वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितम्। आविरावीर्म एधि वेदस्य आणीस्थः श्रुतं मे मा प्रहासीरनेना- धीतेनाहोरात्रान्संदधाम्यृतं वदिष्यामि सत्यं वदिष्यामि। तन्मामवतु तद्वक्तारमवतु अवतु माम्। अवतु वक्तारम्। अवतु वक्तारम् ।। शान्तिः शान्तिः शान्तिः ।।

 

।। इति ऐतरेयोपनिषत्संपूर्णा ।।

 

 

 

 

 

 

 

श्वेताश्वतरोपनिषत्

प्रथमोऽध्यायः

 

सह नाववतु। सह नौ भुनक्तु सह वीर्यं करवावहै तेजस्वि नावधीतमस्तु मा विद्विषावहै शान्तिः शान्तिः शान्तिः ।।

 

हरिः ब्रह्मवादिनो वदन्ति किं कारणं ब्रह्म कुतः स्म जाता जीवाम केन क्व सम्प्रतिष्ठाः अधिष्ठिताः केन सुखेतरेषु वर्तामहे ब्रह्मविदो व्यवस्थाम् ।।१ ।।

 

कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्या

संयोग एषां त्वात्मभावादात्माप्यनीशः सुखदुःखहेतोः ।।२ ।।

 

ते ध्यानयोगानुगता अपश्यन्देवात्मशक्तिं स्वगुणैर्निगूढाम्

यः कारणानि निखिलानि तानि कालात्मयुक्तान्यधितिष्ठत्येकः ।।३ ।।

 

तमेकनेमिं त्रिवृतं षोडशान्तं शतार्धारं विंशतिप्रत्यराभिः

अष्टकैः षद्भिर्विश्वरूपैकपाशं त्रिमार्गभेदं द्विनिमित्तैकमोहम् ।।४ ।।

 

पञ्चस्रोतोऽम्बुं पञ्चयोन्युग्रवक्रां पञ्चप्राणोर्मिं पञ्चबुद्धयादिमूलाम्

पञ्चावर्ता पञ्चदुःखौघवेगां पञ्चाशद्भेदां पञ्चपर्वामधीमः ।।५।।

 

सर्वाजीवे सर्वसंस्थे बृहन्ते अस्मिन्हंसो भ्राम्यते ब्रह्मचक्रे

पृथगात्मानं प्रेरितारं मत्वा जुष्टस्ततस्तेनामृतत्वमेति ।। ।।

 

उद्गीतमेतत्परमं तु ब्रह्म तस्मिंस्त्रयं सुप्रतिष्ठाक्षरं

अत्रान्तरं ब्रह्मविदो विदित्वा लीना ब्रह्मणि तत्परा योनिमुक्ताः ।।७।।

 

संयुक्तमेतत्क्षरमक्षरं व्यक्ताव्यक्तं भरते विश्वमीशः

अनीशश्चात्मा बध्यते भोक्तृभावाज्ज्ञात्वा देवं मुच्यते सर्वपाशैः ।।८ ।।

 

ज्ञाज्ञौ द्वावजावीशानीशावजा ह्येका भोक्तृभोग्यार्थयुक्ता

अनन्तश्चात्मा विश्वरूपो ह्यकर्ता त्रयं यदा विन्दते ब्रह्ममेतत् ।।९ ।।

 

क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः

तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भयश्चान्ते विश्वमायानिवृत्तिः ।।१०।।

 

ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः

तस्याभिध्यानात्तृतीयं देहभेदे विश्वैश्वर्यं केवल आप्तकामः ।।११।।

 

एतज्ज्ञेयं नित्यमेवात्मसंस्थं नातः परं वेदितव्यं हि किंचित्।

भोक्ता भोग्यं प्रेरितारं मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् ।।१२ ।।

 

वह्नेर्यथा योनिगतस्य मूर्तिर्न दृश्यते नैव लिङ्गनाशः

भूय एवेन्धन योनिगृह्यस्तद्वोभयं वै प्रणवेन देहे ।।१३।।

 

स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिम्

ध्याननिर्मथनाभ्यासादेवं पश्येन्निगूढवत् ।।१४ ।।

 

तिलेषु तैलं दधनीव सर्पिरापः स्रोतः स्वरणीषु चाग्निः

एवमात्माऽत्मनि गृह्यतेऽसौ सत्येनैनं तपसा योऽनुपश्यति ।।१५।।

 

सर्वव्यापिनमात्मानं क्षीरे सर्पिरिवार्पितम्

आत्मविद्यातपोमूलं तद्ब्रह्मोपनिषत्परं तद्ब्रह्मोपनिषत्परमिति ।। १६ ।।

 

।। इति प्रथमोऽध्यायः समाप्तः।।

 

द्वितीयोऽध्यायः

 

युञ्जानः प्रथमं मनस्तत्त्वाय सविता धियः

अग्नेज्योतिर्निचाय्य पृथिव्या अध्याभरत् ।।१ ।।

 

युक्तेन मनसा वयं देवस्य सवितुः सवे सुवर्गेयाय शक्त्या ।।२ ।।

 

युक्त्वाय मनसा देवान्सुवर्यतो धिया दिवम्

बृहज्ज्योतिः करिष्यतः सविता प्रसुवाति तान् ।। ।।

 

युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः

वि होत्रा दधे वयुनाविदेक इन्मही देवस्य सवितुः परिष्टुतिः ।।४।।

 

युजे वां ब्रह्म पूर्व्य नमोभिर्विश्लोक येतु पथ्येव सूरेः

शृण्वन्तु विश्वे अमृतस्य पुत्रा ये धामानि दिव्यानि तस्थुः ।।५ ।।

 

अग्निर्यत्राभिमथ्यते वायुर्यत्राधिरुध्यते

सोमो यत्रातिरिच्यते तत्र संजायते मनः ।। ।।

 

सवित्रा प्रसवेन जुषेत ब्रह्म पूर्व्यम्।

तत्र योनिं कृणवसे हि ते पूर्तमक्षिपत् ।।७ ।।

 

त्रिरुन्नतं स्थाप्य समं शरीरं हृदीन्द्रियाणि मनसा संनिवेश्य

ब्रह्मोडुपेन प्रतरेत विद्वान्स्रोतांसि सर्वाणि भयावहानि ।।८ ।।

 

प्राणान्प्रपीड्चेह संयुक्तचेष्टः क्षीणे प्राणे नासिकयोच्छ्वसीत

दुष्टाश्वयुक्तमिव वाहमेनं विद्वान्मनो धारयेताप्रमत्तः ।।९ ।।

 

समे शुचौ शर्करावह्निवालुकाविवर्जिते शब्दजलाश्रयादिभिः

मनोऽनुकूले तु चक्षुपीडने गुहानिवाताश्रयणे प्रयोजयेत् ।।१० ।।

 

नीहारधूमार्कानिलानलानां खद्योतविद्युत्स्फटिकशशीनाम्

एतानि रूपाणि पुरस्सराणि ब्रह्मण्यभिव्यक्तिकराणि योगे ।।११।।

 

पृथ्थ्यप्तेजोऽनिलखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते

तस्य रोगो जरा मृत्युः प्राप्तस्य योगाग्निमयं शरीरम् ।।१२।।

लघुत्वमारोग्यमलोलुपत्वं वर्णप्रसादं स्वरसौष्ठवं

गन्धः शुभो मूत्रपुरीषमल्पं योगप्रवृत्तिं प्रथमां वदन्ति ।।१३ ।।

 

यथैव बिम्बं मृदयोपलिप्तं तेजोमयं भ्राजते तत्सुधान्तम्

तद्वात्मतत्वं प्रसमीक्ष्य देही एकः कृतार्थो भवते वीतशोकः ।।१४ ।।

 

यदात्मतत्त्वेन तु ब्रह्मतत्त्वं दीपोपमेनेह युक्तः प्रपश्येत्

अजं ध्रुवं सर्वतत्त्वैर्विशुद्धं ज्ञात्वा देवं मुच्यते सर्वपाशैः ।।१५।।

 

एष देवः प्रदिशोऽनु सर्वाः पूर्वो जातः गर्भे अन्तः

एव जातः जनिष्यमाणः प्रत्यङ्गनांस्तिष्ठति सर्वतोमुखः ।।१६ ।।

 

यो देवोऽग्नौ योऽप्सु यो विश्व भुवनमाविवेश

ओषधीषु यो वनस्पतिषु तस्मै देवाय नमो नमः ।। १७ ।।

 

।। इति द्वितीयोऽध्यायः समाप्तः ।।

 

तृतीयोऽध्यायः

 

 

एको जालवानीशत ईशनीभिः सर्वांल्लोकानीशत ईशनीभिः

एवैक उद्भवे संभवे एतद्विदुरमृतास्ते भवन्ति ।।१ ।।

 

एको हि रुद्रो द्वितीयाय तस्थुर्य इमाँल्लोकानीशत ईशनीभिः

प्रत्यञ्जनांस्तिष्ठति संचुकोचान्तकाले संसृज्य विश्वा भुवनानि गोपाः ।।२ ।।

 

विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात्

सं बाहुभ्यां धमति संपतत्रैर्घावाभूमी जनयन्देव एकः ।। ।।

 

यो देवानां प्रभवश्चोद्भवश्च विश्वाधिपो रुद्रो महर्षिः

हिरण्यगर्भं जनयामास पूर्वं नो बुद्धया शुभया संयुनक्तु ।।४ ।।

 

या ते रुद्र शिवा तनूरघोराऽपापकाशिनी

तया नस्तनुवा शन्तमया गिरिशन्ताभिचाकशीहि ।।५ ।।

 

यामिषु गिरिशन्त हस्ते बिभर्म्यस्तवे

शिवां गिरित्र तां कुरु मा हि सीः पुरुषं जगत् ।।६ ।।

 

ततः परं ब्रह्मपरं बृहन्तं यथानिकायं सर्वभूतेषु गूढम्

विश्वस्यैकं परिवेष्टितारमीशं तं ज्ञात्वाऽमृता भवन्ति ।। ।।

 

वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात्

तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय ।।८ ।।

 

यस्मात्परं नापरमस्ति किंचिद्यस्मान्नाणीयो ज्यायोऽस्ति कश्चित्

वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्ण पुरुषेण सर्वम् ।।९ ।।

 

ततो यदुत्तरतरं तदरूपमनामयम्

एतद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापियन्ति ।।१० ।।

 

सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः

सर्वव्यापी भगवांस्तस्मात् सर्वगतः शिवः ।।११।।

 

महान्प्रभुर्वै पुरुषः सत्वस्यैष प्रवर्तकः

सुनिर्मलामिमां प्राप्तिमीशानो ज्योतिरव्ययः ।।१२।।

अंगुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिविष्टः

हृदा मन्वीशो मनसाभिक्लृप्तो एतद्विदुरमृतास्ते भवन्ति ।।१३।।

 

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्

भूमिं विश्वतो वृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ।।१४ ।।

 

पुरुष एवेदꣲ᳭   सर्वं यद्भूतं यच्च भव्यम्।

उतामृतत्वस्येशानो यदन्नेनातिरोहति ।। १५ ।।

 

सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम्

सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ।। १६ ।।

 

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्

सर्वस्य प्रभुमीशानं सर्वस्य शरणं बृहत् ।।१७ ।।

 

नवद्वारे पुरे देही हूꣲ᳭  सो लेलायते बहिः

वशी सर्वस्य लोकस्य स्थावरस्य चरस्य ।।१८।।

 

अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः शृणोत्यकर्णः

वेत्ति वेद्यं तस्यास्ति वेत्ता तमाहुरग्रयं पुरुषं महान्तम् ।।१९ ।।

 

अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः

तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् ।।२० ।।

 

वेदाहमेतमजरं पुराणं सर्वात्मानं सर्वगतं विभुत्वात्

जन्मनिरोधं प्रवदन्ति यस्य ब्रह्मवादिनो हि प्रवदन्ति नित्यम् ।।२१ ।।

 

।। इति तृतीयोऽध्यायः समाप्तः ।।

 

चतुर्थोऽध्यायः

 

एकोऽवर्णो बहुधा शक्तियोगात्वर्णाननेकान्निहितार्थो दधाति

वि चैति चान्ते विश्वमादौ देवः नो बुद्धया शुभया संयुनक्तु ।।१ ।।

 

तदेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः।

तदेव शुक्रं तद्ब्रह्म तदापस्तत्प्रजापतिः ।।२ ।।

 

त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी।

त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः ।। ।।

 

नीलः पतङ्गो हरितो लोहिताक्षस्तडिद्गर्भ ऋतवः समुद्राः।

अनादिमत्त्वं विभुत्वेन वर्तसे यतो जातानि भुवनानि विश्वा ।।४ ।।

 

अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः

अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ।।५ ।।

 

द्वा. सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते

 तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ।।६ ।।

 

समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः

जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ।।७।।

 

ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुः

यस्तं वेद किमृचा करिष्यति इत्तद्विदुस्त इमे समासते ।।८।।

 

छन्दांसि यज्ञाः क्रतवो व्रतानि भूतं भव्यं यच्च वेदा वदन्ति

अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया संनिरुद्धः ।।९।।

 

मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्

तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ।।१० ।।

 

यो योनिं योनिमधितिष्ठत्येको यस्मिन्निदं वि चैति सर्वम्।

तमीशानं वरदं देवमीड्यं निचाय्येमां शान्तिमत्यन्तमेति ।। ११ ।।

 

यो देवानां प्रभवश्चोद्भवश्च विश्वाधिपो रुद्रो महर्षिः

हिरण्यगर्भ पश्यत जायमानं नो बुद्धया शुभया संयुनक्तु ।।१२।।

 

यो देवानामधिपो यस्मिंल्लोका अधिश्रिताः

ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ।।१३।।

 

सूक्ष्मातिसूक्ष्मं कलिलस्य मध्ये विश्वस्य स्रष्टारमनेकरूपम्

विश्वस्यैकं परिवेष्टितारं ज्ञात्वा शिवं शान्तिमत्यन्तमेति ।।१४ ।।

 

एव काले भुवनस्य गोप्ता विश्वाधिपः सर्वभूतेषु गूढः

यस्मिन्युक्ता ब्रह्मर्षयो देवताश्च तमेवं ज्ञात्वा मृत्युपाशांश्छिनत्ति ।।१५ ।।

 

घृतात्परं मण्डमिवातिसूक्ष्मं ज्ञात्वा शिवं सर्वभूतेषु गूढम्

विश्वस्यैकं परिवेष्टितारं ज्ञात्वा देवं मुच्यते सर्वपाशैः ।।१६ ।।

 

एष देवो विश्वकर्मा महात्मा सदा जनानां हृदये सन्निविष्टः

हृदा मनीषा मनसाऽभिक्लृप्तो एतद्विदुरमृतास्ते भवन्ति ।।१७ ।।

 

यदाऽतमस्तन्न दिवा रात्रिर्न सन्न चासञ्छिव एव केवलः

तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा तस्मात्प्रसृता पुराणी ।।१८ ।।

 

नैनमूर्ध्वं तिर्यञ्चं मध्ये परिजग्रभत्

तस्य प्रतिमा अस्ति यस्य नाम महद्यशः ।।१९ ।।

 

संदृशे तिष्ठति रूपमस्य चक्षुषा पश्यति कश्चनैनम्।

हृदा हृदिस्थं मनसा एनमेवं विदुरमृतास्ते भवन्ति ।। २० ।।

 

अजात इत्येवं कश्चिद्भीरुः प्रपद्यते

रुद्र यत्ते दक्षिणं मुखं तेन मां पाहि नित्यम् ।। २१ ।।

 

मा नस्तोके तनये मा आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः

वीरान्मा नो रुद्र भामितो वधीर्हविष्मन्तः सदमित्त्वा हवामहे ।। २२ ।।

 

।। इति चतुर्थोऽध्यायः समाप्तः ।।

 

पञ्चमोऽध्यायः

 

द्वे अक्षरे ब्रह्मपरे त्वनन्ते विद्याविद्ये निहिते यत्र गूढे।

क्षरं त्वविद्या ह्यमृतं तु विद्या विद्याविद्ये ईशते यस्तु सोऽन्यः ।।१ ।।

 

यो योनिं योनिमधितिष्ठत्येको विश्वानि रूपाणि योनीश्च सर्वाः।

ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं पश्येत् ।।२ ।।

 

एकैकं जालं बहुधा विकुर्वन्नस्मिन्क्षेत्रे संहरत्येष देवः

भूयः सृष्ट्वा पतयस्तथेशः सर्वाधिपत्यं कुरुते महात्मा ।।३।।

 

सर्वा दिश ऊर्ध्वमधश्च तिर्यक्प्रकाशयन्भ्राजते यद्वनड्वान्

एवं देवो भगवान्वरेण्योः योनिस्वभावानधितिष्ठत्येकः ।।४ ।।

 

यच्च स्वभावं पचति विश्वयोनिः पाच्यांश्च सर्वान्परिणामयेद्यः

सर्वमेतद्विश्वमधितिष्ठत्येको गुणांश्च सर्वान्विनियोजयेद्यः ।।५ ।।

 

तद्वेगुह्योपनिषत्सु गूढं तद्ब्रह्मा वेदते ब्रह्मयोनिम्

ये पूर्वदेवा ऋषयश्च तद्विदुस्ते तन्मया अमृता वै बभूवुः ।।६।।

 

गुणान्वयो यः फलकर्मकर्ता कृतस्य तस्यैव चोपभोक्ता

विश्वरूपस्त्रिगुणस्त्रिवर्मा प्राणाधिपः संचरति स्वकर्मभिः ।।७ ।।

 

अङ्गुष्ठमात्रो रवितुल्यरूपो संकल्पाहंकार समन्वितो यः

बुद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्रो ह्यपरोऽपि दृष्टः ।।८।।

 

वालाग्रशतभागस्य शतधा कल्पितस्य

भागो जीवः विज्ञेयः चानन्त्याय कल्पते ।।९ ।।

 

नैव स्त्री पुमानेष चैवायं नपुंसकः

यद्यच्छरीरमादत्ते तेन तेन रक्ष्यते ।।१० ।।

 

संकल्पनस्पर्शनदृष्टिमोहैर्यासाम्बुवृष्ट्या चात्मविवृद्धिजन्म

कर्मानुगान्यनुक्रमेण देही स्थानेषु रूपाण्यभिसंप्रपद्यते ।।११ ।।

 

स्थूलानि सूक्ष्माणि बहूनि चैव रूपाणि देही स्वगुणैर्वृणोति

क्रियागुणैरात्मगुणैश्च तेषां संयोगहेतुरपरोऽपि दृष्टः ।।१२।।

 

अनाद्यनन्तं कलिलस्य मध्ये विश्वस्य स्रष्टारमनेकरूपम्

विश्वस्यैकं परिवेष्टितारं ज्ञात्वा देवं मुच्यते सर्वपाशैः ।।१३ ।।

 

भावग्राह्यमनीडाख्यं भावाभावकरं शिवम्

कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम् ।।१४ ।।

 

।। इति पञ्चमोऽध्यायः समाप्तः ।।

 

षष्ठोऽध्यायः

 

स्वभावमेके कवयो वदन्ति कालं तथान्ये परिमुह्यमानः

देवस्यैष महिमा तु लोके येनेदं भ्राम्यते ब्रह्मचक्रम् ।।१।।

 

येनावृतं नित्यमिदं हि सर्वं ज्ञः कालकारो गुणी सर्वविद्यः

तेनेशितं कर्म विवर्तते पृथ्व्यप्तेजोऽनिलखानि चिन्त्यम् ।।२।।

 

तत्कर्म कृत्वा विनिवर्त्य भूयस्तत्त्वस्य तत्त्वेन समेत्य योगम्।

एकेन द्वाभ्यां त्रिभिरष्टभिर्वा कालेन चैवात्मगुणैश्च सूक्ष्मैः ।। ।।

 

आरभ्य कर्माणि गुणान्वितानि भावांश्च सर्वान्विनियोजयेद्यः

तेषामभावे कृतकर्मनाशः कर्मक्षये याति तत्त्वतोऽन्यः ।।४ ।।

 

आदिः संयोगनिमित्तहेतुः परस्त्रिकालादकलोऽपि दृष्टः

तं विश्वरूपं भवभूतमीड्यं देवं स्वचित्तस्थमुपास्य पूर्वम् ।।५ ।।

 

वृक्षकालाकृतिभिः परोऽन्यो यस्मात्प्रपञ्चः परिवर्ततेऽयम्

धर्मावहं पापनुदं भगेशं ज्ञात्वाऽत्मस्थममृतं विश्वधाम ।।६।।

 

तमीश्वराणां परमं महेश्वरं तं देवतानां परमं दैवतम्।

पतिं पतीनां परमं परस्ताद्विदाम देवं भुवनेशमीड्यम् ।।७ ।।

 

तस्य कार्य करणं विद्यते तत्समश्चाभ्यधिकश्च दृश्यते

परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया ।।८।।॥

 

तस्य कश्चित् पतिरस्ति लोके चेशिता नैव तस्य लिङ्गम्

कारणं करणाधिपाधिपो चास्य कश्चिज्जनिता चाधिपः ।।९।।

 

यस्तन्तुनाभ इव तन्तुभिः प्रधानजैः स्वभावतो देव एकः स्वमावृणोत्

नो दधाद् ब्रह्माप्ययम् ।।१० ।।

 

एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा

कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ।।११ ।।

 

एको वशी निष्क्रियाणां बहूनामेकं बीजं बहुधा यः करोति

तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ।।१२।।

 

नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्।

तत्कारणं सांख्ययोगाधिगम्यं ज्ञात्वा देवं मुच्यते सर्वपाशैः ।।१३।।

 

तत्र सूर्यो भाति चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः

तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ।।१४।।

 

एको हंसः भुवनस्यास्य मध्ये एवाग्निः सलिले संनिविष्टः

तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय ।।१५।।

 

विश्वकृद्विश्वविदात्मयोनिज्ञः कालकारो गुणी सर्वविद्यः

प्रधानक्षेत्रज्ञपतिर्गुणेशः संसारमोक्षस्थितिबन्धहेतुः ।। १६ ।।

 

तन्मयो ह्यमृत ईशसंस्थो ज्ञः सर्वगो भुवनस्यास्य गोप्ता

ईशे अस्य जगतो नित्यमेव नान्यो हेतुर्विद्यत ईशनाय ।।१७ ।।

 

यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै

ꣲ᳭ देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ।।१८ ।।

 

निष्कलं निष्क्रियꣲ᳭  शान्तं निरवद्यं निरञ्जनम्

अमृतस्य परꣲ᳭  सेतुं दग्धेन्धनमिवानलम् ।।१९ ।।

 

यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः

तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति ।।२० ।।

 

तपःप्रभावाद्देवप्रसादाच्च ब्रह्म श्वेताश्वतरोऽथ विद्वान्

अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषिसंघजुष्टम् ।।२१ ।।

 

वेदान्ते परमं गुह्यं पुराकल्पे प्रचोदितम्

नाऽप्रशान्ताय दातव्यं नाऽपुत्रायाऽशिष्याय वा पुनः ।।२२ ।।

 

यस्य देवे पराभक्तिर्यथा देवे तथा गुरौ तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः

प्रकाशन्ते महात्मन इति ।। २३ ।।

 

।। इति षष्ठोऽध्यायः समाप्तः ।।

 

सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहे तेजस्वि नावधीतमस्तु मा विद्विषावहै शान्तिः शान्तिः शान्तिः ।।

 

।। इति श्वेताश्वतरोपनिषत्समाप्ता ।।

 

 

 

 

 

 

 

 

 

 

 

 

छान्दोग्योपनिषत्

प्रथमोऽध्याय :

 

आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि सर्वाणि सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुयाँ मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु तदात्मनि निरते उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ।।

 

शान्तिः शान्तिः शान्तिः

 

प्रथम : खण्ड:

 

ओमित्येतदक्षरमुद्गीथमुपासीत ओमिति ह्युगायति तस्योपव्याख्यानम् ।१

 

एषां भूतानां पृथिवी रसः पृथिव्या आपो रसः अपामोषधयो रस ओषधीनां पुरुषो रसः पुरुषस्य वाग्रसो वाच ऋग्रस ऋचः साम रसः साम्न उद्गीथो रसः ।२।

 

एष रसानाꣲ᳭  रसतमः परमः परार्थ्योऽष्टमो यदुद्गीथः ।३।

 

कतमा कतमर्कतमत्कतमत्साम कतमः कतम उद्गीथ इति विमृष्टं भवति ।४।

 

वागेवर्माणः सामोमित्येतदक्षरमुद्गीथः तद्वा एतन्मिथुनं यद्वावाक्च प्राणश्चर्च साम ।५।

 

तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे ꣲ᳭ सृज्यते यदा वै मिथुनौ समागच्छत आपयतो वै तावन्योन्यस्य कामम् ।६

 

आपयिता वै कामानां भवति एतदेवं विद्वानक्षर- मुद्गीथमुपास्ते ।७।

 

तद्वा एतदनुज्ञाक्षरं यद्धि किंचानुजा नात्योमित्येव तदाहैषो एव समृद्धिर्यदनुज्ञा समर्धयिता वै कामानां भवति एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ।८।

 

तेनेयं त्रयीविद्या वर्तते ओमित्याश्रावयत्योमिति ꣲ᳭सत्यो- मित्युद्गायत्येतस्यैवाक्षरस्यापचित्यै महिम्ना रसेन ।९।

 

तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च वेद नाना तु विद्या चाविद्या यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति ।१०।

 

।।इति प्रथमः खण्डः।।

 

द्वितीय : खण्ड :

 

देवासुरा वै यत्र संयेतिरे उभये प्राजापत्यास्तद्ध देवा उद्गीथमाजगुरनेनैनानभिभविष्याम इति ।१।

 

ते नासिक्यं प्राणमुद्गीथमुपासांचक्रिरे ꣲ᳭ हासुराः पाप्मना विविधुस्तस्मात्तेनोभयं जिघ्रति सुरभि दुर्गन्धि पाप्मना ह्येष विद्धः ।२।

 

अथ वाचमुद्गीथमुपासांचक्रिरे ताꣲ᳭ हासुराः पाप्मना विविधुस्तस्मात्तयोभयं वदति सत्यं चानृतं पाप्मना ह्येषा विद्धा ।३।

 

अथ चक्षुरुद्गीथमुपासांचक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात्तेनोभयं पश्यति दर्शनीयं चादर्शनीयं पाप्मना ह्येतद्विद्धम् ।४।

 

अथ श्रोत्रमुद्गीथमुपासांचक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात्तेनोभयꣲ᳭ शृणोति श्रवणीयं चाश्रावणीयं पाप्मना ह्येतद्विद्धम् ।५।

 

अथ मन उद्गीथमुपासांचक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात्तेनोभयꣲ᳭ संकल्पते संकल्पनीयं चासंकल्पनीयं पाप्मना ह्येतद्विद्धम् ।६।

 

अथ एवायं मुख्यः प्राणस्तमुद्गीथमुपासांचक्रिरे ꣲ᳭ हासुरा ऋत्वा विदध्वंसुर्यथाश्मानमाखणमृत्वा विध्वꣲ᳭ सेतैवम् ।७।

 

यथाश्मानमाखणमृत्वा विध्वꣲ᳭ सत एवंꣲ᳭ हैव विध्वꣲ᳭ सते एवंविदि पापं कामयते यश्चैनमभिदासति एषोऽश्माखणः ।८।

 

नैवैतेन सुरभि दुर्गन्धि विजानात्यपहतपाप्मा ह्येष तेन यदश्नाति यत्पिबति तेनेतरान्प्राणानवति एतमु एवान्ततो- ऽवित्वोत्क्रामति व्याददात्येवान्तत इति ।९।

 

ꣲ᳭ हाङ्गिरा उद्गीथमुपासांचक्र एतमु एवाङ्गिरसं मन्यन्ते- ऽङ्गानां यद्रसः ।१०।

 

तेन ꣲ᳭ बृहस्पतिरुद्गीथमुपासांचक्र एतमु एव बृहस्पतिं मन्यन्ते वाग्धि बृहती तस्या एष पतिः ।११।

 

तेन ꣲ᳭ हायास्य उद्गीथमुपासांचक्र एतमु एवायास्यं मन्यन्त आस्याद्यदयते ।१२।

 

तेन ꣲ᳭ बको दाल्भ्यो विदांचकार नैमि- शीयानामुद्राता बभूव स्मैभ्यः कामानागायति ।१३।

 

आगाता वै कामानां भवति एतदेवं विद्वानक्षरमुद्गीथमुपास्त इत्यध्यात्मम् ।१४।

 

।।इति द्वितीय खण्ड:।।

 

तृतीय : खण्ड :

 

अथाधिदैवतं एवासौ तपति तमुद्गीथमुपासीतोद्यन्वा एष प्रजाभ्य उद्गायति उद्यꣲ᳭ स्तमो भयमपहन्त्यपहन्ता वै भयस्य तमसो भवति एवं वेद ।१

 

समान एवायं चासौ चोष्णोऽयमुष्णोऽसौ स्वर इतीममाचक्षते स्वर इति प्रत्यास्वर इत्यमुं तस्माद्वा एतमिमधु चोद्गीथमुपासीत ।२।

 

अथ खलु व्यानमेवोगीथमुपासीत यद्वै प्राणिति प्राणे यदपानिति सोऽपानः अथ यः प्राणापानयोः संधिः व्यानी यो व्यानः सा वाक् तस्मादप्राणन्ननपानन्वाचमभिव्याहरति ।३।

 

या वाक्सर्तस्मादप्राणन्ननपानन्नृचमभिव्याहरति यवर्तत्साम तस्मादप्राणन्ननपानन्साम गायति यत्साम उद्गीथस्तस्मा- दप्राणन्ननपानन्नुद्गायति ।४।

 

अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाग्नेर्मन्थनमाजेः सरणं दृढस्य धनुष आयमनमप्राणन्ननपानꣲ᳭ स्तानि करोत्येतस्य हेतोर्व्यानमेवोद्गीथमुपासीत ।५।

 

अथ खलूद्गीथाक्षराण्युपासीतोद्गीथ इति प्राण एवोत्प्राणेन ह्युत्तिष्ठति वाग्गीर्वाचो गिर इत्याचक्षतेऽम्नं थमन्ने हीदꣲ᳭  सर्वꣲ᳭ स्थितम् ।६।

 

द्यौरेवोदन्तरिक्षं गीः पृथिवी थमादित्य एवोद्वायुर्गीरग्निस्थꣲ᳭ सामवेद एवोद्यजुर्वेदो गीऋग्वेदस्थं दुग्धेऽस्मै वाग्दोहं यो बाचो दोहोऽन्नवानन्नादो भवति एतान्येवं विद्वानुद्गीथाक्षराण्युपास्त उद्गीथ इति ।७।

 

अथ खल्वाशी: समृद्धिरुपसरणानीत्युपासीत येन साम्ना स्तोष्यन्स्यात्तत्सामोपधावेत् ।८।

 

यस्यामृचि तामृचं यदार्षेयं तमृषिं यां देवतामभिष्टोष्यन्स्यात्तां देवतामुपधावेत् ।९।

 

येन च्छन्दसा स्तोष्यन्स्यात्तच्छन्द उपधावेद्येन स्तोमेन स्तोष्यमाणः स्यात्तꣲ᳭ स्तोममुपधावेत् ।१०।

 

यां दिशमभिष्टोष्यन्स्यात्तां दिशमुपधावेत् ।११।

 

आत्मानमन्तत उपसृत्य स्तुवीत कामं ध्यायन्नप्रमत्तोऽभ्याशो यदस्मै कामः समृध्येत यत्कामः स्तुवीतेति यत्कामः स्तुवीतेति ।१२।

 

।।इति तृतीयः खण्डः।।

 

 

 

चतुर्थ : खण्ड :

 

ओमित्येतदक्षरमुद्गीथमुपासीतोमिति ह्युगायति तस्यो- पव्याख्यानम् ।१

 

देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्यां प्राविशस्ते छन्दोभि- रच्छादयन्यदेभिरच्छादय स्तच्छन्दसां छन्दस्त्वम् ।२।

 

तानु तत्र मृत्युर्यथा मत्स्यमुदके परिपश्येदेवं पर्यपश्यदृचि साम्नि यजुषि ते नु विदित्वोर्ध्वा ऋचः साम्नो यजुषः स्वरमेव प्राविशन् ।३।

 

यदा वा ऋचमाप्नोत्योमित्येवातिस्वरत्येवꣲ᳭ सामैवं यजुरेष स्वरो यदेतदक्षरमेतदमृतमभयं तत्प्रविश्य देवा अमृता अभया अभवन् ।४।

 

एतदेवं विद्वानक्षरं प्रणौत्येतदेवाक्षरꣲ᳭ स्वरममृतमभयं प्रविशति तत्प्रविश्य यदमृता देवास्तदमृतो भवति ।५।

 

।।इति चतुर्थः खण्डः।।

 

पञ्चम : खण्ड :

 

अथ खलु उद्गीथः प्रणवो यः प्रणवः उद्गीथ इत्यसौ वा आदित्य उद्गीथ एष प्रणव ओमिति ह्येष स्वरन्नेति ।१।

 

एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति कौषीतकिः पुत्रमुवाच रश्मीꣲ᳭ स्त्वं पर्यावर्तयाद्बहवो वै ते भविष्यन्तीत्यधिदैवतम् ।२।

 

अथाध्यात्मं एवायं मुख्यः प्राणस्तमुद्गीथमुपासीतोमिति ह्येष स्वरन्नेति ।३।

 

एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति है कौषीतकिः पुत्रमुवाच प्राणाꣲ᳭ स्त्वं भूमानमभिगायताद्बहवो वै मे भविष्यन्तीति ।४।

 

अथ खलु उद्गीथः प्रणवो यः प्रणवः उद्गीथ इति होतृषदनाद्धैवापि दुरुगीतमनुसमाहरतीत्यनुसमाहरतीति ।५।

।।इति पञ्चमः खण्डः।।

 

पृष्ठ : खण्ड :

 

इयमेवर्गग्निः साम तदेतदेतस्यामृच्यध्यूढं साम तस्मा- दृच्यध्यूढꣲ᳭ साम गीयत इयमेव साग्निरमस्तत्साम ।१।

 

अन्तरिक्षमेवर्वायुः साम तदेतदेतस्यामृच्यध्यूढं साम तस्मादृच्यध्यूढंꣲ᳭ साम गीयतेऽन्तरिक्षमेव सा वायुरमस्तत्साम ।२।

 

द्यौरेवर्गादित्यः साम तदेतदेतस्यामृच्यध्यूढं साम तस्मा- दृच्यध्यूढꣲ᳭ साम गीयते द्यौरेव सादित्योऽमस्तत्साम ।३।

 

नक्षत्राण्येवर्चन्द्रमाः साम तदेतदेतस्यामृच्यध्यूढ साम तस्मादृच्यध्यूढंꣲ᳭ साम गीयते नक्षत्राण्येव सा चन्द्रमा अमस्तत्साम ।४।

 

साम अथ यदेतदादित्यस्य शुक्लं भाः सैवर्गथ यन्नीलं परः कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढंꣲ᳭ साम तस्मादृच्यध्यूढꣲ᳭ गीयते ।५।

 

अथ यदेवैतदादित्यस्य शुक्लं भाः सैव साथ यन्नीलं परः कृष्णं तदमस्तत्सामाथ एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्व एव सुवर्णः ।६।

 

तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदिति नाम एष सर्वेभ्यः पाप्मभ्यो उदित उदेति वै सर्वेभ्यः पाप्मभ्य एवं वेद ।७।

 

तस्यर्च साम गेष्णौ तस्मादुद्गीथस्तस्मात्त्वेत्वोद्गातैतस्य हि गाता एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां चेत्यधिदैवतम् ।८।

 

।।इति षष्ठः खण्डः।।

 

सप्तम : खण्ड:

 

अथाध्यात्मं वागेवर्माणः साम तदेतदेतस्यामृच्यध्यूढंꣲ᳭ साम तस्मादृच्यध्यूढꣲ᳭ साम गीयते वागेव सा प्राणोऽमस्तत्साम ।१।

 

चक्षुरेवर्गात्मा साम तदेतदेतस्यामृच्यध्यूढंꣲ᳭ साम तस्मा- दृच्यध्यूढꣲ᳭ साम गीयते चक्षुरेव सात्मामस्तत्साम ।२।

 

श्रोत्रमेवमनः साम तदेतदेतस्यामृच्यध्यूढ साम तस्मा- दृच्यध्यूढꣲ᳭ साम गीयते श्रोत्रमेव सा मनोऽमस्तत्साम ।३।

 

अथ यदेतदक्ष्णः शुक्लं भाः सैवर्गथ यन्नीलं परः कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढꣲ᳭साम तस्मादृच्यध्यूढꣲ᳭ साम गीयते। अथ यदेवैतदक्ष्णः शुक्लं भाः सैव साथ यन्नीलं परः कृष्णं तदमस्तत्साम ।४।

 

अथ एषोऽन्तरक्षिणि पुरुषो दृश्यते सैवतत्साम तदुक्थं तद्यजुस्तद्ब्रह्म तस्यैतस्य तदेव रूपं यदमुष्य रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम ।५।

 

एष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां चेति तद्य इमे वीणायां गायन्त्येतं ते गायन्ति तस्मात्ते धनसनयः ।६।

 

अथ एतदेवं विद्वान्साम गायत्युभौ गायति सोऽमुनैव एष ये चामुष्मात्पराञ्चो लोकास्ताꣲ᳭ श्चाप्नोति देवकामाꣲ᳭ श्च ।७।

 

अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्ताꣲ᳭ श्चाप्नोति मनुष्यकामाꣲ᳭ श्च तस्मादु हैवंविदुद्गाता ब्रूयात् ।८।

 

कं ते काममागायानीत्येष ह्येव कामगानस्येष्टे एवं विद्वान्साम गायति साम गायति ।९।

 

।।इति सप्तमः खण्डः।।

 

 

अष्टम : खण्ड :

 

त्रयो होद्गीथे कुशला बभूवुः शिलकः शालावत्यश्चैकितायनो दाल्भ्यः प्रवाहणो जैवलिरिति ते होचुरुद्गीथे वै कुशलाः स्मो हन्तोद्गीथे कथां वदाम इति ।१

 

तथेति समुपविविशुः प्रवाहणो जैवलिरुवाच भगवन्तावग्रे वदतां ब्राह्मणयोर्वदतोर्वाचꣲ᳭ श्रोष्यामीति ।२।

 

शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच हन्त त्वा पृच्छानीति पृच्छेति होवाच ।३।

 

का साम्नो गतिरिति स्वर इति होवाच स्वरस्य का गतिरिति प्राण इति होवाच प्राणस्य का गतिरित्यन्नमिति होवाचान्त्रस्य का गतिरित्याप इति होवाच ।४।

 

अपां का गतिरित्यसौ लोक इति होवाचामुष्य लोकस्य का गतिरिति स्वर्ग लोकमतिनयेदिति होवाच स्वर्गं वयं लोकꣲ᳭ सामाभिसंस्थापयामः स्वर्गसꣲ᳭ स्तावꣲ᳭ हि सामेति ।५।

 

ꣲ᳭ शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाचाप्रतिष्ठितं वै किल ते दाल्भ्य साम यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति ।६।

 

हन्ताहमेतद्भगवत्तो वेदानीति विद्धीति होवाचामुष्य लोकस्य का गतिरित्ययं लोक इति होवाचास्य लोकस्य का गतिरिति प्रतिष्ठां लोकमतिनयेदिति होवाच प्रतिष्ठां वयं लोकꣲ᳭ सामाभिसꣲ᳭ स्थापयामः प्रतिष्ठासꣲ᳭ स्तावꣲ᳭ हि सामेति ।७।

 

ꣲ᳭ प्रवाहणो जैवलिरुवाचान्तवद्वै किल ते शालावत्य साम यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति हन्ताहमेतद्भगवत्तो वेदानीति विद्धीति होवाच ।८।

 

।।इतिं अष्टमः खण्डः।।

 

नवम : खण्ड :

 

अस्य लोकस्य का गतिरित्याकाश इति होवाच सर्वाणि वा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानाकाशः परायणम् ।१

 

एष परोवरीयानुद्गीथः एषोऽनन्तः परोवरीयो हास्य भवति परोवरीयसो लोकाञ्जयति एतदेवं विद्वान्परो- वरीयाꣲ᳭ समुद्गीथमुपास्ते ।२।

 

ꣲ᳭ हैतमतिधन्वा शौनक उदरशाण्डिल्यायोक्त्वोवाच यावत्त एनं प्रजायामुद्गीथं वेदिष्यन्ते परोवरीयो हैभ्यस्तावदस्मिँल्लोके जीवनं भविष्यति ३।

 

तथामुष्मिँल्लोके लोक इति एतमेवं विद्वानुपास्ते परोवरीय एव हास्यास्मिँल्लोके जीवनं भवति तथामुष्मिँल्लोके लोक इति लोके लोक इति ।४।

 

।।इति नवमः खण्डः।।

 

दशम : खण्ड :

 

मटचीहतेषु कुरुष्वाटिक्या सह जाययोषस्तिर्ह चाक्रायण इभ्यग्रामे प्रद्राणक उवास ।१।

 

हेभ्यं कुल्माषान्खादन्तं बिभिक्षे ꣲ᳭ होवाच नेतोऽन्ये विद्यन्ते यच्च ये इम उपनिहिता इति ।२।

 

एतेषां मे देहीति होवाच तानस्मै प्रददौ हन्तानुपानमित्युच्छिष्टं वै मे पीतꣲ᳭ स्यादिति होवाच ।३।

 

स्विदेतेऽप्युच्छिष्टा इति वा अजीविष्यमिमानखादन्निति होवाच कामो उदपानमिति ।४।

 

खादित्वातिशेषाञ्जायाया आजहार साग्र एव सुभिक्षा बभूव तान्प्रतिगृह्य निदधौ ।५।

 

प्रातः संजिहान उवाच यद्वतान्नस्य लभेमहि लभेमहि धनमात्राꣲ᳭ राजासौ यक्ष्यते मा सर्वैरात्र्विज्यैर्वृणीतेति ।६।

 

तं जायोवाच हन्त पत इम एव कुल्माषा इति तान्खादित्वामुं यज्ञं विततमेयाय ।७।

 

तत्रोद्रातृनास्तावे स्तोष्यमाणानुपोपविवेश प्रस्तोतारमुवाच ।८।

 

प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति ।९।

 

एवमेवोद्गातारमुवाचोद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति ।१०।

 

एवमेव प्रतिहर्तारमुवाच प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति ते समारतास्तूष्णीमासांचक्रिरे ।११।

 

।।इतिं दशमः खण्डः।।

 

एकादश : खण्ड :

 

अथ हैनं यजमान उवाच भगवन्तं वा अहं विविदिषाणीत्युषस्तिरस्मि चाक्रायण इति होवाच ।१

 

होवाच भगवन्तं वा अहमेभिः सर्वैरार्विज्यैः पर्येषिषं भगवतो वा अहमवित्त्यान्यानवृषि ।२।

 

भगवाꣲ᳭ स्त्वेव मे सर्वैरात्र्विज्यैरिति तथेत्यथ तर्होत एव समतिसृष्टाः स्तुवतां यावत्त्वेभ्यो धनं दद्यास्तावन्मम दद्या इति तथेति यजमान उवाच ।३।

 

अथ हैनं प्रस्तोतोपससाद प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत्कतमा सा देवतेति ।४।

 

प्राण इति होवाच सर्वाणि वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रास्तोष्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ।५।

 

अथ हैनमुद्गातोपससादोगातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत्कतमा सा देवतेति ।६।

 

आदित्य इति होवाच सर्वाणि वा इमानि भूतान्यादित्यमुच्चैः सन्तं गायन्ति सैषा देवतोद्गीथमन्वायत्ता तां चेदविद्वानुदगास्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ।७।

अथ हैनं प्रतिहर्तोपससाद प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत्कतमा सा देवतेति ।८।

 

अन्नमिति होवाच सर्वाणि वा इमानि भूतान्यन्नमेव प्रतिहरमाणानि जीवन्ति सैषा देवता प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रत्यहरिष्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति तथोक्तस्य मयेति ।९।

 

।।इति एकादशः खण्डः।।

 

द्वादश : खण्ड :

 

अथातः शौव उद्गीथस्तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयः स्वाध्यायमुद्द्वब्राज ।१।

 

तस्मै श्वा श्वेतः प्रादुर्बभूव तमन्ये श्वान उपसमेत्योचुरन्नं नो भगवानागायत्वशनायामवा इति ।२।

 

तान्होवाचेहैव मा प्रातरुपसमीयातेति तद्ध बको दाल्भ्यो ग्लावो वा मैत्रैयः प्रतिपालयांचकार ।३।

 

ते यथैवेदं बहिष्पवमानेन स्तोष्यमाणाः संरब्धाः सर्पन्तीत्येवमाससृपुस्ते समुपविश्य हिं चक्रुः ।४।

 

ओ३मदा३मों३ पिबा३मों३ देवो वरुणः प्रजापतिः सविता २न्नमिहा हरदन्नपते ३ऽन्नमिहा २हरा २हरो३मिति ।५।

 

।।इति द्वादशः२खण्डः।।

 

त्रयोदश : खण्ड :

 

अयं वाव लोको हाउकारो वायुहाइकारश्चन्द्रमा अथकारः आत्मेहकारोऽग्निरीकारः ।१।

 

आदित्य ऊकारो निहव एकारो विश्वेदेवा औहोयिकार: प्रजापतिर्हिकारः प्राणः स्वरोऽन्नं या वाग्विराट् ।२।

 

अनिरुक्तस्त्रयोदशः स्तोभः संचरो हुंकारः ।३।

 

दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति एतामेवꣲ᳭ साम्नामुपनिषदं वेदोपनिषदं वेदेति ।४।

 

।।इति प्रयोदशः खण्डः।।

 इति प्रथमोऽध्यायः

 

 

द्वितीयोऽध्याय :

 

प्रथम : खण्ड :

 

समस्तस्य खलु साम्न उपासनꣲ᳭ साधु यत्खलु साधु तत्सामेत्याचक्षते यदसाधु तदसामेति ।१।

 

तदुताप्याहुः साम्नैनमुपागादिति साधुनैनमुपागादित्येव तदाहुरसाम्नैनमुपागादित्यसाधुनैनमुपागादित्येव तदाहुः ।२।

 

अथोताप्याहुः साम नो बतेति यत्साधु भवति साधु बतेत्येव तदाहुरसाम नो बतेति यदसाधु भवत्यसाधु बतेत्येव तदाहुः ।३।

 

एतदेवं विद्वान्साधु सामेत्युपास्तेऽभ्याशो यदेनꣲ᳭ साधवो धर्मा गच्छेयुरुप नमेयुः ।४।

 

।।इति प्रथमः खण्डः।।

 

 

 

 

द्वितीय : खण्ड :

 

लोकेषु पञ्चविधꣲ᳭ सामोपासीत पृथिवी हिंकारः अग्निः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो द्यौर्निधन-मित्यूर्वेषु ।१

 

अथावृत्तेषु द्यौहिंकार आदित्यः प्रस्तावोऽन्तरिक्षमुद्गीथो- ऽग्निः प्रतिहारः पृथिवी निधनम् ।२।

 

कल्पन्ते हास्मै लोका ऊर्ध्वाश्चावृत्ताश्च एतदेवं विद्वाँल्लोकेषु पञ्चविधं सामोपास्ते ।३।

 

।।इति द्वितीयः खण्डः।।

 

तृतीय : खण्ड :

 

वृष्टौ पञ्चविधꣲ᳭  सामोपासीत पुरोवातो हिंकारो मेघो जायते प्रस्तावो वर्षति उद्गीथो विद्योतते स्तनयति प्रतिहार उद्गृह्णाति तन्निधनम् ।१

 

वर्षति हास्मै वर्षयति एतदेवं विद्वान्वृष्टौ पञ्चविधꣲ᳭  सामोपास्ते ।२।

 

।।इति तृतीयः खण्डः।।

 

 

चतुर्थ : खण्ड :

 

सर्वास्वप्सु पञ्चविधꣲ᳭  सामोपासीत मेघो यत्संप्लवते हिंकारो यद्वर्षति प्रस्तावो याः प्राच्यः स्यन्दन्ते उद्गीथो याः प्रतीच्यः प्रतिहारः समुद्रो निधनम्

 

हाप्सु प्रैत्यप्सुमान्भवति एतदेवं विद्वान्सर्वास्वप्सु पञ्चविधꣲ᳭  सामोपास्ते ।२।

 

।।इति चतुर्थः खण्डः।।

 

 

पञ्चम : खण्ड :

 

ऋतुषु पञ्चविधꣲ᳭  सामोपासीत वसन्तो हिंकारो ग्रीष्मः प्रस्तावो वर्षा उद्गीथः शरत्प्रतिहारो हेमन्तो निधनम् ।१।

 

कल्पन्ते हास्मा ऋतव ऋतुमान्भवति एतदेवं विद्वानृतुषु पञ्चविधꣲ᳭  सामोपास्ते ।२।

 

।।इतिपंचम:खण्:।।

 

षष्:खण्:

 

पशुषु पञ्चविधꣲ᳭  सामोपासीताजा हिकारोऽवयः प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः पुरुषो निधनम्

 

भवन्ति हास्य पशवः पशुमान्भवति एतदेवं विद्वान्पशुषु पञ्चविधꣲ᳭  सामोपास्ते ।२।

 

।।इति षष्ठः खण्डः।।

 

सप्तम : खण्ड :

 

प्राणेषु पञ्चविधं परोवरीयः सामोपासीत प्राणो हिंकारो वाक्प्रस्तावश्चक्षुरुगीथः श्रोत्रं प्रतिहारो मनो निधनं परोवरीयाꣲ᳭  सि वा एतानि ।१।

 

परोवरीयो हास्य भवति परोवरीयसो लोकाञ्जयति एतदेवं विद्वान्प्राणेषु पञ्चविधं परोवरीयः सामोपास्त इति तु पञ्चविधस्य ।२।

 

।।इति सप्तमः खण्डः।।

 

 

 

 

 

अष्टम : खण्ड :

 

अथ सप्तविधस्य वाचि सप्तविधꣲ᳭  सामोपासीत यत्किंच वाचो हुमिति हिकारो यत्प्रेति प्रस्तावो यदेति आदिः ।१

 

यदुदिति उद्गीथो यत्प्रतीति प्रतिहारो यदुपेति उपद्रवो यन्नीति तन्निधनम् ।२।

 

दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति एतदेवं विद्वान्वाचि सप्तविधꣲ᳭  सामोपास्ते ।३।

 

।।इति अष्टमः खण्डः।।

 

नवम : खण्ड :

 

अथ खल्वमुमादित्यꣲ᳭  सप्तविधꣲ᳭  सामोपासीत सर्वदा समस्तेन साम मां प्रति मां प्रतीति सर्वेण समस्तेन साम ।१

 

तस्मिन्निमानि सर्वाणि भूतान्यन्वायत्तानीति विद्यात्तस्य यत्पुरोदयात्स हिंकारस्तदस्य पशवोऽन्वायत्तास्तस्मात्ते हि ' कुर्वन्ति हिंकारभाजिनो ह्येतस्य साम्नः ।२।

 

अथ यत्प्रथमोदिते प्रस्तावस्तदस्य मनुष्या अन्वायत्ता- स्तस्मात्ते प्रस्तुतिकामाः प्रशꣲ᳭  साकामाः प्रस्तावभाजिनो ह्येतस्य साम्नः ।३।

 

अथ यत्संगववेलायाꣲ᳭  आदिस्तदस्य वयाꣲ᳭  स्यन्वायत्तानि तस्मात्तान्यन्तरिक्षेऽनारम्बणान्यादायात्मानं परिपतन्त्यादिभाजीनि ह्येतस्य साम्नः ।४।

 

अथ यत्संप्रतिमध्यंदिने उद्गीथस्तदस्य देवा अन्वायत्तास्तस्मात्ते सत्तमाः प्राजापत्यानामुद्गीथभाजिनो ह्येतस्य साम्नः ।५।

 

अथ यदूर्ध्वं मध्यंदिनात्प्रागपराह्णात्स प्रतिहारस्तदस्य गर्भा अन्वायत्तास्तस्मात्ते प्रतिहतानावपद्यन्ते प्रतिहार भाजिनो ह्येतस्य साम्नः ।६।

 

अथ यदूर्ध्वमपराह्णात्प्रागस्तमयात्स उपद्रवस्तदस्यारण्या अन्वायत्तास्तस्मात्ते पुरुषं दृष्ट्वा कक्षꣲ᳭  श्वभ्रमित्युपद्रवन्त्युपद्रव- भाजिनो ह्येतस्य साम्नः ।७।

 

अथ यत्प्रथमास्तमिते तन्निधनं तदस्य पितरोऽ- न्वायत्तास्तस्मात्तान्निदधति निधनभाजिनो ह्येतस्य साम्न एवं खल्वमुमादित्यꣲ᳭  सप्तविधꣲ᳭  सामोपास्ते ।८।

 

।।इति नवमः खण्डः।।

दशम : खण्ड :

 

अथ खल्वात्मसंमितमतिमृत्यु सप्तविधꣲ᳭  सामोपासीत हिंकार इति त्र्यक्षरं प्रस्ताव इति त्र्यक्षरं तत्समम् ।१

 

आदिरिति द्वय्यक्षरं प्रतिहार इति चतुरक्षरं तत इहैकं तत्समम् ।२।

 

उद्गीथ इति त्र्यक्षरमुपद्रव इति चतुरक्षरं त्रिभिस्त्रिभिः समं भवत्यक्षरमतिशिष्यते त्र्यक्षरं तत्समम् ।३।

 

निधनमिति त्र्यक्षरं तत्सममेव भवति तानि वा एतानि द्वाविꣲ᳭  शतिरक्षराणि ।४।

 

एकविꣲ᳭ शत्यादित्यमाप्नोत्येकविꣲ᳭ शो वा इतोऽसावादित्यो द्वाविꣲ᳭  शेन परमादित्याज्जयति तन्नाकं तद्विशोकम् ।५।

 

आप्नोति हादित्यस्य जयं परो हास्यादित्यजयाज्जयो भवति एतदेवं विद्वानात्मसंमितमतिमृत्यु सप्तविधꣲ᳭  सामोपास्ते सामोपास्ते ।६।

 

।।इति दशमः खण्डः।।

 

 

 

 

 

 

एकादश : खण्ड :

 

मनो हिंकारो वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारः प्राणो निधनमेतद्गायत्रं प्राणेषु प्रोतम् ।१

 

एवमेतद्गायत्रं प्राणेषु प्रोतं वेद प्राणी भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या महामनाः स्यात्तव्रतम् ।२।

 

।।इति एकादशः खण्डः।।

 

द्वादश: खण्ड :

 

अभिमन्थति हिंकारो धूमो जायते प्रस्तावो ज्वलति उद्गीथोऽङ्गारा भवन्ति प्रतिहार उपशाम्यति तन्निधन्ꣲ᳭  ꣲ᳭ शाम्यति तन्निधनमेतद्रथंतरमग्नौ प्रोतम्

 

एवमेतद्रथंतरमग्नौ प्रोतं वेद ब्रह्मवर्चस्यन्नादो भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीत्यां प्रत्यङ्कुग्निमाचामेन्न निष्ठीवेत्तद्व्रतम् ।२।

 

।।इति द्वादशः खण्डः।।

 

त्रयोदश : खण्ड :

 

उपमन्त्रयते हिंकारो ज्ञपयते प्रस्ताव: स्त्रिया सह शेते उद्गीथः प्रति स्त्रीं सह शेते प्रतिहार: कालं गच्छति तन्निधनं पारं गच्छति तन्निधनमेतद्वामदेव्यं मिथुने प्रोतम्

 

एवमेतद्वामदेव्यं मिथुने प्रोतं वेद मिथुनी भवति मिथुनान्मिथुनात्प्रजायते सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या कांचन परिहरेत्तद्व्रतम् ।२।

 

।।इति त्रयोदशः खण्डः।।

 

 

 

चतुर्दश : खण्ड :

 

उद्यन्हिंकार उदितः प्रस्तावो मध्यंदिन उद्गीथोऽपराह्नः प्रतिहारोऽस्तं यन्निधनमेतद्बृहदादित्ये प्रोतम् ।१।

 

एवमेतद्वृहदादित्ये प्रोतं वेद तेजस्व्यन्नादो भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या तपन्तं निन्देत्तद्व्रतम् ।२।

 

।।इति चतुर्दशः खण्डः।।

 

पञ्चदश: खण्ड :

 

अभ्राणि संप्लवन्ते हिंकारो मेघो जायते प्रस्तावो वर्षति उद्गीथो विद्योतते स्तनयति प्रतिहार उद्गृह्णाति तन्निधनमेतद्वैरूपं पर्जन्ये प्रोतम्

 

एवमेतद्वैरूपं पर्जन्ये प्रोतं वेद विरूपाꣲ᳭ श्च सुरूपाꣲ᳭ श्च पशूनवरुन्धे सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या वर्षन्तं निन्देत्तद्व्रतम् ।२।

 

।।इति पञ्चदशः खण्डः।।

 

षोडश : खण्ड :

 

वसन्तो हिकारो ग्रीष्मः प्रस्तावो वर्षा उद्गीथः शरत्प्रतिहारो हेमन्तो निधनमेतद्वैराजमृतुषु प्रोतम्

 

एवमेतद्वैराजमृतुषु प्रोतं वेद विराजति प्रजया पशुभिर्ब्रह्मवर्चसेन सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्यतूंन्न निन्देत्तद्व्रतम् ।२।

।।इति षोडश: खण्ड:।।

 

 

 

 

सप्तदश: खण्ड :

 

पृथिवी हिंकारोऽन्तरिक्षं प्रस्तावो द्यौरुद्गीथो दिशः प्रतिहारः समुद्रो निधनमेताः शक्वर्यो लोकेषु प्रोताः ।१।

 

एवमेताः शक्वर्यो लोकेषु प्रोता वेद लौकी भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या लोकान्न निन्देत्तद्व्रतम् ।२।

 

।।इति सप्तदशः खण्डः।।

 

अष्टादश : खण्ड :

 

अजा हिंकारोऽवयः प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहार: पुरुषो निधनमेता रेवत्यः पशुषु प्रोताः ।१।

 

एवमेता रेवत्यः पशुषु प्रोता वेद पशुमान्भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या पशून्न निन्देत्तद्व्रतम् ।२।

 

।।इति अष्टादशः खण्डः।।

 

एकोनविंश : खण्ड :

 

लोम हिंकारस्त्वक्प्रस्तावो माꣲ᳭  समुद्गीथोऽस्थि प्रतिहारो मज्जा निधनमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतम् ।१

 

एवमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतं वेदाङ्गी भवति नाङ्गेन विहूर्छति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या संवत्सरं मज्ज्ञो नाश्नीयात्तद्व्रतं मज्ज्ञो नाश्नीयादिति वा ।२।

 

।।इति एकोनविंशः खण्डः।।

 

 

विंश : खण्ड :

 

अग्निर्हिकारो वायुः प्रस्ताव आदित्य उद्गीथो नक्षत्राणि प्रतिहारश्चन्द्रमा निधनमेतद्राजनं देवतासु प्रोतम्

 

एवमेतद्राजनं देवतासु प्रोतं वेदैतासामेव देवतानाꣲ᳭  सलोकताꣲ᳭  साष्र्टिताꣲ᳭  सायुज्यं गच्छति सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या ब्राह्मणान्न निन्देत्तद्- व्रतम् ।२

 

।।इति विंशः खण्डः।।

एकविंश : खण्ड :

 

त्रयी विद्या हिंकारस्त्रय इमे लोकाः प्रस्तावो- ऽग्निर्वायुरादित्यः उद्गीथो नक्षत्राणि वयाꣲ᳭  सि मरीचयः प्रतिहारः सर्पा गन्धर्वाः पितरस्तन्निधनमेतत्साम सर्व- स्मिन्त्रोतम्

 

एवमेतत्साम सर्वस्मिन्प्रोतं वेद सर्वꣲ᳭  भवति ।२।

 

तदेष श्लोको यानि पञ्चधा त्रीणि त्रीणि तेभ्यो ज्यायः परमन्यदस्ति ।३।

 

यस्तद्वेद वेद सर्व ꣲ᳭ सर्वा दिशो बलिमस्मै हरन्ति सर्वमस्मीत्युपासीत तद्व्रतं तद्ब्रतम् ।४।

 

।।इति एकविंशः खण्डः।।

 

द्वाविंश : खण्ड :

 

विनर्दि साम्नो वृणे पशव्यमित्यग्नेरुगीथोऽनिरुक्तः प्रजापतेर्निरुक्तः सोमस्य मृदु श्लक्ष्णं वायोः श्लक्ष्णं बलवदिन्द्रस्य क्रौञ्चं बृहस्पतेरपध्वान्तं वरुणस्य तान्सर्वानेवो- पसेवेत वारुणं त्वेव वर्जयेत् ।१।

 

अमृतत्वं देवेभ्य आगायानीत्यागायेत्स्वधां पितृभ्य आशां मनुष्येभ्यस्तृणोदकं पशुभ्यः स्वर्गं लोकं यजमानायान्नमात्मन आगायानीत्येतानि मनसा ध्यायन्नप्रमत्तः स्तुवीत ।२।

 

सर्वे स्वरा इन्द्रस्यात्मानः सर्व ऊष्माणः प्रजापतेरात्मानः सर्वे स्पर्शा मृत्योरात्मानस्तं यदि स्वरेषूपालभेतेन्द्र शरणं प्रपन्नोऽभूवं त्वा प्रति वक्ष्यतीत्येनं ब्रूयात् ।३।

 

अथ यद्येनमूष्मसूपालभेत प्रजापतिꣲ᳭  शरणं प्रपन्नोऽभूवं त्वा प्रति पेक्ष्यतीत्येनं ब्रूयादथ यद्येनꣲ᳭  स्पर्शेषूपालभेत मृत्युꣲ᳭  शरणं प्रपन्नोऽभूवं त्वा प्रति धक्ष्यतीत्येनं ब्रूयात् ।४।

 

सर्वे स्वरा घोषवन्तो बलवन्तो वक्तव्या इन्द्रे बलं ददानीति सर्व ऊष्माणोऽग्रस्ता अनिरस्ता विवृता वक्तव्याः प्रजापतेरात्मानं परिददानीति सर्वे स्पर्शा लेशेनानभिनिहिता वक्तव्या मृत्योरात्मानं परिहराणीति ।५।

 

।।इति द्वाविंशः खण्डः।।

 

त्रयोविंश : खण्ड :

 

 

त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीयोऽत्यन्तमात्मानमाचार्य- कुलेऽवसादयन्सर्व एते पुण्यलोका भवन्ति ब्रह्मसꣲ᳭  स्थो- ऽमृतत्वमेति ।१।

 

प्रजापतिर्लोकानभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रयी विद्या संप्रा- स्रवत्तामभ्यतपत्तस्या अभितप्ताया एतान्यक्षराणि संप्रास्रवन्त भूर्भुवः स्वरिति ।२।

 

तान्यभ्यतपत्तेभ्योऽभितप्तेभ्य ॐकारः संप्रास्रवत्तद्यथा शङ्कुना सर्वाणि पर्णानि संतृण्णान्येवमोंकारेण सर्वा वाक्संतृणोंकार एवेदꣲ᳭  सर्वमोंकार एवेदꣲ᳭  सर्वम्

 

।।इतिं त्रयोविंशः खण्डः।।

 

चतुर्विंश : खण्ड :

 

ब्रह्मवादिनो वदन्ति यद्वसूनां प्रातः सवन्ꣲ᳭  रुद्राणां माध्यंदिनꣲ᳭  सवनमादित्यानां विश्वेषां देवानां तृतीयसवनम् ।१

 

क्व तर्हि यजमानस्य लोक इति यस्तं विद्यात्कथं कुर्यादथ विद्वान्कुर्यात् ।२।

 

पुरा प्रातरनुवाकस्योपाकरणाज्जघनेन गार्हपत्यस्योदङ्मुख उपविश्य वासवꣲ᳭  सामाभिगायति ।३।

 

लो३कद्वारमपावा३णू ३३ पश्येम त्वा वयꣲ᳭ रा ३३३३३ हु म् ३३ ज्या यो ३२१११ इति ।४।

 

अथ जुहोति नमोऽग्नये पृथिवीक्षिते लोकक्षिते लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक एतास्मि ।५।

 

अत्र यजमानः परस्तादायुषः स्वाहापजहि परिघमित्युक्त्वो- त्तिष्ठति तस्मै वसवः प्रातः सवनꣲ᳭  संप्रयच्छन्ति ।६।

 

पुरा माध्यंदिनस्य सवनस्योपाकरणाज्जघनेनाग्नीध्रीयस्योदङ्- मुख उपविश्य रौद्रꣲ᳭  सामाभिगायति ।७।

 

लो३कद्वारमपावा३णू ३३ पश्येम त्वा वयं वैरा३३३३३ हु३म् आ३३ज्या३यो३आ३२१११ इति ।८।

 

अथ जुहोति नमो वायवेऽन्तरिक्षक्षिते लोकक्षिते लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक एतास्मि ।९।

 

अत्र यजमानः परस्तादायुषः स्वाहापजहि परिघमित्युक्त्वो- त्तिष्ठति तस्मै रुद्रा माध्यंदिनꣲ᳭  सवनꣲ᳭  संप्रयच्छन्ति ।१०।

 

पुरा तृतीयसवनस्योपाकरणाज्जघनेनाहवनीयस्योदङ्मुख उपविश्य आदित्यꣲ᳭  वैश्वदेवꣲ᳭  सामाभिगायति ।११।

 

लो३ कद्वारमपावा ३णू ३पश्येम त्वा वयꣲ᳭  स्वारा ३३३३३ हु३म् आ३३ ज्या३ यो ३२१११ इति ।१२।

 

आदित्यमथ वैश्वदेवं लो३कद्वारमपावा३णू३३ पश्येम त्वा वयꣲ᳭  साम्रा३३३३३ हु३म् आ३३ ज्या३यो३आ ३२१११ इति ।१३।

 

अथ जुहोति नम आदित्येभ्यश्च विश्वेभ्यश्च देवेभ्यो दिविक्षिद्भयो लोकक्षिद्भयो लोकं मे यजमानाय विन्दत ।१४।

 

एष वै यजमानस्य लोक एतास्म्यत्र यजमानः परस्तादायुषः स्वाहापहत परिघमित्युक्त्वोत्तिष्ठति ।१५।

 

तस्मा आदित्याश्च विश्वे देवास्तृतीयसवनꣲ᳭  संप्रयच्छन्त्येष वै यज्ञस्य मात्रां वेद एवं वेद एवं वेद ।१६।

 

।।इति चतुर्विंशः खण्डः।।

 इति द्वितीयोऽध्यायः

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

तृतीयोऽध्याय :

 

प्रथम : खण्ड :

 

असौ वा आदित्यो देवमधु तस्य द्यौरेव तिरश्चीनवꣲ᳭  शो- ऽन्तरिक्षमपूपो मरीचयः पुत्राः ।१।

 

तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्यः ऋच एव मधुकृत ऋग्वेद एव पुष्पं ता अमृता आपस्ता वा एता ऋचः ।२।

 

एतमृग्वेदमभ्यतपꣲ᳭  स्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यꣲ᳭  रसोऽजायत ।३।

 

तद्वयक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य रोहितꣲ᳭  रूपम् ।४।

।।इति प्रथमः खण्डः।।

 

द्वितीय : खण्ड :

 

अथ येऽस्य दक्षिणा रश्मयस्ता एवास्य दक्षिणा मधुनाड्यो यजूꣲ᳭ ष्येव मधुकृतो यजुर्वेद एव पुष्पं ता अमृता आपः ।१।

 

तानि वा एतानि यजूꣲ᳭  ष्येतं यजुर्वेदमभ्यतपꣲ᳭  स्तस्या- भितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यꣲ᳭  रसोऽजायत ।२।

 

तद्वाक्षरत्तदादित्यमभितोऽ श्रयत्तद्वा एतद्यदेतदादित्यस्य शुक्लꣲ᳭  रूपम् ।३।

 

।।इति द्वितीयः खण्डः।।

 

तृतीय : खण्ड :

 

अथ येऽस्य प्रत्यञ्चो रश्मयस्ता एवास्य प्रतीच्यो मधुनाड्यः सामान्येव मधुकृतः सामवेद एव पुष्पं ता अमृता आपः ।१

 

तानि वा एतानि सामान्येतꣲ᳭  सामवेदमभ्यतपꣲ᳭  स्तस्या- भितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यꣲ᳭  रसोऽजायत ।२।

 

तद्वयक्षरत्तदादित्यमभितोऽ श्रयत्तद्वा एतद्यदेतदादित्यस्य कृष्णꣲ᳭  रूपम् ।३।

 

।।इति तृतीयः खण्डः।।

चतुर्थ : खण्ड :

 

अथ येऽस्योदञ्चो रश्मयस्ता एवास्योदीच्यो मधुनाड्यो- ऽथर्वाङ्गिरस एव मधुकृत इतिहासपुराणं पुष्पं ता अमृता आपः ।१

 

ते वा एतेऽथर्वाङ्गिरस एतदितिहासपुराणमभ्यतपꣲ᳭ स्तस्या- भितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यꣲ᳭  रसोऽजायत ।२।

 

तद्वयश्क्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य परं कृष्णꣲ᳭  रूपम् ।३।

 

।।इति चतुर्थः खण्डः।।

 

पञ्चम : खण्ड :

 

अथ येऽस्योर्ध्वा रश्मयस्ता एवास्योर्ध्वा मधुनाड्यो गुह्या एवादेशा मधुकृतो ब्रहौव पुष्पं ता अमृता आपः ।१।

 

ते वा एते गुह्या आदेशा एतद्ब्रह्माभ्यतपꣲ᳭  स्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यꣲ᳭  रसोऽजायत ।२।

 

तद्वयक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एदद्यदेतदादित्यस्य मध्ये क्षोभत इव ।३।

 

ते वा एते रसानाꣲ᳭रसा वेदा हि रसास्तेषामेते रसास्तानि वा एतान्यमृतानाममृतानि वेदा ह्यमृतास्तेषामेतान्यमृतानि ।४।

 

।।इति पञ्चमः खण्डः।।

 

षष् : खण्ड :

तद्यत्प्रथमममृतं तद्वसव उपजीवन्त्यग्निना मुखेन वै देवा अश्नन्ति पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ।१।

 

एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ।२।

 

एतदेवममृतं वेद वसूनामेवैको भूत्वाग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति एतदेव रूपमभिसंविशत्ये- तस्माद्रूपादुदेति ।३।

 

यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता वसूनामेव तावदाधिपत्यꣲ᳭  स्वाराज्यं पर्येता ।४।

।।इति षष्ठः खण्डः।।

सप्तम : खण्ड :

 

अथ यद्वितीयममृतं तद्रुद्रा उपजीवन्तीन्द्रेण मुखेन वै देवा अश्नन्ति पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ।१।

 

एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ।२।

 

एतदेवममृतं वेद रुद्राणामेवैको भूत्वेन्द्रेणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति एतदेव रूपमभिसंविशत्ये- तस्माद्रूपादुदेति ।३।

 

यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्तावद्दक्षिणत उदेतोत्तरतोऽस्तमेता रुद्राणामेव तावदाधिपत्यꣲ᳭  स्वाराज्यं पर्येता ।४।

 

।।इति सप्तम: खण्ड:।।

 

अष्टम : खण्ड:

 

अथ यत्तृतीयममृतं तदादित्या उपजीवन्ति वरुणेन मुखेन वै देवा अश्नन्ति पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ।१।

 

एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ।२।

 

एतदेवममृतं वेदादित्यानामेवैको भूत्वा वरुणेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति एतदेव रूपमभिसंविशत्ये- तस्माद्रूपादुदेति ।३।

 

यावदादित्यो दक्षिणत उदेतोत्तरतोऽस्तमेता द्विस्ता- वत्पश्चादुदेता पुरस्तादस्तमेतादित्यानामेव तावदाधिपत्यꣲ᳭  स्वाराज्यं पर्येता ।४।

 

।।इति अष्टमः खण्डः।।

 

नवम : खण्ड :

 

अथ यच्चतुर्थममृतं तन्मरुत उपजीवन्ति सोमेन मुखेन वै देवा अश्नन्ति पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ।१।

 

एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ।२।

 

एतदेवममृतं वेद मरुतामेवैको भूत्वा सोमेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति एतदेव रूपमभिसंविशत्ये- तस्माद्रूपादुदेति ।३।

 

यावदादित्यः पश्चादुदेता पुरस्तादस्तमेता द्विस्तावदुत्तरत उदेता दक्षिणतोऽस्तमेता मरुतामेव तावदाधिपत्यꣲ᳭  स्वाराज्यं पर्येता ।४।

 

।।इति नवमः खण्डः।।

 

दशम : खण्ड :

 

अथ यत्पञ्चमममृतं तत्साध्या उपजीवन्ति ब्रह्मणा मुखेन वै देवा अश्नन्ति पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति

 

एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ।२।

 

एतदेवममृतं वेद साध्यानामेवैको भूत्वा ब्रह्मणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति एतदेव रूपमभिसंविशत्ये- तस्माद्रूपादुदेति ।३।

 

यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता द्विस्तावदूर्ध्व उदेतार्वागस्तमेता साध्यानामेव तावदाधिपत्यꣲ᳭  स्वाराज्यं पर्येता ।४।

 

।।इति दशमः खण्डः।।

 

एकादश : खण्ड :

 

अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाता तदेष श्लोकः ।१।

 

वै तत्र निम्लोच नोदियाय कदाचन देवास्तेनाहꣲ᳭  सत्येन मा विराधिषि ब्रह्मणेति ।२।

 

वा अस्मा उदेति निम्लोचति सकृद्दिवा हैवास्मै भवति एतामेवं ब्रह्मोपनिषदं वेद ।३।

 

तद्वैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्यस्तद्वैतदुद्दालकायारुणये ज्येष्ठाय पुत्राय पिता ब्रह्म प्रोवाच ।४।

 

इदं वाव तज्ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात्प्रणाय्याय वान्तेवासिने ।५।

 

नान्यस्मै कस्मैचन यद्यप्यस्मा इमामद्भिः परिगृहीतां धनस्य पूर्णां दद्यादेतदेव ततो भूय इत्येतदेव ततो भूय इति ।६।

।।इति एकादशः खण्डः।।

 

द्वादश: खण्ड :

 

गायत्री वा इदंꣲ᳭  सर्वं भूतं यदिदं किंच वाग्वै गायत्री वाग्वा इदꣲ᳭ सर्वं भूतं गायति त्रायते

 

या वै सा गायत्रीयं वाव सा येयं पृथिव्यस्याꣲ᳭  हीदꣲ᳭  सर्वं भूतं प्रतिष्ठितमेतामेव नातिशीयते ।२।

 

या वै सा पृथिवीयं वाव सा यदिदमस्मिन्पुरुषे शरीरमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते ।३।

 

यद्वै तत्पुरुषे शरीरमिदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे हृदयमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते ।४।

 

सैषा चतुष्पदा षडूविधा गायत्री तदेतदृचाभ्यनूक्तम् ।५।

 

तावानस्य महिमा ततो ज्यायाꣲ᳭ श्च पूरुषः पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति ।६।

 

यद्वै तद्ब्रह्मेतीदं वाव तद्योयं बहिर्धा पुरुषादाकाशो यो वै बहिर्धा पुरुषादाकाशः ।७।

 

अयं वाव योऽयमन्तः पुरुष आकाशो यो वै सोऽन्तः पुरुष आकाशः ।८।

 

अयं वाव योऽयमन्तर्हृदय आकाशस्तदेतत्पूर्णमप्रवर्ति पूर्णामप्रवर्तिनीꣲ᳭  श्रियं लभते एवं वेद ।९।

 

।।इति द्वादशः खण्डः।।

 

त्रयोदश : खण्ड :

 

तस्य वा एतस्य हृदयस्य पञ्च देवसुषयः योऽस्य प्राङ्सुषिः प्राणस्तच्चक्षुः आदित्यस्तदेतत्तेजोऽन्ना- द्यमित्युपासीत तेजस्व्यन्नादो भवति एवं वेद

 

अथ योऽस्य दक्षिणः सुषिः व्यानस्तच्छोत्रꣲ᳭  चन्द्रमास्तदेतच्छ्रीश्च यशश्चेत्युपासीत श्रीमान्यशस्वी भवति एवं वेद ।२।

 

अथ योऽस्य प्रत्यङ्सुषिः सोऽपानः सा वाक्सो- ऽग्निस्तदेतद्ब्रह्मवर्चसमन्नाद्यमित्युपासीत ब्रह्मवर्चस्यत्रादो भवति एवं वेद ।३।

 

अथ योऽस्योदङ्सुषिः समानस्तन्मनः पर्जन्य- स्तदेतत्कीर्तिश्च व्युष्टिश्चेत्युपासीत कीर्तिमान्व्युष्टिमान्भवति एवं वेद ।४।

 

अथ योऽस्योर्ध्वः सुषिः उदानः वायुः आकाशस्तदेतदोजश्च महश्चेत्युपासीतौजस्वी महस्वान्भवति एवं वेद ।५।

 

ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य लोकस्य द्वारपान्वेदास्य कुले वीरो जायते प्रतिपद्यते स्वर्गं लोकं एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य लोकस्य द्वारपान्वेद ।६।

 

अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः ।७।

 

तस्यैषा दृष्टिर्यत्रैतदस्मिञ्छरीरे ꣲ᳭स्पर्शेनोष्णिमानं विजानाति तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिगृह्य निनदमिव नदथुरिवाग्नेरिव ज्वलत उपशृणोति तदेतदृष्टं श्रुतं चेत्युपासीत चक्षुष्यः श्रुतो भवति एवं वेद एवं वेद ।८।

 

।।इति त्रयोदशः खण्डः।।

 

चतुर्दश : खण्ड :

 

सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिँल्लोके पुरुषो भवति तथेतः प्रेत्य भवति क्रतुं कुर्वीत ।१।

 

मनोमयः प्राणशरीरो भारूपः सत्यसंकल्प आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तो- ऽवाक्यनादरः ।२।

 

एष आत्मान्तहृदयेऽणीयान्त्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वैष आत्मान्तर्हृदये ज्यायान्पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यः ।३।

 

सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिद- मभ्यात्तोऽवाक्यनादर एष आत्मान्तर्हृदय एतद्ब्रह्मैतमितः प्रेत्याभिसंभवितास्मीति यस्य स्यादद्धा विचिकित्सास्तीति स्माह शाण्डिल्यः शाण्डिल्यः ।४।

 

।।इति चतुर्दशः खण्डः।।

 

पञ्चदश: खण्ड :

 

अन्तरिक्षोदरः कोशो भूमिबुध्नो जीर्यति दिशो ह्यस्य स्रक्तयो द्यौरस्योत्तरं बिल् एष कोशो वसुधान- स्तस्मिन्विश्वमिदꣲ᳭  श्रितम् ।१।

 

तस्य प्राची दिग्जुहूर्नाम सहमाना नाम दक्षिणा राज्ञी नाम प्रतीची सुभूता नामोदीची तासां वायुर्वत्सः एतमेवं वायुं दिशां वत्सं वेद पुत्ररोदꣲ᳭  रोदिति सोऽहमेतमेवं वायुं दिशां वत्सं वेद मा पुत्ररोदꣲ᳭  रुदम् ।२।

 

अरिष्टं कोशं प्रपद्येऽमुनामुनामुना प्राणं प्रपद्येऽमुनामुनामुना भूः प्रपद्येऽमुनामुनामुना भुवः प्रपद्येऽमुनामुनामुना स्वः प्रपद्येऽमुनामुनामुना ।३।

 

यदवोचं प्राणं प्रपद्य इति प्राणो वा इदꣲ᳭  सर्वं भूतं यदिदं किंच तमेव तत्प्रापत्सि ।४।

 

अथ यदवोचं भूः प्रपद्य इति पृथिवीं प्रपद्येऽन्तरिक्षं प्रपद्ये दिवं प्रपद्य इत्येव तदवोचम् ।५।

 

अथ यदवोचं भुवः प्रपद्य इत्यग्निं प्रपद्ये वायुं प्रपद्य आदित्यं प्रपद्य इत्येव तदवोचम् ।६।

 

अथ यदवोचꣲ᳭  स्वः प्रपद्य इत्यृग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये सामवेदं प्रपद्य इत्येव तदवोचं तदवोचम् ।७।

 

।।इति पञ्चदशः खण्डः।।

 

 

 

 

षोडश : खण्ड :

 

पुरुषो वाव यज्ञस्तस्य यानि चतुर्विꣲ᳭ शति वर्षाणि तत्प्रातः सवनं चतुर्विꣲ᳭  शत्यक्षरा गायत्री गायत्रं प्रातः सवनं तदस्य वसवोऽन्वायत्ताः प्राणा वाव वसव एते हीदꣲ᳭  सर्वं वासयन्ति ।१।

 

तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा वसव इदं मे प्रातः सवनं माध्यंदिनꣲ᳭  सवनमनुसंतनुतेति माहं प्राणानां वसूनां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो भवति ।२।

 

अथ यानि चतुश्चत्वारिꣲ᳭ शद्वर्षाणि तन्माध्यंदिनꣲ᳭  सवनं चतुश्चत्वारिꣲ᳭  शदक्षरा त्रिष्टुप्त्रैष्ठभं माध्यंदिनꣲ᳭  सवनं तदस्य रुद्रा अन्वायत्ताः प्राणा वाव रुद्रा एते हीदꣲ᳭  सर्वꣲ᳭  रोदयन्ति ।३।

 

तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा रुद्रा इदं मे माध्यंदिनꣲ᳭  सवनं तृतीयसवनमनुसंतनुतेति माहं प्राणानाꣲ᳭  रुद्राणां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो भवति ।४।

 

अथ यान्यष्टाचत्वारि शद्वर्षाणि तत्तृतीयसवनमष्टाचत्वारिꣲ᳭ शद- क्षरा जगती जागतं तृतीयसवनं तदस्यादित्या अन्वायत्ताः प्राणा वावादित्या एते हीदꣲ᳭  सर्वमाददते ।५।

 

तं चेदस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा आदित्या इदं मे तृतीयसवनमायुरनुसंतनुतेति माहं प्राणानामादित्यानां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो हैव भवति ।६।

 

एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेयः किं एतदुपतपसि योऽहमनेन प्रेष्यामीति षोडशं वर्षशत- मजीवत्प्र षोडशं वर्षशतं जीवति एवं वेद ।७।

।।इति षोडशः खण्डः।।

 

सप्तदश : खण्ड:

 

यदशिशिषति यत्पिपासति यन्न रमते ता अस्य दीक्षाः ।१।

 

अथ यदश्नाति यत्पिबति यद्रमते तदुपसदैरेति ।२।

 

अथ यद्धसति यज्जक्षति यन्मैथुनं चरति स्तुतशस्त्रैरेव तदेति ।३।

 

अथ यत्तपो दानमार्जवमहिꣲ᳭  सा सत्यवचनमिति ता अस्य दक्षिणाः ।४।

 

तस्मादाहुः सोष्यत्यसोष्टेति पुनरुत्पादनमेवास्य तन्मरण- मेवावभृथः ।५।

 

तद्वैतद्घोर आङ्गिरसः कृष्णाय देवकीपुत्रायोक्त्वो- वाचापिपास एव बभूव सोऽन्तवेलायामेतत्त्रयं प्रतिपद्येताक्षितमस्यच्युतमसि प्राणसꣲ᳭  शितमसीति तत्रैते द्वे ऋचौ भवतः ।६।

 

आदित्प्रत्नस्य रेतसः उद्वयं तमसस्परि ज्योतिः पश्यन्त उत्तरꣲ᳭  स्वः पश्यन्त उत्तरं देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तममिति ज्योतिरुत्तममिति ।७।

 

।।इति सप्तदशः खण्डः।।

 

अष्टादश : खण्ड :

 

मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो ब्रह्मेत्यु- भयमादिष्टं भवत्यध्यात्मं चाधिदैवतं ।१।

 

तदेतच्चतुष्पाद्ब्रह्म वाक्पादः प्राणः पादश्चक्षुः पादः श्रोत्रं पाद इत्यध्यात्ममथाधिदैवतमग्निः पादो वायुः पाद आदित्यः पादो दिशः पाद इत्युभयमेवादिष्टं भवत्यध्यात्मं चैवाधिदैवतं ।२।

 

वागेव ब्रह्मणश्चतुर्थः पादः सोऽग्निना ज्योतिषा भाति तपति भाति तपति कीर्त्या यशसा ब्रह्मवर्चसेन एवं वेद ।३।

 

प्राण एव ब्रह्मणश्चतुर्थः पादः वायुना ज्योतिषा भाति तपति भाति तपति कीर्त्या यशसा ब्रह्मवर्चसेन एवं वेद ।४।

 

चक्षुरेव ब्रह्मणश्चतुर्थः पादः आदित्येन ज्योतिषा भाति तपति भाति तपति कीर्त्या यशसा ब्रह्मवर्चसेन एवं वेद ।५।

 

श्रोत्रमेव ब्रह्मणश्चतुर्थः पादः दिग्भिर्थ्योतिषा भाति तपति भाति तपति कीर्त्या यशसा ब्रह्मवर्चसेन एवं वेद एवं वेद ।६।

 

।।इति अष्टादशः खण्डः।।

 

 

एकोनविंश : खण्ड :

 

आदित्यो ब्रह्मेत्यादेशस्तस्योपव्याख्यानमसदेवेदमग्र आसीत्। तत्सदासीत्तत्समभवत्तदाण्डं निरवर्तत तत्संवत्सरस्य मात्रामशयत तन्निरभिद्यत ते आण्डकपाले रजतं सुवर्णं चाभवताम् ।१।

 

तद्यद्रजतꣲ᳭  सेयं पृथिवी यत्सुवर्णꣲ᳭  सा द्यौर्यज्जरायु ते पर्वता यदुल्बꣲ᳭  समेघो नीहारो या धमनयस्ता नद्यो यद्वास्तेयमुदकꣲ᳭  समुद्रः ।२।

 

अथ यत्तदजायत सोऽसावादित्यस्तं जायमानं घोषा उलूलवोऽनूदतिष्ठन्सर्वाणि भूतानि सर्वे कामास्तस्मा- त्तस्योदयं प्रति प्रत्यायनं प्रति घोषा उलूलवोऽनूत्तिष्ठन्ति सर्वाणि भूतानि सर्वे कामाः ।३।

 

एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्तेऽभ्याशो यदेनꣲ᳭  साधवो घोषा गच्छेयुरुप निम्रेडेरन्निम्रेडेरन् ।४।

 

।।इतिएकोनविंशः खण्डः।।

 इति तृतीयोऽध्यायः

 

 

 

 

 

 

 

चतुर्थोऽध्यायः

 

प्रथम : खण्ड :

 

जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस सर्वत आवसथान्मापयांचक्रे सर्वत एव मेऽन्नमत्स्यन्तीति ।१।

 

अथ ꣲ᳭ सा निशायामतिपेतुस्तद्धैवꣲ᳭  हूꣲ᳭  सोहूꣲ᳭  समभ्युवाद हो होऽयि भल्लाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य समं दिवा ज्योतिराततं तन्मा प्रसाक्षीस्तत्त्वा मा प्रधाक्षीरिति ।२।

 

तमु परः प्रत्युवाच कम्वर एनमेतत्सन्तꣲ᳭  सयुग्वानमिव रैक्वमात्थेति यो नु कथꣲ᳭  सयुग्वा रैक्व इति ।३।

 

यथा कृतायविजितायाधरेयाः संयन्त्येवमेनꣲ᳭  सर्वं तदभि- समैति यत्किंच प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद मयैतदुक्त इति ।४।

तदु जानश्रुतिः पौत्रायण उपशुश्राव संजिहान एव क्षत्तारमुवाचाङ्गारे सयुग्वानमिव रैक्वमात्थेति यो नु कथꣲ᳭  सयुग्वा रैक्व इति ।५।

 

यथा कृतायविजितायाधरेयाः संयन्त्येवमेनꣲ᳭  सर्वं तदभि- समैति यत्किंच प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद मयैतदुक्त इति ।६।

 

क्षत्तान्विष्य नाविदमिति प्रत्येयाय ꣲ᳭  होवाच यत्रारे ब्राह्मणस्यान्वेषणा तदेनमच्छेति ।७।

 

सोऽधस्ताच्छकटस्य पामानं कषमाणमुपोपविवेश ꣲ᳭  हाभ्युवाद त्वं नु भगवः सयुग्वा रैक्व इत्यहꣲ᳭  ह्यरा३ इति प्रतिजज्ञे क्षत्ताविदामिति प्रत्येयाय ।८।

 

।।इति प्रथमः खण्डः।।

 

 

 

द्वितीय : खण्ड :

 

तदु जानश्रुतिः पौत्रायणः षट्शतानि गवां निष्कमश्वतरीरथं तदादाय प्रतिचक्रमे ꣲ᳭  हाभ्युवाद ।१।

 

रैक्वेमानि षट्शतानि गवामयं निष्कोऽयमश्वतरीरथोऽनु एतां भगवो देवताꣲ᳭  शाधि यां देवतामुपास्स इति ।२।

 

तमु परः प्रत्युवाचाह हारेत्वा शूद्र तवैव सह गोभिरस्त्विति तदु पुनरेव जानश्रुतिः पौत्रायणः सहस्रं गवां निष्कमश्वतरीरथं दुहितरं तदादाय प्रतिचक्रमे ।३।

 

ꣲ᳭  हाभ्युवाद रैक्वेदꣲ᳭  सहस्रं गवामयं निष्कोऽयमश्वतरीरथ इयं जायायं ग्रामो यस्मिन्नास्सेऽन्वेव मा भगवः शाधीति ।४।

 

तस्या मुखमुपोद्गृह्णन्नुवाचाजहारेमाः शूद्रानेनैव मुखेना- ऽऽलापयिष्यथा इति ते हैते रैक्वपर्णा नाम महावृषेषु यत्रास्मा उवास तस्मै होवाच ।५।

 

।।इति द्वितीयः खण्डः।।

तृतीय : खण्ड :

 

वायुर्वाव संवर्गों यदा वा अग्निरुद्वायति वायुमेवाप्येति यदा सूर्योऽस्तमेति वायुमेवाप्येति यदा चन्द्रोऽस्तमेति वायुमेवा- प्येति ।१

 

यदाप उच्छुष्यन्ति वायुमेवापियन्ति वायुर्होवैतान्सर्वा- न्सवृङ्क्त इत्यधिदैवतम् ।२।

 

अथाध्यात्मं प्राणो वाव संवर्गः यदा स्वपिति प्राणमेव वागप्येति प्राणꣲ᳭  चक्षुः प्राणं श्रोत्रं प्राणं मनः प्राणो ह्येवैतान्सर्वा- न्संवृङ्क्त इति ।३।

 

तौ वा एतौ द्वौ संवर्गों वायुरेव देवेषु प्राणः प्राणेषु ।४।

 

अथ शौनकं कापेयमभिप्रतारिणं काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्षे तस्मा ददतुः ।५।

 

होवाच महात्मनश्चतुरो देव एकः कः जगार भुवनस्य गोपास्तं कापेय नाभिपश्यन्ति मर्त्या अभिप्रतारिन्बहुधा वसन्तं यस्मै वा एतदन्नं तस्मा एतन्न दत्तमिति

 

तदु शौनकः कापेयः प्रतिमन्वानः प्रत्येयायात्मा देवानां जनिता प्रजाना हिरण्यद् ष्ट्रो बभसोऽनसूरिर्महान्तमस्य महिमान- माहुरनद्यमानो यदनन्नमत्तीति वै वयं ब्रह्मचारिन्नेदमुपास्महे दत्तास्मै भिक्षामिति ।७।

 

तस्मा ददुस्ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतं तस्मात्सर्वासु दिश्वन्नमेव दश कृतꣲ᳭  सैषा विराडन्नादी तयेदꣲ᳭  सर्वं दृष्टꣲ᳭  सर्वमस्येदं दृष्टं भवत्यन्नादो भवति एवं वेद एवं वेद ।८।

 

।।इति तृतीयः खण्डः।।

 

चतुर्थ : खण्ड :

 

सत्यकामो जाबालो जबालां मातरमामन्त्रयांचक्रे ब्रह्मचर्यं भवति विवत्स्यामि किंगोत्रो न्वहमस्मीति ।१।

 

सा हैनमुवाच नाहमेतद्वेद तात यद्गोत्रस्त्वमसि बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसि सत्यकाम एव जाबालो ब्रवीथा इति ।२।

 

हारिद्रुमतं गौतममेत्योवाच ब्रह्मचर्यं भगवति वत्स्याम्युपेयां भगवन्तमिति ।३।

 

ꣲ᳭  होवाच किंगोत्रो नु सोम्यासीति होवाच नाहमेतद्वेद भो यद्गोत्रोऽहमस्म्यपृच्छं मातरꣲ᳭  सा मा प्रत्यब्रवीद्वह्वहं चरन्ती परिचारिणी यौवने त्वामलभे साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसीति सोऽहꣲ᳭  सत्यकामो जाबालोऽस्मि भो इति ।४।

 

ꣲ᳭  होवाच नैतदब्राह्मणो विवक्तुमर्हति समिधꣲ᳭  सोम्याहरोप त्वा नेष्ये सत्यादगा इति तमुपनीय कृशानामबलानां चतुः शता गा निराकृत्योवाचेमाः सोम्यानुसंव्रजेति ता अभिप्रस्थापयन्नुवाच नासहस्त्रेणावर्तेयेति वर्षगणं प्रोवास ता यदा सहस्रꣲ᳭  संपेदुः ।५।

 

।।इति चतुर्थः खण्डः।।

पञ्चम : खण्ड :

 

अथ हैनमृषभोऽभ्युवाद सत्यकाम३ इति भगव इति प्रतिशुश्राव प्राप्ताः सोम्य सहस्र स्मः प्रापय आचार्य- कुलम् ।१

 

ब्रह्मणश्च ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच प्राची दिक्कला प्रतीची दिक्कला दक्षिणा दिक्कलोदीची दिक्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणः प्रकाशवान्नाम ।२।

 

एतमेवं विद्वाꣲ᳭  श्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते प्रकाशवानस्मिँल्लोके भवति प्रकाशवतो लोकाञ्जयति एतमेवं विद्वाꣲ᳭  श्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते ।३।

 

।।इति पञ्चमः खण्डः।।

 

षष्ठ : खण्ड :

 

अग्निष्टे पादं वक्तेति श्वोभूते गा अभिप्रस्थापयांचकार ता यत्राभि सायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङ्कुपोपविवेश ।१।

 

तमग्निरभ्युवाद सत्यकाम३ इति भगव इति प्रतिशुश्राव ।२।

 

ब्रह्मण: सोम्य ते पादं ब्रवाणीति ब्रवीत् मे भगवानिति तस्मै होवाच पृथिवी कलान्तरिक्षं कला द्यौः कला समुद्रः कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणोऽनन्तवान्नाम ।३।

 

एतमेवं विद्वाꣲ᳭  श्चतुष्कलं पादं पास्तेऽनन्तवानस्मिँल्लोके भवत्यनन्तवतो ब्रह्मणोऽनन्तवानित्यु- लोकाञ्जयति एतमेवं विद्वाꣲ᳭  श्चतुष्कलं पादं ब्रह्मणोऽनन्तवानित्युपास्ते ।४।

 

।।इति षष्ठः खण्डः।।

 

सप्तम : खण्ड :

 

ꣲ᳭  सस्ते पादं वक्तेति श्वोभूते गा अभिप्रस्थापयांचकार ता यत्राभि सायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङ्कुपोपविवेश ।१।

 

ताꣲ᳭  ꣲ᳭ उपनिपत्याभ्युवाद सत्यकाम३ इति भगव इति प्रतिशुश्राव ।२।

 

ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाचाग्निः कला सूर्यः कला चन्द्रः कला विद्युत्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणो ज्योतिष्मान्नाम ।३।

एतमेवं विद्वाꣲ᳭ श्चतुष्कलं पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ज्योतिष्मानस्मिँल्लोके भवति ज्योतिष्मतो लोकाञ्जयति एतमेवं विद्वा श्चतुष्कलं पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ।४।

 

।।इति सप्तमः खण्डः।।

 

अष्टम : खण्ड :

 

मद्गुष्टे पादं वक्तेति श्वोभूते गा अभिप्रस्थापयांचकार ता यत्राभि सायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङ्कुपोपविवेश ।१।

 

तं मद्गुरुपनिपत्याभ्युवाद सत्यकाम३ इति भगव इति प्रतिशुश्राव ।२।

 

ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच प्राणः कला चक्षुः कला श्रोत्रं कला मनः कलैष वै सोम्य चतुष्कलः पादो ब्रह्मण आयतनवान्नाम ।३।

 

एतमेवं विद्वाꣲ᳭श्चतुष्कलं पादं ब्रह्मण आयतनवा- नित्युपास्त आयतनवानस्मिँल्लोके भवत्यायतनवतो लोकाञ्जयति एतमेवं विद्वाꣲ᳭  श्चतुष्कलं पादं ब्रह्मण आयतनवा- नित्युपास्ते ।४।

 

।।इतिं अष्टमः खण्डः।।

 

 

नवम : खण्ड :

 

प्राप हाचार्यकुलं तमाचार्योऽभ्युवाद सत्यकाम३ इति भगव इति प्रतिशुश्राव ।१।

 

ब्रह्मविदिव वै सोम्य भासि को नु त्वानुशशासेत्यन्ये मनुष्येभ्य इति प्रतिजज्ञे भगवा स्त्वेव मे कामे ब्रूयात् ।२।

 

श्रुतꣲ᳭  होव मे भगवद्दृशेभ्य आचार्चाद्धैव विद्या विदिता साधिष्ठं प्रापतीति तस्मै हैतदेवोवाचात्र किंचन वीयायेति वीयायेति ।३।

 

।।इति नवमः खण्डः।।

 

दशम : खण्ड :

 

उपकोसलो वै कामलायनः सत्यकामे जाबाले ब्रह्मचर्यमुवास तस्य द्वादश वर्षाण्यग्नीन्परिचचार स्मान्यानन्तेवासिनः समावर्तयस्तꣲ᳭  स्मैव समावर्तयति ।१।

 

तं जायोवाच तप्तो ब्रह्मचारी कुशलमग्नीन्परिचचारीन्मा त्वाग्नयः परिप्रवोचन्प्रब्रूह्यस्मा इति तस्मै हाप्रोच्यैव प्रवासांचक्रे ।२।

 

व्याधिनानशितुं दधे तमाचार्यजायोवाच ब्रह्मचारिन्नशान किं नु नाश्नासीति होवाच बहव इमेऽस्मिन्पुरुषे कामा नानात्यया व्याधिभिः प्रतिपूर्णोऽस्मि नाशिष्यामीति ।३।

 

अथ हाग्नयः समूदिरे तप्तो ब्रह्मचारी कुशलं नः पर्यचारीद्धन्तास्मै प्रब्रवामेति तस्मै होचुः प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति ।४।

 

होवाच विजानाम्यहं यत्प्राणो ब्रह्म कं तु खं विजानामीति ते होचुर्यद्वाव कं तदेव खं यदेव खं तदेव कमिति प्राणं हास्मै तदाकाशं चोचुः ।५।

 

।।इति दशमः खण्डः।।

 

 

एकादश : खण्ड :

 

अथ हैनं गार्हपत्योऽनुशशास पृथिव्यग्निरन्नमादित्य इति एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि एवाहमस्मीति ।१।

 

एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप वयं तं भुञ्जामोऽस्मिꣲ᳭  श्च लोकेऽमुष्मिꣲ᳭ श्च एतमेवं विद्वानुपास्ते ।२।

 

।।इति एकादशः खण्डः।।

 

द्वादश : खण्ड :

 

अथ हैनमन्वाहार्यपचनोऽनुशशासापो दिशो नक्षत्राणि चन्द्रमा इति एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि एवाहमस्मीति ।१।

 

एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति सर्वमायुरेति ज्योज्जीवति नास्यावर पुरुषवं धीयन्त उप वयं तं भुज्ञामोऽस्मिꣲ᳭  श्च लोकेऽमुष्मिꣲ᳭ श्च एतमेवं विद्वानुपास्ते ।२।

 

।।इति द्वादश: खण्ड:।।

 

त्रयोदश : खण्ड :

 

अथ हैनमाहवनीयोऽनुशशास प्राण आकाशो द्यौर्विद्युदिति एष विद्युति पुरुषो दृश्यते सोऽहमस्मि एवाहमस्मीति ।१।

 

एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप वयं तं भुञ्जामोऽस्मिꣲ᳭  श्च लोकेऽमुष्मिꣲ᳭ श्च एतमेवं विद्वानुपास्ते ।२।

 

।।इति त्रयोदशः खण्डः।।

 

चतुर्दश : खण्ड :

 

ते होचुरुपकोसलैषा सोम्य तेऽस्मद्विद्यात्मविद्या चाचार्यस्तु ते गतिं वक्तेत्याजगाम हास्याचार्यस्तमाचार्योऽभ्युवादोपकोसल३ इति ।१।

 

भगव इति प्रतिशुश्राव ब्रह्मविद इव सोम्य ते मुखं भाति को नु त्वानुशशासेति को नु मानुशिष्याद्भो इतीहापेव निहुत इमे नूनमीदृशा अन्यादृशा इतीहाग्नीनभ्यूदे किं नु सोम्य किल तेऽवोचन्निति ।२।

 

इदमिति प्रतिजज्ञे लोकान्वाव किल सोम्य तेऽवोचन्नहं तु ते तद्वक्ष्यामि यथा पुष्करपलाश आपो श्लिष्यन्त एवमेवंविदि पापं कर्म श्लिष्यत इति ब्रवीतु मे भगवानिति तस्मै होवाच ।३।

 

।।इति चतुर्दशः खण्डः।।

 

पञ्चदश: खण्ड :

 

एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैत- दमृतमभयमेतद्ब्रह्मेति तद्यद्यप्यस्मिन्सर्पिर्बोदकं वा सिञ्चति वर्मनी एव गच्छति ।१।

 

एतꣲ᳭  संयद्वाम इत्याचक्षत एतꣲ᳭  हि सर्वाणि वामान्यभिसंयन्ति सर्वाण्येनं वामान्यभिसंयन्ति एवं वेद ।२।

 

एष एव वामनीरेष हि सर्वाणि वामानि नयति सर्वाणि वामानि नयति एवं वेद ।३।

 

एष एव भामनीरेष हि सर्वेषु लोकेषु भाति सर्वेषु लोकेषु भाति एवं वेद ।४।

 

अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति यदि नार्चिषमेवा- भिसंभवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडु- दङ्केति मासाꣲ᳭ स्तान्मासेभ्यः संवत्सरꣲ᳭ संवत्सरादादित्य- मादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः एनान्ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्त नावर्तन्ते नावर्तन्ते ।५।

 

।।इति पञ्चदश: खण्ड:।।

पोडश : खण्ड :

 

एष वै यज्ञो योऽयं पवत एष यन्निदꣲ᳭  सर्वं पुनाति यदेष यन्निदꣲ᳭  सर्वं पुनाति तस्मादेष एव यज्ञस्तस्य मनश्च वाक्च वर्तनी ।१।

 

तयोरन्यतरां मनसा ꣲ᳭ स्करोति ब्रह्मा वाचा होताध्वर्यु- रुद्गातान्यतराꣲ᳭  यत्रोपाकृते प्रातरनुवाके पुरा परिधानीयाया ब्रह्मा व्यवदति ।२।

 

अन्यतरामेव वर्तनीꣲ᳭ ꣲ᳭ स्करोति हीयतेऽन्यतरा यथैकपाद्ब्रजन्रथो वैकेन चक्रेण वर्तमानो रिष्यत्येवमस्य यज्ञो रिष्यति यज्ञꣲ᳭  रिष्यन्तं यजमानोऽनुरिष्यति इष्ट्वा पापीयान्भवति ।३।

 

अथ यत्रोपाकृते प्रातरनुवाके पुरा परिधानीयाया ब्रह्मा व्यवदत्युभे एव वर्तनी ꣲ᳭ स्कुर्वन्ति हीयतेऽन्यतरा ।४।

 

यथोभयपाव्रजन्रथो वोभाभ्यां चक्राभ्यां वर्तमानः प्रतितिष्ठत्येवमस्य यज्ञः प्रतितिष्ठति यज्ञं प्रतितिष्ठन्तं यजमानोऽनुप्रतितिष्ठति इष्ट्वा श्रेयान्भवति ।५।

 

।।इति षोडशः खण्डः।।

 

सप्तदश : खण्ड :

 

प्रजापतिर्लोकानभ्यतपत्तेषां तप्यमानानाꣲ᳭  रसान्प्रावृहदग्निं पृथिव्या वायुमन्तरिक्षादादित्यं दिवः ।१।

 

एतास्तिस्त्रो देवता अभ्यतपत्तासां तप्यमानानाꣲ᳭  रसान्प्रावृहदग्नेऋचो वायोर्यजूꣲ᳭ षि सामान्यादित्यात् ।२।

 

एतां त्रयीं विद्यामभ्यतपत्तस्यास्तप्यमानाया रसान्प्रावृहद्- भूरित्यृग्भ्यो भुवरिति यजुर्थ्यः स्वरिति सामभ्यः ।३।

 

तद्यदृक्तो रिष्येद्भः स्वाहेति गार्हपत्ये जुहुयादृचामेव तद्रसेनर्चा वीर्येणर्चा यज्ञस्य विरिष्टꣲ᳭  संदधाति ।४।

 

यदि यजुष्टो रिष्येद्भुवः स्वाहेति दक्षिणाग्नौ जुहुया- द्यजुषामेव तद्रसेन यजुषां वीर्येण यजुषां यज्ञस्य विरिष्टꣲ᳭  संदधाति ।५।

 

अथ यदि सामतो रिष्येत्स्वः स्वाहेत्याहवनीये जुहुयात्सा- म्नामेव तद्रसेन साम्नां वीर्येण साम्नां यज्ञस्य विरिष्टꣲ᳭  संदधाति

 

तद्यथा लवणेन सुवर्ण संदध्यात्सुवर्णेन रजतꣲ᳭  रजतेन त्रपु त्रपुणा सीसꣲ᳭  सीसेन लोहं लोहेन दारु दारु चर्मणा ।७।

 

एवमेषां लोकानामासां देवतानामस्यास्त्रय्या विद्याया वीर्येण यज्ञस्य विरिष्टꣲ᳭  संदधाति भेषजकृतो वा एष यज्ञो यत्रै- वंविद्ब्रह्मा भवति ।८।

 

एष वा उदक्प्रवणो यज्ञो यत्रैवंविद्ब्रह्मा भवत्येवंविदꣲ᳭  वा एषा ब्रह्माणमनुगाथा यतो यत आवर्तते तत्तद्गच्छति ।९।

 

मानवो ब्रह्मैवैक ऋत्विक्कुरूनश्वाभिरक्षत्येवंविद्ध वै ब्रह्मा यज्ञं यजमानꣲ᳭ सर्वाꣲ᳭ श्चर्विजोऽभिरक्षति तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदं नानेवंविदम् ।१०।

 

।।इति सप्तदशः खण्डः।।

इति चतुर्थोऽध्यायः

 

 

 

 

 

 

 

 

 

 

 

 

 

पञ्चमोऽध्याय :

 

प्रथम : खण्ड:

 

यो वै ज्येष्ठं श्रेष्ठं वेद ज्येष्ठश्च वै श्रेष्ठश्च भवति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ।१।

 

यो वै वसिष्ठं वेद वसिष्ठो स्वानां भवति वाग्वाव वसिष्ठः ।२।

 

यो वै प्रतिष्ठां वेद प्रति तिष्ठत्यस्मिꣲ᳭ श्च लोकेऽमुष्मिꣲ᳭  श्च चक्षुर्वाव प्रतिष्ठा ।३।

 

यो वै संपदं वेद ꣲ᳭ हास्मै कामाः पद्यन्ते दैवाश्च मानुषाश्च श्रोत्रं वाव संपत् ।४।

 

यो वा आयतनं वेदायतनꣲ᳭  स्वानां भवति मनो वा आयतनम् ।५।

 

अथ प्राणा अहꣲ᳭  श्रेयसि व्यूदिरेऽहꣲ᳭  श्रेयानस्म्यहꣲ᳭  श्रेयानस्मीति ।६।

 

ते प्राणाः प्रजापतिं पितरमेत्योचुर्भगवन्को नः श्रेष्ठ इति तान्होवाच यस्मिन्व उत्क्रान्ते शरीरं पापिष्ठतरमिव दृश्येत वः श्रेष्ठ इति ।७।

 

सा वागुच्चक्राम सा संवत्सरं प्रोष्य प्रर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा कला अवदन्तः प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवमिति प्रविवेश वाक् ।८।

 

चक्षुर्होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकततें मज्जीवितुमिति यथान्धा अपश्यन्तः प्राणन्तः प्राणेन बदन्ती वाचा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवमिति प्रविवेश चक्षुः ।९।

 

श्रोत्रꣲ᳭  होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति यथा बधिरा अशृण्वन्तः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा ध्यायन्तो मनसैवमिति प्रविवेश श्रोत्रम् ।१०।

 

मनो होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकततें मज्जीवितुमिति यथा बाला अमनसः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेणैवमिति प्रविवेश मनः ।११।

 

अथ प्राण उच्चिक्रमिषन्स यथा सुहयः पड्वीशशङ्कन्संखिदेदेवमितरान्प्राणान्समखिदत्तꣲ᳭  हाभिसमेत्योचु- र्भगवन्नेधि त्वं नः श्रेष्ठोऽसि मोत्क्रमीरिति ।१२।

 

अथ हैनं वागुवाच यदहं वसिष्ठोऽस्मि त्वं तद्वसिष्ठोऽसीत्यथ हैनं चक्षुरुवाच यदहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठासीति ।१३।

 

अथ हैनꣲ᳭  श्रोत्रमुवाच यदहꣲ᳭  संपदस्मि त्वं तत्संपदसीत्यथ हैनं मन उवाच यदहमायतनमस्मि त्वं तदायतनमसीति ।१४।

 

वै वाचो चक्षुꣲ᳭ षि श्रोत्राणि मनाꣲ᳭  सीत्याचक्षते प्राणा इत्येवाचक्षते प्राणो ह्येवैतानि सर्वाणि भवति ।१५।

 

।।इति प्रथम: खण्:।।

 

द्वितीय : खण्ड :

 

होवाच किं मेऽन्नं भविष्यतीति यत्किंचिदिदमा श्वभ्य शकुनिभ्य इति होचुस्तद्वा एतदनस्यान्नमनो वै नाम प्रत्यक्षं वा एवंविदि किंचनानन्नं भवतीति ।१।

 

होवाच किं मे वासो भविष्यतीत्याप इति होचुस्तस्माद्वा एतदशिष्यन्तः पुरस्ताच्चोपरिष्टाच्चाद्भिः परिदधति लम्भुको वासो भवत्यनग्नो भवति ।२।

 

तद्वैतत्सत्यकामो जाबालो गोश्रुतये वैयाघ्रपद्यायोक्त्वोवाच यद्यप्येनच्छुष्काय स्थाणवे ब्रूयाज्जायेरन्नेवास्मिञ्छाखाः प्ररोहेयुः पलाशानीति ।३।

 

अथ यदि महज्जिगमिषेदमावास्यायां दीक्षित्वा पौर्णमास्याꣲ᳭  रात्रौ सर्वोषधस्य मन्थं दधिमधुनोरुपमथ्य ज्येष्ठाय श्रेष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे संपातमवनयेत् ।४।

 

वसिष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे संपात- मवनयेत्प्रतिष्ठायै स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे संपातमवनयेदायतनाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे संपातमवनयेत् ।५।

 

अथ प्रतिसुप्याञ्जलौ मन्थमाधाय जपत्यमो नामास्यमा हि ते सर्वमिदꣲ᳭  हि ज्येष्ठः श्रेष्ठो राजाधिपतिः मा ज्यैष्ठ्यꣲ᳭  श्रेष्ठ्यꣲ᳭  राज्यमाधिपत्यं गमयत्वहमेवेदꣲ᳭  सर्वमसानीति ।६।

 

अथ खल्वेतयर्चा पच्छ आचामति तत्सवितुर्वृणीमह इत्याचामति वयं देवस्य भोजनमित्याचामति श्रेष्ठꣲ᳭  सर्व धातममित्याचामति तुरं भगस्य धीमहीति सर्वं पिवति निर्णिज्य ꣲ᳭ सं चमसं वा पश्चादग्नेः संविशति चर्मणि वा स्थण्डिले वा वाचंयमोऽप्रसाहः यदि स्त्रियं पश्येत्समृद्धं कर्मेति विद्यात् ॥७।

 

तदेष श्लोको यदा कर्मसु काम्येषु स्त्रियꣲ᳭  स्वप्नेषु पश्यति समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने तस्मिन्स्वप्ननिदर्शने ।८।

 

।।इति द्वितीयः खण्डः।।

 

 

तृतीय : खण्ड :

 

श्वेतकेतुर्हारुणेयः पञ्चालानाꣲ᳭  समितिमेयाय ꣲ᳭  प्रवाहणो जैवलिरुवाच कुमारानु त्वाशिषत्पितेत्यनु हि भगव इति ।१।

 

वेत्थ यदितोऽधि प्रजाः प्रयन्तीति भगव इति वेत्थ यथा पुनरावर्तन्त३ इति भगव इति वेत्थ पथोर्देवयानस्य पितृयाणस्य व्यावर्तना३ इति भगव इति

 

वेत्थ यथासौ लोको संपूर्यत इति भगव इति वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति नैव भगव इति ।३।

 

 

अथानु किमनुशिष्टोऽवोचथा यो हीमानि विद्यात्कथꣲ᳭  सोऽनुशिष्टो ब्रुवीतेति हायस्तः पितुरर्धमेयाय ꣲ᳭  होवाचाननुशिष्य वाव किल मा भगवान्ब्रवीदनु त्वाशिषमिति ।४।

 

पञ्च मा राजन्यबन्धुः प्रश्नानप्राक्षीत्तेषां नैकंचनाशकं विवक्तुमिति होवाच यथा मा त्वं तदैतानवदो यथाहमेषां नैकंचन वेद यद्यहमिमानवेदिष्यं कथं ते नावक्ष्यमिति ।५।

 

गौतमो राज्ञोऽर्धमेयाय तस्मै प्राप्तायाहाँ चकार प्रातः सभाग उदेयाय ꣲ᳭  होवाच मानुषस्य भगवन्गौतम वित्तस्य वरं वृणीथा इति होवाच तवैव राजन्मानुषं वित्तं यामेव कुमारस्यान्ते वाचमभाषथास्तामेव मे ब्रूहीति कृच्छ्री बभूव ।६।

 

ꣲ᳭  चिरं वसेत्याज्ञापयांचकार ꣲ᳭  होवाच यथा मा त्वं गौतमावदो यथेयं प्राक्त्वत्तः पुरा विद्या ब्राह्मणान्नाच्छति तस्मादु सर्वेषु लोकेषु क्षत्रस्यैव प्रशासनमभूदिति तस्मै होवाच ।७।

 

।।इति तृतीयः खण्डः।।

 

चतुर्थ : खण्ड :

 

असौ वाव लोको गौतमाग्निस्तस्यादित्य एव समिद्रश्मयो धूमोऽहरर्चिश्चन्द्रमा अङ्गारा नक्षत्राणि विस्फुलिङ्गाः ।१।

 

तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा संभवति ।२।

 

।।इति चतुर्थः खण्डः।।

पञ्चम : खण्ड :

 

पर्जन्यो वाव गौतमाग्निस्तस्य वायुरेव समिदभ्रं धूमो विद्युदर्चिरशनिरङ्गारा ह्रादनयो विस्फुलिङ्गाः ।१।

 

तस्मिन्नेतस्मिन्नग्नौ देवाः सोमꣲ᳭  राजानं जुह्वति तस्या आहुतेर्वर्षꣲ᳭  संभवति ।२।

 

।।इति पञ्चम : खण्ड :।।

 

 

 

 

षष्ठ : खण्ड :

 

पृथिवी वाव गौतमाग्निस्तस्याः संवत्सर एव समिदाकाशो धूमो रात्रिरर्चिर्दिशोऽङ्गारा अवान्तरदिशो विस्फुलिङ्गाः ।१।

 

तस्मिन्नेतस्मिन्नग्नौ देवा वर्ष जुह्वति तस्या आहुतेरन्नꣲ᳭  संभवति ।२।

 

।।इति षष्ठः खण्डः।।

 

सप्तम : खण्ड :

 

पुरुषो वाव गौतमाग्निस्तस्य वागेव समित्प्राणो धूमो जिह्वार्चिश्चक्षुरङ्गाराः श्रोत्रं विस्फुलिङ्गाः ।१।

 

तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या आहुते रेतः संभवति ।२।

 

।।इति सप्तमः खण्डः।।

 

अष्टम : खण्ड :

 

योषा वाव गौतमाग्निस्तस्या उपस्थ एव समिद्यदुपमन्त्रयते धूमो योनिरर्चिर्यदन्तः करोति तेऽङ्गारा अभिनन्दा विस्फुलिङ्गाः ।१।

 

तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुतेर्गर्भः संभवति

 

।।इति अष्टमः खण्डः।।

 

नवम : खण्ड :

 

इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति उल्बावृतो गर्भो दश वा नव वा मासानन्तः शयित्वा यावद्वाथ जायते ।१।

 

जातो यावदायुषं जीवति तं प्रेतं दिष्टमितोऽग्नय एव हरन्ति यत एवेतो यतः संभूतो भवति ।२।

 

।।इति नवमः खण्डः।।

 

दशम : खण्ड :

 

तद्य इत्थं विदुः। ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसंभवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाण- पक्षाद्यान्षडुदङ्केति मासाꣲ᳭  स्तान् ।१।

 

मासेभ्यः संवत्सरꣲ᳭  संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः एनान्ब्रह्म गमयत्येष देवयानः पन्था इति ।२।

 

अथ इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धुममभिसंभवन्ति धूमाद्रात्रिं रात्रेरपरपक्षमपरपक्षाद्यान्षड्दक्षिणैति मासास्तान्त्रैते संवत्सरमभिप्राप्नुवन्ति ।३।

 

मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति ।४।

 

तस्मिन्यावत्संपातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते यथेत- माकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाभ्रं भवति ।५।

 

अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्तेऽतो वै खलु दुर्निष्प्रपतरं यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति ।६।

 

तद्य इह रमणीयचरणा अभ्याशो यत्ते रमणीयां योनिमापद्येरन्ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वाथ इह कपूयचरणा अभ्याशो यत्ते कपूयां योनिमापद्येरश्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा ।७।

 

अथैतयोः पथोर्न कतरेणचन तानीमानि क्षुद्राण्य- सकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत्तृतीयꣲ᳭  स्थानं तेनासौ लोको संपूर्यते तस्माज्जुगुप्सेत तदेष श्लोकः ।८

 

स्तेनो हिरण्यस्य सुरां पिबꣲ᳭ श्च गुरोस्तल्पमावसन्ब्रह्महा चैते पतन्ति चत्वारः पञ्चमश्चाचरꣲ᳭  स्तैरिति ।९।

 

अथ एतानेवं पञ्चाग्नीन्वेद सह तैरप्याचरन्पाप्मना लिप्यते शुद्धः पूतः पुण्यलोको भवति एवं वेद एवं वेद ।१०।

 

।।इतिं दशमः खण्डः।।

 

एकादश : खण्ड :

 

प्राचीनशाल औपमन्यवः सत्ययज्ञः पौलुषिरिन्द्रद्युम्नो भाल्लवेयो जनः शार्कराक्ष्यो बुडिल आश्वतराश्विस्ते हैते महाशाला महाश्रोत्रियाः समेत्य मीमाꣲ᳭  सां चक्रुः को आत्मा किं ब्रह्मेति ।१

 

ते संपादयांचक्नुरुद्दालको वै भगवन्तोऽयमारुणिः संप्रतीममात्मानं वैश्वानरमध्येति ꣲ᳭  हन्ताभ्यागच्छामेति ꣲ᳭  हाभ्याजग्मुः ।२।

 

संपादयांचकार प्रक्ष्यन्ति मामिमे महाशाला महाश्रोत्रियास्तेभ्यो सर्वमिव प्रतिपत्स्ये हन्ताहमन्य- मभ्यनुशासानीति ।३।

 

तान्होवाचाश्वपतिर्वै भगवन्तोऽयं कैकेयः संप्रतीममात्मानं वैश्वानरमध्येति ꣲ᳭  हन्ताभ्यागच्छामेति ꣲ᳭  हाभ्याजग्मुः ।४।

 

तेभ्यो प्राप्तेभ्यः पृथगर्हाणि कारयांचकार प्रातः संजिहान उवाच मे स्तेनो जनपदे कदर्यो मद्यपो नानाहिताग्निर्नाविद्वान्न स्वैरी स्वैरिणी कुतो यक्ष्यमाणो वै भगवन्तोऽहमस्मि यावदेकैकस्मा ऋत्विजे धनं दास्यामि तावद्भगवद्भयो दास्यामि वसन्तु भगवन्त इति ।५।

 

ते होचुर्येन हैवार्थेन पुरुषश्चरेत्तꣲ᳭  हैव वदेदात्मानमेवेमं वैश्वानरꣲ᳭  संप्रत्यध्येषि तमेव नो ब्रूहीति ।६।

 

तान्होवाच प्रातर्वः प्रतिवक्तास्मीति ते समित्पाणयः पूर्वाह्न प्रतिचक्रमिरे तान्हानुपनीयैवैतदुवाच ।७।

।।इति एकादशः खण्डः।।

 

द्वादश: खण्ड :

 

औपमन्यव कं त्वमात्मानमुपास्स इति दिवमेव भगवो राजन्निति होवाचैष वै सुतेजा आत्मा वैश्वानरो यं त्वमात्मान- मुपास्से तस्मात्तव सुतं प्रसुतमासुतं कुले दृश्यते ।१।

 

अत्स्यन्त्रं पश्यसि प्रियमत्त्यन्त्रं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले एतमेवमात्मानं वैश्वानरमुपास्ते मूर्धा त्वेष आत्मन इति होवाच मूर्धा ते व्यपतिष्यद्यन्मां नागमिष्य इति ।२।

 

।।इति द्वादशः खण्डः।।

त्रयोदश : खण्ड :

 

अथ होवाच सत्ययज्ञं पौलुषिं प्राचीनयोग्य कं त्वमात्मानमुपास्स इत्यादित्यमेव भगवो राजन्निति होवाचैष वै विश्वरूप आत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्तव बहु विश्वरूपं कुले दृश्यते ।१।

 

प्रवृत्तोऽश्वतरीरथो दासीनिष्कोऽत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले एतमेवमात्मानं वैश्वानरमुपास्ते चक्षुष्ट्वेतदात्मन इति होवाचान्धोऽभविष्यो यन्मां नागमिष्य इति

।।इतिं त्रयोदशः खण्डः।।

 

चतुर्दश : खण्ड :

 

अथ होवाचेन्द्रद्युम्नं भाल्लवेयं वैयाघ्रपद्य कं त्वमात्मानमुपास्स इति वायुमेव भगवो राजन्निति होवाचैष वै पृथग्वर्मात्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्त्वां पृथग्बलय आयन्ति पृथग्रथश्रेणयोऽनुयन्ति ।१।

 

अत्स्यन्त्रं पश्यसि प्रियमत्त्यन्त्रं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले एतमेवमात्मानं वैश्वानरमुपास्ते प्राणस्त्वेष आत्मन इति होवाच प्राणस्त उदक्रमिष्यद्यन्मां नागमिष्य इति ।२।

 

।।इति चतुर्दशः खण्डः।।

पञ्चदश: खण्ड :

 

अथ होवाच जनꣲ᳭  शार्कराक्ष्य के त्वमात्मानमुपास्स इत्याकाशमेव भगवो राजन्निति होवाचैष वै बहुल आत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्त्वं बहुलोऽसि प्रजया धनेन ।१।

 

अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले एतमेवमात्मानं वैश्वानरमुपास्ते संदेहस्त्वेष आत्मन इति होवाच संदेहस्ते व्यशीर्यद्यन्मां नागमिष्य इति ।२।

 

।।इति पञ्चदशः खण्डः।।

 

षोडश : खण्ड :

 

अथ होवाच बुडिलमाश्वतराश्विं वैयाघ्रपद्य कं त्वमात्मानमुपास्स इत्यप एव भगवो राजन्निति होवाचैष वै रयिरात्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्त्वꣲ᳭  रयिमान्पुष्टिमानसि ।१।

 

अत्स्यन्नं पश्यसि प्रियमत्त्यन्त्रं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले एतमेवमात्मानं वैश्वानरमुपास्ते बस्तिस्त्वेष आत्मन इति होवाच बस्तिस्ते व्यभेत्स्यद्यन्मां नागमिष्य इति

।।इति षोडशः खण्डः।।

 

सप्तदश: खण्ड :

 

अथ होवाचोद्दालकमारुणिं गौतम कं त्वमात्मानमुपास्स इति पृथिवीमेव भगवो राजन्निति होवाचैष वै प्रतिष्ठात्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात्त्वं प्रतिष्ठितोऽसि प्रजया पशुभिश्च ।१।

 

अत्स्यन्त्रं पश्यसि प्रियमत्त्यन्त्रं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले एतमेवमात्मानं वैश्वानरमुपास्ते पादौ त्वेतावात्मन इति होवाच पादौ ते व्यम्लास्येतां यन्मां नागमिष्य इति ।२।

 

।।इति सप्तदशः खण्डः।।

 

अष्टादश : खण्ड :

 

तान्होवाचैते वै खलु यूयं पृथगिवेममात्मानं वैश्वानरं विद्वाꣲ᳭ सो- ऽन्नमत्थ यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानर- मुपास्ते सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति ।१।

 

तस्य वा एतस्यात्मनो वैश्वानरस्य मूर्धेव सुतेजा- श्चक्षुर्विश्वरूपः प्राणः पृथग्वर्मात्मा संदेहो बहुलो बस्तिरेव रयिः पृथिव्येव पादावुर एव वेदिर्लोमानि बर्हिर्हदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः ।२।

 

।।इति अष्टादशः खण्डः।।

 

एकोनविंश : खण्ड :

 

तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयꣲ᳭  यां प्रथमामाहुतिं जुहुयात्तां जुहुयात्प्राणाय स्वाहेति प्राणस्तृप्यति ।१।

 

प्राणे तृप्यति चक्षुस्तृप्यति चक्षुषि तृप्यत्यादित्य- स्तृप्यत्यादित्ये तृप्यति द्यौस्तृप्यति दिवि तृप्यन्त्यां यत्किंच द्यौश्चादित्यश्चाधितिष्ठतस्तत्तृप्यति तस्यानुतृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ।२।

 

।।इतिः एकोनविंशः खण्ड:।।

 

विंश : खण्ड :

 

अथ यां द्वितीयां जुहुयात्तां जुहुयाद्वयानाय स्वाहेति व्यानस्तृप्यति ।१।

 

व्याने तृप्यति श्रोत्रं तृप्यति श्रोत्रे तृप्यति चन्द्रमास्तृप्यति चन्द्रमसि तृप्यति दिशस्तृप्यन्ति दिक्षु तृप्यन्तीषु यत्किंच दिशश्च चन्द्रमाश्चाधितिष्ठन्ति तत्तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ।२।

 

।।इति विंशः खण्डः।।

एकविंश : खण्ड :

 

अथ यां तृतीयां जुहुयात्तां जुहुयादपानाय स्वाहेत्य- पानस्तृप्यति ।१।

 

अपाने तृप्यति वाक्तृप्यति वाचि तृप्यन्त्यामग्निस्तृप्यत्यग्नौ तृप्यति पृथिवी तृप्यति पृथिव्यां तृप्यन्त्यां यत्किंच पृथिवी चाग्निश्चाधितिष्ठतस्तत्तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ।२।

 

।।इति एकविंशः खण्डः।।

 

द्वाविंश : खण्ड :

 

अथ यां चतुर्थी जुहुयात्तां जुहुयात्समानाय स्वाहेति समानस्तृप्यति ।१।

 

समाने तृप्यति मनस्तृप्यति मनसि तृप्यति पर्जन्यस्तृप्यति पर्जन्ये तृप्यति विद्युत्तृप्यति विद्युति तृप्यन्त्यां यत्किंच विद्युच्च पर्जन्यश्चाधितिष्ठतस्तत्तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति

 

।।इति द्वाविंशः खण्ड:।।

त्रयोविंश : खण्ड :

 

अथ यां पञ्चमीं जुहुयात्तां जुहुयादुदानाय स्वाहेत्युदान- स्तृप्यति ।१।

 

उदाने तृप्यति त्वक्तृप्यति त्वचि तृप्यन्त्यां वायुस्तृप्यति वायौ तृप्यत्याकाशस्तृप्यत्याकाशे तृप्यति यत्किंच वायुश्चाकाशश्वाधितिष्ठतस्तत्तृप्यति तस्यानु तृप्तिं प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेन ।२।

 

।।इति प्रयोविंशः खण्डः।।

 

चतुर्विंश : खण्ड :

 

इदमविद्वानग्निहोत्रं जुहोति यथाङ्गारानपोह्य भस्मनि जुहुयात्तादृक्तत्स्यात् ।१

 

अथ एतदेवं विद्वानग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु हुतं भवति ।२।

 

तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवꣲ᳭  हास्य सर्वे पाप्मानः प्रदूयन्ते एतदेवं विद्वानग्निहोत्रं जुहोति ।३।

 

तस्मादु हैवंविद्यद्यपि चण्डालायोच्छिष्टं प्रयच्छेदात्मनि हैवास्य तद्वैश्वानरे हुतꣲ᳭  स्यादिति तदेष श्लोकः ।४।

 

यथेह क्षुधिता बाला मातरं पर्युपासत एवꣲ᳭  सर्वाणि भूतान्यग्निहोत्रमुपासत इत्यग्निहोत्रमुपासत इति ।५।

 

।।इति चतुर्विंशः खण्डः।।

 

इति पञ्चमोऽध्यायः

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

षष्ठोऽध्याय :

प्रथम : खण्ड :

 

श्वेतकेतुर्हारुणेय आस ꣲ᳭ पितोवाच श्वेतकेतो वस ब्रह्मचर्यं वै सोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवतीति ।१।

 

द्वादशवर्ष उपेत्य चतुर्विꣲ᳭  शतिवर्षः सर्वान्वेदानधीत्य महामना अनूचानमानी स्तब्ध एयाय ꣲ᳭ पितोवाच ।२।

 

श्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी स्तब्धोऽस्युत तमादेशमप्राक्ष्यः येनाश्रुतꣲ᳭  श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति कथं नु भगवः आदेशो भवतीति ।३।

 

यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातꣲ᳭  स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ।४।

 

यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातꣲ᳭  स्याद्वाचारम्भणं विकारो नामधेयं लोहमित्येव सत्यम् ।५।

 

यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्णायसं विज्ञातꣲ᳭  स्याद्वाचारम्भणं विकारो नामधेयं कृष्णायसमित्येव सत्यमेवꣲ᳭  सोम्य आदेशो भवतीति ।६।

 

वै नूनं भगवन्तस्त एतदवेदिषुर्यद्धयेतदवेदिष्यन्कथं मे नावक्ष्यन्निति भगवाꣲ᳭  स्त्वेव मे तद्ब्रवीत्विति तथा सोम्येति होवाच ।७।

 

।।इति प्रथमः खण्डः।।

 

द्वितीय : खण्ड :

 

सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्। तद्वैक आहुर- सदेवेदमग्र आसीदेकमेवाद्वितीयं तस्मादसतः सज्जायत ।१।

 

कुतस्तु खलु सोम्यैवꣲ᳭ स्यादिति होवाच कथमसतः सज्जायेतेति सत्त्वेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ।२।

 

तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत तत्तेज ऐक्षत बहु स्यां प्रजायेयेति तदपोऽसृजत तस्माद्यत्र क्वच शोचति स्वेदते वा पुरुषस्तेजस एव तदध्यापो जायन्ते ।३।

 

ता आप ऐक्षन्त बह्वयः स्याम प्रजायेमहीति ता अन्नमसृजन्त तस्माद्यत्र क्व वर्षति तदेव भूयिष्ठमन्नं भवत्यद्भय एव तदध्यन्नाद्यं जायते ।४।

 

।।इति द्वितीयः खण्डः।।

 

तृतीय : खण्ड :

 

तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्त्याण्डजं जीवजमुद्भिज्जमिति ।१।

 

सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेना- त्मनानुप्रविश्य नामरूपे व्याकरवाणीति ।२।

 

तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति सेयं देवतेमास्तिस्रो देवता अनेनैव जीवेनात्मनानुप्रविश्य नामरूपे व्याकरोत् ।३।

 

तासां त्रिवृतं त्रिवृतमेकैकामकरोद्यथा तु खलु सोम्येमास्तिस्रो देवतास्त्रिवृत्त्रिवृंदेकैका भवति तन्मे विजानीहीति ।४।

 

।।इतिं तृतीयः खण्डः।।

 

चतुर्थ : खण्ड :

 

यदग्ने रोहितꣲ᳭  रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागादग्नेरग्नित्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ।१

 

यदादित्यस्य रोहितꣲ᳭  रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागादादित्यादादित्यत्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ।२।

 

यच्चन्द्रमसो रोहितꣲ᳭  रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागाच्चन्द्राच्चन्द्रत्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ।३।

 

यद्विद्युतो रोहितꣲ᳭  रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागाद्विद्युतो विद्युत्त्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ।४।

 

एतद्ध स्म वै तद्विद्वाꣲ᳭ आहुः पूर्वे महाशाला महाश्रोत्रिया नोऽद्य कश्चनाश्रुतममतमविज्ञातमुदाहरिष्यतीति ह्येभ्यो विदांचक्रुः ।५।

 

यदु रोहितमिवाभूदिति तेजसस्तद्रूपमिति तद्विदांचकुर्यद शुक्लमिवाभूदित्यपाꣲ᳭  रूपमिति तद्विदांचकुर्यदु कृष्णमिवा- ऽभूदित्यन्नस्य रूपमिति तद्विदांचक्रुः ।६।

यद्वविज्ञातमिवाभूदित्येतासामेव देवतानाꣲ᳭  समास इति तद्विदांचकुर्यथा तु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति तन्मे विजानीहीति ।७।

 

।।इति चतुर्थः खण्डः।।

 

पञ्चम : खण्ड:

 

अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्मासꣲ᳭  योऽणिष्ठस्तन्मनः ।१।

 

आपः पीतास्त्रेधा विधीयन्ते तासां यः स्थविष्ठो धातुस्तन्मूत्रं भवति यो मध्यमस्तल्लोहितं योऽणिष्ठः प्राणः ।२।

 

तेजोऽशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तदस्थि भवति यो मध्यमः मज्जा योऽणिष्ठः सा वाक् ।३।

 

अन्नमयꣲ᳭  हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ।४।

 

।।इति पञ्चमः खण्डः।।

 

षष्: खण्ड :

 

दध्नः सोम्य मथ्यमानस्य योऽणिमा ऊर्ध्वः समुदीषति तत्सर्पिर्भवति ।१।

 

एवमेव खलु सोम्यान्नस्याश्यमानस्य योऽणिमा ऊर्ध्वः समुदीषति तन्मनो भवति ।२।

 

अपाꣲ᳭  सोम्य पीयमानानां योऽणिमा ऊर्ध्वः समुदीषति प्राणो भवति ।३।

 

तेजसः सोम्याश्यमानस्य योऽणिमा ऊर्ध्वः समुदीषति सा वाग्भवति ।४।

 

अन्नमयꣲ᳭  हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ।५।

 

।।इति षष्ठः खण्डः।।

 

सप्तम : खण्ड :

 

षोडशकलः सोम्य पुरुषः पञ्चदशाहानि माशीः काममपः पिबापोमयः प्राणो नपिबतो विच्छेत्स्यत इति ।१

 

पञ्चदशाहानि नाशाथ हैनमुपससाद किं ब्रवीमि भो इत्यृचः सोम्य यजूꣲ᳭  षि सामानीति होवाच वै मा प्रतिभान्ति भो इति ।२।

 

ꣲ᳭ होवाच यथा सोम्य महतोऽभ्या हितस्यैकोऽङ्गारः बहु दहेदेवꣲ᳭  सोम्य ते खद्योतमात्रः परिशिष्टः स्यात्तेन ततोऽपि षोडशानां कलानामेका कलातिशिष्टा स्यात्तयैतर्हि वेदाना- ऽनुभवस्यशानाथ मे विज्ञास्यसीति ।३।

 

हाशाथ हैनमुपससाद ꣲ᳭  यत्किंच पप्रच्छ सर्वꣲ᳭  प्रतिपेदे ।४।

 

ꣲ᳭  होवाच यथा सोम्य महतोऽभ्याहितस्यैकमङ्गारं खद्योतमात्रं परिशिष्टं तं तृणैरुपसमाधाय प्राज्वलयेत्तेन ततोऽपि बहु दहेत् ।५।

 

एवꣲ᳭  सोम्य ते षोडशानां कलानामेका कलातिशिष्टा- भूत्सान्नेनोपसमाहिता प्राज्वाली तयैतर्हि वेदाननुभवस्यन्नमयꣲ᳭  हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति तद्धास्य विजज्ञाविति विजज्ञाविति ।६।

 

।।इति सप्तमः खण्डः।।

 

अष्टम : खण्ड :

 

उद्दालको हारुणिः श्वेतकेतुं पुत्रमुवाच स्वप्नान्तं मे सोम्य विजानीहीति यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा संपन्नो भवति स्वमपीतो भवति तस्मादेनꣲ᳭  स्वपितीत्याचक्षते स्वꣲ᳭  ह्यपीतो भवति ।१।

 

यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं पतित्वान्यत्रायतनमलब्ध्वा बन्धनमेवोपश्रयत एवमेव खलु सोम्य तन्मनो दिशं दिशं पतित्वान्यत्रायतनमलब्ध्वा प्राणमेवोपश्रयते प्राणबन्धनꣲ᳭  हि सोम्य मन इति ।२।

 

अशनापिपासे मे सोम्य विजानीहीति यत्रैतत्पुरुषोऽशिशिषति नामाप एव तदशितं नयन्ते तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तदप आचक्षतेऽशनायेति तत्रैतच्छुङ्गमुत्पतितꣲ᳭  सोम्य विजानीहि नेदममूलं भविष्यतीति ।३।

 

तस्य क्व मूलꣲ᳭  स्यादन्यत्रान्नादेवमेव खलु सोम्यान्नेन शुङ्गेनापो मूलमन्विच्छाद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः ।४।

 

अथ यत्रैतत्पुरुषः पिपासति नाम तेज एव तत्पीतं नयते तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तत्तेज आचष्ट उदन्येति तत्रैतदेव शुङ्गमुत्पतितꣲ᳭  सोम्य विजानीहि नेदममूलं भविष्यतीति ।५।

तस्य क्व मूलꣲ᳭  स्यादन्यत्राद्भयोऽद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठा यथा तु खलु सोम्योमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति तदुक्तं पुरस्तादेव भवत्यस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि संपद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम् ।६।

 

एषोऽणिमैतदात्म्यमिदꣲ᳭  सर्वं तत्सत्यꣲ᳭  आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ।७।

 

।।इति अष्टमः खण्डः।।

 

नवम : खण्ड:

 

यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां वृक्षाणाꣲ᳭  रसान्समवहारमेकता रसं गमयन्ति ।१।

 

ते यथा तत्र विवेकं लभन्तेऽमुष्याहं वृक्षस्य रसो- ऽस्म्यमुष्याहं वृक्षस्य रसोऽस्मीत्येवमेव खलु सोम्येमाः सर्वाः प्रजाः सति संपद्य विदुः सति संपद्यामह इति ।१।

 

इह व्याघ्रो वा सिꣲ᳭  हो वा वृको वा वराहो वा कीटो वा पतङ्गो वा ꣲ᳭ शो वा मशको वा यद्यद्भवन्ति तदाभवन्ति ।३।

 

एषोऽणिमैतदात्म्यमिदꣲ᳭  सर्वं तत्सत्यꣲ᳭  आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ।४।

 

।।इति नवमः खण्ड:।।

 

दशम : खण्ड :

 

इमाः सोम्य नद्यः पुरस्तात्प्राच्यः स्यन्दन्ते पश्चात्प्रतीच्यस्ताः समुद्रात्समुद्रमेवापियन्ति समुद्र एव भवति ता यथा तत्र विदुरियमहमस्मीयमहमस्मीति ।१।

 

एवमेव खलु सोम्येमा सर्वाः प्रजाः सत आगम्य विदुः सत गच्छमाह इति इह व्याघ्रो वा सिꣲ᳭  हो वा वृको वा वराहो वा कीटो वा पतङ्गो वा ꣲ᳭ शो वा मशको वा यद्यद्भवन्ति तदाभवन्ति ।२।

 

एषोऽणिमैतदात्म्यमिदꣲ᳭  सर्वं तत्सत्यꣲ᳭  आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ।३।

 

।।इति दशमः खण्डः।।

 

एकादश : खण्ड :

 

अस्य सोम्य महतो वृक्षस्य यो मूलेऽभ्याहन्याज्जीवन्त्रवेद्यो मध्येऽभ्याहन्याज्जीवन्त्रवेद्योऽग्रेऽभ्याहन्याज्जीवन्स्रवेत्स एष जीवेनात्मनानुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति ।१।

 

अस्य यदेकाꣲ᳭  शाखां जीवो जहात्यथ सा शुष्यति द्वितीयां जहात्यथ सा शुष्यति तृतीयां जहात्यथ सा शुष्यति सर्वं जहाति सर्वः शुष्यति ।२।

 

एवमेव खलु सोम्य विद्धीति होवाच जीवापेतं वाव किलेदं म्रियते जीवो म्रियत इति एषोऽणिमैतदात्म्यमिदꣲ᳭  सर्व तत्सत्यꣲ᳭  आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ।३।

 

।।इति एकादशः खण्डः।।

 

द्वादश : खण्ड :

 

न्यग्रोधफलमत आहरेतीदं भगव इति भिन्द्धीति भिन्नं भगव इति किमत्र पश्यसीत्यण्व्य इवेमा धाना भगव इत्यासामङ्गैकां भिन्द्धीति भिन्ना भगव इति किमत्र पश्यसीति किंचन भगव इति ।१

 

ꣲ᳭  होवाच यं वै सोम्यैतमणिमानं निभालयस एतस्य वै सोम्यैषोऽणिम्न एवं महान्यग्रोधस्तिष्ठति श्रद्धत्स्व सोम्येति ।२।

 

एषोऽणिमैतदात्म्यमिदꣲ᳭  सर्वं तत्सत्यꣲ᳭  आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ।३।

 

।।इति द्वादशः खण्डः।।

 

त्रयोदश : खण्ड :

 

लवणमेतदुदकेऽवधायाथ मा प्रातरूपसीदथा इति तथा चकार ꣲ᳭  होवाच यद्दोषा लवणमुदकेऽवाधा अङ्ग तदाहरेति तद्धावमृश्य विवेद ।१

 

यथा विलीनमेवाङ्गास्यान्तादाचामेति कथमिति लवणमिति मध्यादाचामेति कथमिति लवणमित्यन्तादाचामेति कथमिति लवणमित्यभिप्रास्यैतदथ मोपसीदथा इति तद्ध तथा चकार तच्छश्वत्संवर्तते ꣲ᳭  होवाचात्र वाव किल सत्सोम्य निभालयसेऽत्रैव किलेति ।२।

 

एषोऽणिमैतदात्म्यमिदꣲ᳭  सर्वं तत्सत्यꣲ᳭  आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ।३।

 

।।इति त्रयोदशः खण्डः।।

 

चतुर्दश : खण्ड :

 

यथा सोम्य पुरुषं गन्धारेभ्योऽभिनद्धाक्षमानीय तं ततो- ऽतिजने विसृजेत्स यथा तत्र प्रावोदङ्वाधरावा प्रत्यङ्वा प्रध्मायीताभिनद्धाक्ष आनीतोऽभिनद्धाक्षो विसृष्टः ।१।

 

तस्य यथाभिनहनं प्रमुच्य प्रब्रूयादेतां दिशं गन्धारा एतां दिशं व्रजेति ग्रामाद्यामं पृच्छन्पण्डितो मेधावी गन्धारानेवो- पसंपद्येतैवमेवेहाचार्यवान्पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्य इति ।२।

 

एषोऽणिमैतदात्म्यमिदꣲ᳭  सर्वꣲ᳭  तत्सत्यꣲ᳭  आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ।३।

 

।।इति चतुर्दशः खण्डः।।

 

पञ्चदश: खण्ड :

 

पुरुषꣲ᳭  सोम्योतोपतापिनं ज्ञातयः पर्युपासते जानासि मां जानासि मामिति तस्य यावन्न वाङ्मनसि संपद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायां तावज्जानाति ।१।

 

अथ यदास्य वाङ्मनसि संपद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायामथ जानाति ।२।

 

एषोऽणिमैतदात्म्यमिदꣲ᳭  सर्वं तत्सत्यꣲ᳭  आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ३।

 

।।इति पञ्चदशः खण्डः।।

 

षोडश : खण्ड :

 

पुरुषꣲ᳭  सोम्योत हस्तगृहीतमानयन्त्यपहार्षीत्स्तेयमकार्षी- त्परशुमस्मै तपतेति यदि तस्य कर्ता भवति तत एवानृतमात्मानं कुरुते सोऽनृताभिसंधोऽनृतेनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति दह्यतेऽथ हन्यते

 

अथ यदि तस्याकर्ता भवति तत एव सत्यमात्मानं कुरुते सत्याभिसंधः सत्येनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति दह्यतेऽथ मुच्यते ।२।

 

यथा तत्र नादाह्येतैतदात्म्यमिदꣲ᳭  सर्वं तत्सत्यꣲ᳭  आत्मा तत्त्वमसि श्वेतकेतो इति तद्धास्य विजज्ञाविति विजज्ञाविति ।३।

 

।।इति षोडशः खण्डः।।

इति षष्ठोऽध्यायः

 

 

 

सप्तमोऽध्याय :

 

प्रथम : खण्ड :

 

अधीहि भगव इति होपससाद सनत्कुमारं नारदस्तꣲ᳭ होवाच यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामीति होवाच ।१।

 

ऋग्वेदं भगवोऽध्येमि यजुर्वेदꣲ᳭ सामवेदमाथर्वणं चतुर्थ- मितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यꣲ᳭ राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्याꣲ᳭ सर्पदेवजनविद्यामेतद्भगवोऽध्येमि ।२।

 

सोऽहं भगवो मन्त्रविदेवास्मि नात्मविच्छुतꣲ᳭ ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति सोऽहं भगवः शोचामि तं मा भगवाञ्छोकस्य पारं तारयत्विति ꣲ᳭ होवाच यद्वै किंचैतदध्यगीष्ठा नामैवैतत्

 

नाम वा ऋग्वेदो यजुर्वेदः सामवेद आथर्वणश्चतुर्थ इतिहासपुराणः पञ्चमो वेदानां वेदः पित्र्यो राशिदैवो निधिर्वाकोवाक्यमेकायनं देवविद्या ब्रह्मविद्या भूतविद्या क्षत्रविद्या नक्षत्रविद्या सर्पदेवजनविद्या नामैवैतन्नामोपास्स्वेति ।४।

 

यो नाम ब्रह्मेत्युपास्ते यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति यो नाम ब्रह्मेत्युपास्तेऽस्ति भगवो नाम्नो भूय इति नाम्नो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ।५।

 

।।इति प्रथमः खण्डः।।

 

द्वितीय : खण्ड :

 

वाग्वाव नाम्नो भूयसी वाग्वा ऋग्वेदं विज्ञापयति यजुर्वेदꣲ᳭ सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यꣲ᳭ राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्याꣲ᳭ सर्पदेवजनविद्यां दिवं पृथिवीं वायुं चाकाशं चापश्च तेजश्च देवाꣲ᳭श्च मनुष्याꣲ᳭श्च पशूश्च वयाꣲ᳭सि तृणवनस्पतीञ्श्वापदान्याकीटपतङ्गपिपीलकं धर्मं चाधर्मं सत्यं चानृतं साधु चासाधु हृदयज्ञं चाहृदयज्ञं यद्वै वाङ्नाभविष्यन्न धर्मो नाधर्मो व्यज्ञापयिष्यन्न सत्यं नानृतं साधु नासाधु हृदयज्ञो नाहृदयज्ञो वागेवैतत्सर्वं विज्ञापयति वाचमुपास्स्वेति ।१।

 

यो वाचं ब्रह्मेत्युपास्ते यावद्वाचो गतं तत्रास्य यथाकामचारो भवति यो वाचं ब्रह्मेत्युपास्तेऽस्ति भगवो वाचो भूय इति वाचो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ।२।

 

।।इति द्वितीयः खण्डः।।

 

तृतीय : खण्ड :

 

मनो वाव वाचो भूयो यथा वै द्वे वामलके द्वे वा कोले द्वौ वाक्षौ मुष्टिरनुभवत्येवं वाचं नाम मनोऽनुभवति यदा मनसा मनस्यति मन्त्रानधीयीयेत्यथाधीते कर्माणि कुर्वीयेत्यथ कुरुते पुत्राꣲ᳭श्च पशूꣲ᳭ श्वेच्छेयेत्यथेच्छत इमं लोकममुं चेच्छेयेत्यथेच्छते मनो ह्यात्मा मनो हि लोको मनो हि ब्रह्म मन उपास्स्वेति ।१।

 

यो मनो ब्रह्मेत्युपास्ते यावन्मनसो गतं तत्रास्य यथाकामचारो भवति यो मनो ब्रहोत्युपास्तेऽस्ति भगवो मनसो भूय इति मनसो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ।२।

 

।।इति तृतीयः खण्डः।।

 

चतुर्थ : खण्ड :

 

संकल्पो वाव मनसो भूयान्यदा वै संकल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ।१।

 

तानि वा एतानि संकल्पैकायनानि संकल्पात्मकानि संकल्पे प्रतिष्ठितानि समक्लृपतां द्यावापृथिवी समकल्पेतां वायुश्चाकाशं समकल्पन्तापश्च तेजश्च तेषाꣲ᳭ संक्लृप्त्यै वर्षꣲ᳭ संकल्पते वर्षस्य संक्लृप्त्या अन्नꣲ᳭ संकल्पतेऽन्नस्य संक्लृप्त्यै प्राणाः संकल्पन्ते प्राणानाꣲ᳭ संक्लृप्त्यै मन्त्राः संकल्पन्ते मन्त्राणाꣲ᳭ संक्लृप्त्यै कर्माणि संकल्पन्ते कर्मणाꣲ᳭ संक्लृप्त्यै लोकः संकल्पते लोकस्य संक्लृप्त्यै सर्वंꣲ᳭ संकल्पते एष संकल्पः संकल्पमुपास्स्वेति ।२।

 

यः संकल्पं ब्रह्मेत्युपास्ते संक्लृप्तान्वै लोकान्धुवान्ध्रुवः प्रतिष्ठितान् प्रतिष्ठितोऽव्यथमानानव्यथमानो- ऽभिसिध्यति यावत्संकल्पस्य गतं तत्रास्य यथाकामचारो भवति

सप्तमोऽध्यायः यः संकल्पं ब्रह्मेत्युपास्तेऽस्ति भगवः संकल्पाद्भूय इति संकल्पाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ।३।

।।इति चतुर्थः खण्डः।।

 

 

पञ्चम : खण्ड :

 

चित्तं वाव संकल्पाद्भूयो यदा वै चेतयतेऽथ संकल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ।१।

 

तानि वा एतानि चित्तैकायनानि चित्तात्मानि चित्ते प्रतिष्ठितानि तस्माद्यद्यपि बहुविदचित्तो भवति नायमस्तीत्येवै- नमाहुर्यदयं वेद यद्वा अयं विद्वान्नेत्थमचित्तः स्यादित्यथ यद्यल्पविच्चित्तवान्भवति तस्मा एवोत शुश्रूषन्ते चित्त् ह्येवैषामेकायनं चित्तमात्मा चित्तꣲ᳭ प्रतिष्ठा चित्तमुपास्स्वेति ।२।

 

यश्चित्तं ब्रह्मेत्युपास्ते चितान्वै लोकान्धुवान्ध्रुवः प्रतिष्ठितान्प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिध्यति याव- च्चित्तस्य गतं तत्रास्य यथाकामचारो भवति यश्चित्तं ब्रह्मेत्युपास्तेऽस्ति भगवश्चित्ताद्भय इति चित्ताद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ।३।

 

।।इति पञ्चमः खण्डः।।

पृष्ठ : खण्ड :

 

ध्यानं वाव चित्ताद्भूयो ध्यायतीव पृथिवी ध्यायतीवान्तरिक्षं ध्यायतीव द्यौर्थ्यायन्तीवापो ध्यायन्तीव पर्वता देवमनुष्यास्तस्माद्य इह मनुष्याणां महत्तां प्राप्नुवन्ति ध्यानापादाꣲ᳭ शा इवैव ते भवन्त्यथ येऽल्पाः कलहिनः पिशुना उपवादिनस्तेऽथ ये प्रभवो ध्यानापादाँ शा इवैव ते भवन्ति ध्यानमुपास्स्वेति ।१।

 

यो ध्यानं ब्रह्मेत्युपास्ते यावद्भयानस्य गतं तत्रास्य यथाकामचारो भवति यो ध्यानं ब्रह्मेत्युपास्तेऽस्ति भगवो ध्यानाद्भूय इति ध्यानाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ।२।

 

।।इति षष्ठः खण्डः।।

 

सप्तम : खण्ड :

 

विज्ञानं वाव ध्यानाद्भूयो विज्ञानेन वा ऋग्वेदं विजानाति यजुर्वेदꣲ᳭ सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यꣲ᳭ राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्याꣲ᳭ सर्पदेवजनविद्यां दिवं पृथिवीं वायुं चाकाशं चापश्च तेजश्च देवाꣲ᳭श्च मनुष्याꣲ᳭श्च पशू श्च वयाꣲ᳭ सि तृणवनस्पतीञ्छ्वापदान्याकीटपतङ्गपिपीलकं धर्मं चाधर्मं सत्यं चानृतं साधु चासाधु हृदयज्ञं चाहृदयज्ञं चान्नं रसं चेमं लोकममुं विज्ञानेनैव विजानाति विज्ञानमुपास्स्वेति ।१।

 

यो विज्ञानं ब्रह्मेत्युपास्ते विज्ञानवतो वै लोकाञ्ज्ञानवतोऽभिसिध्यति यावद्विज्ञानस्य गतं तत्रास्य यथा-कामचारो भवति यो विज्ञानं ब्रह्मेत्युपास्तेऽस्ति भगवो विज्ञानाद्भूय इति विज्ञानाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ।२।

।।इति सप्तमः खण्डः।।

अष्टम : खण्ड:

 

बलं वाव विज्ञानाद्भूयोऽपि शतं विज्ञानवतामेको बलवानाकम्पयते यदा बली भवत्यथोत्थाता भवत्युत्तिष्ठ- न्परिचरिता भवति परिचरन्नुपसत्ता भवत्युपसीदन्द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवति बलेन वै पृथिवी तिष्ठति बलेनान्तरिक्षं बलेन द्यौर्बलेन पर्वता बलेन देवमनुष्या बलेन पशवश्च वयासिꣲ᳭ तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपीलकं बलेन लोकस्तिष्ठति बल- मुपास्स्वेति ।१।

 

यो बलं ब्रह्मेत्युपास्ते यावद्बलस्य गतं तत्रास्य यथाकामचारो भवति यो बलं ब्रह्मेत्युपास्तेऽस्ति भगवो बलाद्भूय इति बलाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ।२।

 

।।इति अष्टमः खण्डः।।

 

नवम : खण्ड :

 

अन्नं वाव बलाद्भयस्तस्माद्यद्यपि दश रात्रीर्नाश्नीयाद्यद्यु जीवेदथवाद्रष्टा श्रोतामन्ताबोद्धाकर्ताविज्ञाता भवत्यथान्नस्यायै द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवत्यन्नमुपास्स्वेति ।१।

 

योऽन्नं ब्रहोत्युपास्तेऽन्नवतो वै लोकान्यानवतो- ऽभिसिध्यति यावदन्नस्य गतं तत्रास्य यथाकामचारो भवति योऽन्नं ब्रह्मेत्युपास्तेऽस्ति भगवोऽन्नाद्भय इत्यत्राद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ।२।

 

।।इतिं नवमः खण्डः।।

 

दशम : खण्ड :

 

आपो वावान्नाद्भूयस्तस्माद्यदा सुवृष्टिर्न भवति व्याधीयन्ते प्राणा अन्नं कनीयो भविष्यतीत्यथ यदा सुवृष्टिर्भवत्यानन्दिनः प्राणा भवन्त्यन्नं बहु भविष्यतीत्याप एवेमा मूर्ता येयं पृथिवी यदन्तरिक्षं यद्यौर्यत्पर्वता यद्देवमनुष्या यत्पशवश्च वया सि तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपीलकमाप एवेमा मूर्ता अप उपास्स्वेति

 

योऽपो ब्रह्मेत्युपास्त आप्नोति सर्वान्कामाꣲ᳭ स्तृप्तिमा- न्भवति यावदपां गतं तत्रास्य यथाकामचारो भवति योऽपो ब्रह्मेत्युपास्तेऽस्ति भगवोऽद्भयो भूय इत्यद्भयो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति

 

।।इति दशमः खण्डः।।

 

एकादश : खण्ड :

 

तेजो वावाद्भयो भूयस्तद्वा एतद्वायुमागृह्याकाशमभितपति तदाहुर्निशोचति नितपति वर्षिष्यति वा इति तेज एव तत्पूर्व दर्शयित्वाथापः सृजते तदेतदूर्ध्वाभिश्च तिरश्चीभिश्च विद्युद्धि- राहादाश्चरन्ति तस्मादाहुर्विद्योतते स्तनयति वर्षिष्यति वा इति तेज एव तत्पूर्वं दर्शयित्वाथापः सृजते तेज उपास्स्वेति ।१।

 

यस्तेजो ब्रह्मेत्युपास्ते तेजस्वी वै तेजस्वतो लोकान्भास्वतोऽपहततमस्कानभिसिध्यति यावत्तेजसो गतं तत्रास्य यथाकामचारो भवति यस्तेजो ब्रह्मेत्युपास्तेऽस्ति भगवस्तेजसो भूय इति तेजसो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ।२।

 

।।इति एकादशः खण्डः।।

 

द्वादश : खण्ड :

 

आकाशो वाव तेजसो भूयानाकाशे वै सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राण्यग्निराकाशेनाह्वयत्याकाशेन शृणोत्याकाशेन प्रति- शृणोत्याकाशे रमत आकाशे रमत आकाशे जायत आकाशमभिजायत आकाशमुपास्स्वेति ।१।

 

आकाशं ब्रह्मेत्युपास्त आकाशवतो वै लोकान्प्रकाशवतोऽसंबाधानुरुगायवतोऽभिसिध्यति यावदा- काशस्य गतं तत्रास्य यथाकामचारो भवति आकाशं ब्रहोत्युपास्तेऽस्ति भगव आकाशाद्भूय इत्याकाशाद्वाव 'भूयो- ऽस्तीति तन्मे भगवान्ब्रवीत्विति ।२।

 

।।इति द्वादशः खण्डः।।

 

त्रयोदश : खण्ड :

 

स्मरो वावाकाशाद्र्यस्तस्माद्यद्यपि बहव आसीरन्न स्मरन्तो नैव ते कंचन शृणुयुर्न मन्वीरन्न विजानीरन्यदा वाव ते स्मरेयुरथ शृणुयुरथ मन्वीरन्नथ विजानीरन्स्मरेण वै पुत्रान्विजानाति स्मरेण पशून्स्मरमुपास्स्वेति ।१।

 

यः स्मरं ब्रह्मेत्युपास्ते यावत्स्मरस्य गतं तत्रास्य यथाकामचारो भवति यः स्मरं ब्रह्मेत्युपास्तेऽस्ति भगवः स्मराद्भय इति स्मराद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ।२।

 

।।इति त्रयोदशः खण्डः।।

 

 

चतुर्दश : खण्ड :

 

आशा वाव स्मराद्भूयस्याशेद्धो वै स्मरो मन्त्रानधीते कर्माणि कुरुते पुत्राꣲ᳭श्च पशूꣲ᳭ श्चेच्छत इमं लोकममुं चेच्छत आशामुपास्स्वेति ।१।

 

आशां ब्रह्मेत्युपास्त आशयास्य सर्वे कामाः समृध्यन्त्यमोघा हास्याशिषो भवन्ति यावदाशाया गतं तत्रास्य यथाकामचारो भवति आशां ब्रह्मेत्युपास्तेऽस्ति भगव आशाया भूय इत्याशाया वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ।२।

 

।।इति चतुर्दशः खण्डः।।

 

पञ्चदश : खण्ड

 

प्राणो वा आशाया भूयान्यथा वा अरा नाभौ समर्पिता एवमस्मिन्प्राणे सर्वꣲ᳭ समर्पितं प्राणः प्राणेन याति प्राणः प्राणं ददाति प्राणाय ददाति प्राणो पिता प्राणो माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः प्राणो ब्राह्मणः ।१

 

यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वाचार्यं वा ब्राह्मणं वा किंचिदृशमिव प्रत्याह धिक्त्वास्त्वित्येवैनमाहुः पितृहा वै त्वमसि मातृहा वै त्वमसि भ्रातृहा वै त्वमसि स्वसृहा वै त्वमस्याचार्यहा वै त्वमसि ब्राह्मणहा वै त्वमसीति ।२।

 

अथ यद्यप्येनानुत्क्रान्तप्राणाञ्छूलेन समासं व्यतिषंदहेन्नैवैनं ब्रूयुः पितृहासीति मातृहासीति भ्रातृहासीति स्वसृहासीति नाचार्यहासीति ब्रह्मणहासीति ।३।

 

प्राणो ह्येवैतानि सर्वाणि भवति वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी भवति तं चेद्ब्रूयुरतिवाद्यसी- त्यतिवाद्यस्मीति ब्रूयान्नापह्ववीत ।४।

 

।।इति पञ्चदशः खण्डः।।

 

 

 

पोडश : खण्ड :

 

एष तु वा अतिवदति : सत्येनातिवदति सोऽहं भगवः सत्येनातिवदानीति सत्यं त्वेव विजिज्ञासितव्यमिति सत्यं भगवो विजिज्ञास इति ।१

 

।।इति षोडशः खण्ड:।।

 

सप्तदश : खण्ड :

 

यदा वै विज्ञानात्यथ सत्यं वदति नाविजानन्सत्यं वदति विजानन्नेव सत्यं वदति विज्ञानं त्वेव विजिज्ञासितव्यमिति विज्ञानं भगवो विजिज्ञास इति

 

।।इति सप्तदशः खण्डः।।

 

अष्टादश : खण्ड :

 

यदा वै मनुतेऽथ विजानाति नामत्वा विजानाति मत्वैव विजानाति मतिस्त्वेव विजिज्ञासितव्येति मतिं भगवो विजिज्ञास इति ।१

 

।।इति अष्टादशः खण्डः।।

 

एकोनविंशतितम : खण्ड :

 

यदा वै श्रद्दधात्यथ मनुते नाश्रद्दधन्मनुते श्रद्दधदेव मन श्रद्धा त्वेव विजिज्ञासितव्येति श्रद्धां भगवो विजिज्ञास इति ।१।

 

।।इति एकोनविंशतितम : खण्ड :।।

 

विंशतितम : खण्ड :

 

यदा वै निस्तिष्ठत्यथ श्रद्दधाति नानिस्तिष्ठञ्छ्रद्दधाति निस्तिष्ठन्नेव श्रद्दधाति निष्ठा त्वेव विजिज्ञासितव्येति निष्ठां भगवो  विजिज्ञास इति ।१।

 

।।इति विंशतितमः खण्डः।।

 

एकविंश : खण्ड :

 

यदा वै करोत्यथ निस्तिष्ठति नाकृत्वा निस्तिष्ठति कृत्वैव निस्तिष्ठति कृतिस्त्वेव विजिज्ञासितव्येति कृतिं भगवो विजिज्ञास इति ।१

 

।।इति एकविंशः खण्डः।।

 

 

 

द्वाविंश : खण्ड :

 

यदा वै सुखं लभतेऽथ करोति नासुखं लब्ध्वा करोति सुखमेव लब्ध्वा करोति सुखं त्वेव विजिज्ञासितव्यमिति सुखं भगवो विजिज्ञास इति ।१

 

इति द्वाविंशः खण्डः

 

त्रयोविंश : खण्ड :

 

यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखं भूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो विजिज्ञास इति ।१।

 

इतिं त्रयोविंशः खण्डः

 

चतुर्विंश : खण्ड :

 

यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति भूमाथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पं यो वै भूमा तदमृतमथ यदल्पं तन्मयꣲ᳭ भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि यदि वा महिम्नीति ।१।

 

गोअश्वमिह महिमेत्याचक्षते हस्तिहिरण्यं दासभार्य क्षेत्राण्यायतनानीति नाहमेवं ब्रवीमि ब्रवीमीति होवाचान्यो ह्यन्यस्मिन्प्रतिष्ठित इति ।२।

 

इति चतुर्विंशः खण्डः

पञ्चविंश : खण्ड :

 

एवाधस्तात्स उपरिष्टात्स पश्चात्स पुरस्तात्स दक्षिणतः उत्तरतः एवेदꣲ᳭ सर्वमित्यथातोऽहंकारादेश एवाहमेवा- धस्तादहमुपरिष्टादहं पश्चादहं पुरस्तादहं दक्षिणतोऽहमुत्तरतो- ऽहमेवेदꣲ᳭ सर्वमिति

 

अथात आत्मादेश एवात्मैवाधस्तादात्मोपरिष्टादात्मा पश्चादात्मा पुरस्तादात्मा दक्षिणत आत्मोत्तरत आत्मैवेदꣲ᳭ सर्वमिति वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नात्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः स्वराद्भवति तस्य सर्वेषु लोकेषु कामचारो भवति अथ येऽन्यथातो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति तेषा ꣲ᳭ सर्वेषु लोकेष्वकामचारो भवति ।२।

 

इति पञ्चविंशः खण्डः

षड्विंश : खण्ड :

 

तस्य वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत आत्मतः प्राण आत्मत आशात्मतः स्मर आत्मत आकाश आत्मतस्तेज आत्मत आप आत्मत आविर्भावतिरोभावावात्मतो- ऽन्नमात्मतो बलमात्मतो विज्ञानमात्मतो ध्यानमात्मत- श्चित्तमात्मतः संकल्प आत्मतो मन आत्मतो वागात्मतो नामात्मतो मन्त्रा आत्मतः कर्माण्यात्मत एवेदꣲ᳭ सर्वमिति ।१

 

तदेष श्लोको पश्यो मृत्युं पश्यति रोगं नोत दुःखताꣲ᳭ सर्वꣲ᳭ पश्यः पश्यति सर्वमाप्नोति सर्वश इति एकधा भवति त्रिधा भवति पञ्चधा सप्तधा नवधा चैव पुनश्चैकादशः स्मृतः शतं दश चैकश्च सहस्राणि विꣲ᳭शतिराहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षस्तस्मै मृदितकषायाय तमसस्पारं दर्शयति भगवान्सनत्कुमारस्तꣲ᳭ स्कन्द इत्याचक्षते ꣲ᳭ स्कन्द इत्याचक्षते ।२।

इति षड्विंशः खण्डः

 

इति सप्तमोऽध्यायः

अष्टमोऽध्याय :

 

प्रथम : खण्ड :

 

अथ यदिदमस्मिन्ब्रहापुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासि- तव्यमिति ।१।

 

तं चेद्ब्रूयुर्यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यमिति ब्रूयात् ।२।

 

यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते उभावग्निश्च वायुश्च सूर्याचन्द्रमसावूभौ विद्युन्नक्षत्राणि यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन्समाहितमिति ।३।

 

ꣲ᳭ चेद्ब्रूयुरस्मिꣲ᳭ श्चेदिदं ब्रह्मपुरे सर्वꣲ᳭ समाहितꣲ᳭ सर्वाणि भूतानि सर्वे कामा यदैतज्जरा वाप्नोति प्रध्वꣲ᳭ सते वा किं ततोऽतिशिष्यत इति ।४।

 

ब्रूयान्नास्य जरयैतज्जीर्यति वधेनास्य हन्यत एतत्सत्यं ब्रह्मपुरमस्मिन्कामाः समाहिता एष आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पो यथा ह्येवेह प्रजा अन्वाविशन्ति यथानुशासनं यं यमन्तमभिकामा भवन्ति यं जनपदं यं क्षेत्रभागं तं तमेवोपजीवन्ति ।५।

 

तद्यथेह कर्मजितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो लोकः क्षीयते तद्य इहात्मानमननुविद्य व्रजन्त्येताꣲ᳭श्च सत्यान्कामा स्तेषा सर्वेषु लोकेष्वकामचारो भवत्यथ इहात्मानमनुविद्य व्रजन्त्येता श्च सत्यान्कामाꣲ᳭ स्तेषाꣲ᳭ सर्वेषु लोकेषु कामचारो भवति ।६।

 

इति प्रथमः खण्डः

 

 

 

 

द्वितीय : खण्ड :

 

यदि पितृलोककामो भवति संकल्पादेवास्य पितरः समुत्तिष्ठन्ति तेन पितृलोकेन संपन्नो महीयते ।१

 

अथ यदि मातृलोककामो भवति संकल्पादेवास्य मातरः समुत्तिष्ठन्ति तेन मातृलोकेन संपन्नो महीयते ।२।

 

अथ यदि भ्रातृलोककामो भवति संकल्पादेवास्य भ्रातरः समुत्तिष्ठन्ति तेन भ्रातृलोकेन संपन्नो महीयते ।३।

 

अथ यदि स्वसृलोककामो भवति संकल्पादेवास्य स्वसारः समुत्तिष्ठन्ति तेन स्वसृलोकेन संपन्नो महीयते ।४।

 

अथ यदि सखिलोककामो भवति संकल्पादेवास्य सखायः समुत्तिष्ठन्ति तेन सखिलोकेन संपन्नो महीयते ।५।

 

अथ यदि गन्धमाल्यलोककामो भवति संकल्पादेवास्य गन्धमाल्ये समुत्तिष्ठतस्तेन गन्धमाल्यलोकेन संपन्नो महीयते

 

अथ यद्यन्नपानलोककामो भवति संकल्पादेवास्यान्नपाने समुत्तिष्ठतस्तेनान्नपानलोकेन संपन्नो महीयते ।७।

 

अथ यदि गीतवादित्रलोककामो भवति संकल्पादेवास्य गीतवादित्रे समुत्तिष्ठतस्तेन गीतवादित्रलोकेन संपन्नो महीयते ।८

 

अथ यदि स्त्रीलोककामो भवति संकल्पादेवास्य स्त्रियः समुत्तिष्ठन्ति तेन स्त्रीलोकेन संपन्नो महीयते ।९।

 

यं यमन्तमभिकामो भवति यं कामं कामयते सोऽस्य संकल्पादेव समुत्तिष्ठति तेन संपन्नो महीयते ।१०।

 

इति द्वितीयः खण्डः

 

तृतीय : खण्ड :

 

इमे सत्याः कामा अनृतापिधानास्तेषाꣲ᳭ सत्यानाꣲ᳭ सतामनृतमपिधानं यो यो ह्यस्येतः प्रैति तमिह दर्शनाय लभते ।१।

 

अथ ये चास्येह जीवा ये प्रेता यच्चान्यदिच्छन्न लभते सर्वं तदत्र गत्वा विन्दतेऽत्र ह्यस्यैते सत्याः कामा अनृतापिधानास्तद्यथापि हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि संचरन्तो विन्देयुरेवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं विन्दन्त्यनृतेन हि प्रत्यूढाः ।२।

 

वा एष आत्मा हृदि तस्यैतदेव निरुक्तꣲ᳭  हृद्ययमिति तस्माद्धृदयमहरहर्वा एवंवित्स्वर्गं लोकमेति

 

अथ एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तस्य वा एतस्य ब्रह्मणो नाम सत्यमिति ।४।

 

तानि हवा एतानि त्रीण्यक्षराणि सतीयमिति तद्यत्सत्तदमृतमथ यत्ति तन्मर्त्यमथ यद्यं तेनोभे यच्छति यदनेनोभे यच्छति तस्माद्यमहरहर्वा एवंवित्स्वर्गं लोकमेति ।५।

 

इति तृतीयः खण्डः

 

चतुर्थ : खण्ड :

 

अथ आत्मा सेतुर्विधृतिरेषां लोकानामसंभेदाय नैतꣲ᳭  सेतुमहोरात्रे तरतो जरा मृत्युर्न शोको सुकृतं दुष्कृतꣲ᳭  सर्वे पाप्मानोऽतो निवर्तन्तेऽपहतपाप्मा ह्येष ब्रह्मलोकः ।१।

 

तस्माद्वा एतꣲ᳭  सेतुं तीर्वान्धः सन्ननन्धो भवति विद्धः सन्नविद्धो भवत्युपतापी सन्ननुपतापी भवति तस्माद्वा एतꣲ᳭  सेतुं तीर्वापि नक्तमहरेवाभिनिष्पद्यते सकृद्विभातो ह्येवैष ब्रह्मलोकः ।२।

 

तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषाꣲ᳭  सर्वेषु लोकेषु कामचारो भवति ।३।

 

इति चतुर्थः खण्डः

 

पञ्चम : खण्ड :

 

अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येव यो ज्ञाता तं विन्दतेऽथ यदिष्टमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येवेष्ट्वात्मानमनुविन्दते ।१।

 

अथ यत्सत्त्रायणमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येव सत आत्मनस्त्राणं विन्दतेऽथ यन्मौनमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येवात्मानमनुविद्य मनुते ।२।

 

अथ यदनाशकायनमित्याचक्षते ब्रह्मचर्यमेव तदेष ह्यात्मा नश्यति यं ब्रह्मचर्येणानुविन्दतेऽथ यदरण्यायनमित्याचक्षते ब्रह्मचर्यमेव तदरश्च वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि तदैरं मदीयꣲ᳭  सरस्तदश्वत्थः सोमसवनस्तदपराजिता पूर्ब्रह्मणः प्रभुविमितꣲ᳭  हिरण्मयम् ।३।

 

तद्य एवैतावरं ण्यं चार्णवौ ब्रह्मलोके ब्रह्मचर्येणा- ऽनुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषा ꣲ᳭ सर्वेषु लोकेषु कामचारो भवति ।४।

 

इति पञ्चमः खण्डः

 

षष्ठ : खण्ड :

 

अथ या एता हृदयस्य नाड्यस्ताः पिङ्गलस्याणिम्नस्तिष्ठन्ति शुक्लस्य नीलस्य पीतस्य लोहितस्येत्यसौ वा आदित्यः पिङ्गल एष शुक्ल एष नील एष पीत एष लोहितः १।

 

तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं चैवमेवैता उभौ लोकौ गच्छन्तीमं चामुं आदित्यस्य रश्मय चामुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ताः ।२।

तद्यत्रैतत्सुप्तः समस्तः संप्रसन्नः स्वप्नं विजानात्यासु तदा नाडीषु सृप्तो भवति तं कश्चन पाप्मा स्पृशति तेजसा हि तदा संपन्नो भवति ।३।

 

अथ यत्रैतदबलिमानं नीतो भवति तमभित आसीना आहुर्जानासि मां जानासि मामिति यावदस्माच्छरीरादनुत्क्रान्तो भवति तावज्जानाति ।४।

 

अथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभि-रूर्ध्वमाक्रमते ओमिति वा होद्वा मीयते यावत्क्षिप्येन्मनस्तावदादित्यं गच्छत्येतद्वै खलु लोकद्वारं विदुषां प्रपदनं निरोधोऽविदुषाम् ।५।

 

तदेष श्लोकः शतं चैका हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्य उत्क्रमणे भवन्त्युत्क्रमणे भवन्ति ।६।

 

इति षष्ठः खण्डः

 

सप्तम:खण्:

 

आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः विजिज्ञासितव्यः सर्वाꣲ᳭श्च लोकानाप्नोति सर्वांꣲ᳭श्च कामान्य- स्तमात्मानमनुविद्य विजानातीति प्रजापतिरुवाच ।१।

 

तद्धोभये देवासुरा अनुबुबुधिरे तेहोचुर्हन्त तमात्मान- मन्विच्छामो यमात्मानमन्विष्य सर्वाꣲ᳭श्च लोकानाप्नोति सर्वाꣲ᳭श्च कामानितीन्द्रो हैव देवानामभिप्रवव्राज विरोचनोऽसुराणां तौ हासंविदानावेव समित्पाणी प्रजापतिसकाशमाजग्मतुः ।२।

 

तौ द्वात्रिꣲ᳭ शतं वर्षाणि ब्रह्मचर्यमूषतुस्तौ प्रजापतिरुवाच किमिच्छन्ताववास्तमिति तौ होचतुर्य आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः विजिज्ञासितव्यः सर्वाꣲ᳭श्च लोकानाप्नोति सर्वाꣲ᳭श्च कामान्यस्तमात्मानमनुविद्य विजानातीति भगवतो वचो वेदयन्ते तमिच्छन्ताववास्तमिति ।३।

 

तौ प्रजापतिरुवाच एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेत्यथ योऽयं भगवोऽप्सु परिख्यायते यश्चायमादर्श कतम एष इत्येष एवैषु सर्वेष्वन्तेषु परिख्यायत इति होवाच ।४।

 

इति सप्तमः खण्ड:

 

अष्टम : खण्ड :

 

उदशराव आत्मानमवेक्ष्य यदात्मनो विजानीथस्तन्मे प्रब्रूतमिति तौ होदशरावेऽवेक्षांचक्राते तौ प्रजापतिरुवाच किं पश्यथ इति तौ होचतुः सर्वमेवेदमावां भगव आत्मानं पश्याव लोमभ्य नखेभ्यः प्रतिरूपमिति ।१

 

तौ प्रजापतिरुवाच साध्वलंकृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षेथामिति तौ साध्वलंकृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षांचक्राते तौ प्रजापतिरुवाच किं पश्यथ इति ।२।

 

तौ होचतुर्यथैवेदमावां भगवः साध्वलंकृतौ सुवसनौ परिष्कृतौ स्व एवमेवेमौ भगवः साध्वलंकृतौ सुवसनौ परिष्कृतावित्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तौ शान्तहृदयौ प्रवव्रजतुः ।३।

 

तौ हान्वीक्ष्य प्रजापतिरुवाचानुपलभ्यात्मानमननुविद्य व्रजतो यतर एतदुपनिषदो भविष्यन्ति देवा वासुरा वा ते पराभविष्यन्तीति शान्तहृदय एव विरोचनोऽसुराज्ञ्जगाम तेभ्यो हैतामुपनिषदं प्रोवाचात्मैवेह महय्य आत्मा परिचर्य आत्मानमेवेह महयन्नात्मानं परिचरन्नुभौ लोकाववाप्नोतीमं चामुं चेति ।४।

 

तस्मादप्यद्येहाददानमश्रद्दधानमयजमानमाहुरासुरो बतेत्य- सुराणाꣲ᳭ह्येषोपनिषत्प्रेतस्य शरीरं भिक्षया वसनेनालंकारेणेति ꣲ᳭स्कुर्वन्त्येतेन ह्यमुं लोकं जेष्यन्तो मन्यन्ते ।५।

 

इति अष्टमः खण्ड:

 

 

 

नवम : खण्ड :

 

अथ हेन्द्रोऽप्राप्यैव देवानेतद्भयं ददर्श यथैव खल्वयमस्मिञ्छरीरे साध्वलंकृते साध्वलंकृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवमेवायमस्मिन्त्रन्धेऽन्धो भवति स्त्रामे स्रामः परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति नाहमत्र भोग्यं पश्यामीति ।१।

 

समित्पाणिः पुनरेयाय ꣲ᳭ प्रजापतिरुवाच मघवन्यच्छान्त- हृदयः प्राव्राजीः सार्धं विरोचनेन किमिच्छन्पुनरागम इति होवाच यथैव खल्वयं भगवोऽस्मिञ्छरीरे साध्वलंकृते साध्वलंकृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवमेवायमस्मिन्नन्धेऽन्धो भवति स्त्रामे स्रामः परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति नाहमत्र भोग्यं पश्यामीति ।२।

 

एवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिꣲ᳭शतं वर्षाणीति हापराणि द्वात्रिꣲ᳭शतं वर्षाण्युवास तस्मै होवाच ।३।

 

इति नवमः खण्डः

दशम : खण्ड :

 

एष स्वप्ने महीयमानश्चरत्येष आत्मेति होवाचैतदमृत- मभयमेतद्ब्रह्मेति शान्तहृदयः प्रवव्राज हाप्राप्यैव देवानेतद्भयं ददर्श तद्यद्यपीदꣲ᳭ शरीरमन्धं भवत्यनन्धः भवति यदि नाममस्रामो नैवैषोऽस्य दोषेण दुष्यति ।१।

 

वधेनास्य हन्यते नास्य स्त्राम्येण स्रामो घ्नन्ति त्वेवैनं विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र भोग्यं पश्यामीति ।२।

 

समित्पाणिः पुनरेयाय ꣲ᳭ प्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्राव्राजीः किमिच्छन्पुनरागम इति होवाच तद्यद्यपीदं भगवः शरीरमन्धं भवत्यनन्धः भवति यदि स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति

 

वधेनास्य हन्यते नास्य स्राम्येण स्रामो घ्नन्ति त्वेवैनं विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र भोग्यं पश्यामीत्येवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिꣲ᳭शतं वर्षाणीति हापराणि द्वात्रिꣲ᳭ शतं वर्षाण्युवास तस्मै होवाच ।४।

इति दशमः खण्ड:

 

एकादश : खण्ड :

 

तद्यत्रैतत्सुप्तः समस्तः संप्रसन्नः स्वप्नं विज्ञानात्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति शान्तहृदयः प्रवव्राज हाप्राप्यैव देवानेतद्भयं ददर्श नाह खल्वयमेवꣲ᳭ संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति ।१।

 

समित्पाणिः पुनरेयाय ꣲ᳭ प्रजापतिरुवाच मघवनय छान्तहृदयः प्राव्राज़ी: किमिल जानरामयम इति होवाच माह खल्वयं भगव एवꣲ᳭ संप्रत्यात्मानं जानात्ययमहमस्मीति नो एर्वमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति ।२।

 

एवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्माद्वसापराणि पञ्च वर्षाणीति हापराणि पञ्च वर्षाण्युवास तान्येकशतꣲ᳭ संपेदुरेतत्तद्यदाहुरेकशतꣲ᳭ वै वर्षाणि मघवान्प्रजापतौ ब्रह्मचर्यमुवास तस्मै होवाच ।३।

 

इति एकादशः खण्डः

 

 

द्वादश: खण्ड :

 

मघवन्मर्त्य वा इदꣲ᳭ शरीरमात्तं मृत्युना तदस्यामृतस्या- ऽशरीरस्यात्मनोऽधिष्ठानमात्तो वै सशरीरः प्रियाप्रियाभ्यां वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्त्यशरीरं वाव सन्तं प्रियाप्रिये स्पृशतः ।१।

 

अशरीरो वायुरभ्रं विद्युत्स्तनयित्नुरशरीराण्येतानि तद्यथैता- न्यमुष्मादाकाशात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यन्ते ।२।

 

एवमेवैष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुप- संपद्य स्वेन रूपेणाभिनिष्पद्यते उत्तमपुरुषः तत्र पर्येति आचरणे युक्त जक्षत्क्रीडन्रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा नोपजनꣲ᳭ स्मरन्निदꣲ᳭ शरीꣲ᳭ यथा प्रयोग्य एवमेवायमस्मिञ्छरीरे प्राणो युक्तः ।३।

 

अथ यत्रैतदाकाशमनुविषण्णं चक्षुः चाक्षुषः पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति आत्मा गन्धाय घ्राणमथ यो वेदेदमभिव्याहराणीति आत्माभिव्याहाराय वागथ यो वेदेदꣲ᳭ शृणवानीति आत्मा श्रवणाय श्रोत्रम् ।४।

 

अथ यो वेदेदं मन्वानीति आत्मा मनोऽस्य दैवं चक्षुः वा एष एतेन दैवेन चक्षुषा मनसैतान्कामान्पश्यन्रमते एते ब्रह्मलोके ।५।

 

तं वा एतं देवा आत्मानमुपासते तस्मात्तेषाꣲ᳭ सर्वे लोका आत्ताः सर्वे कामाः सर्वाꣲ᳭श्च लोकानाप्नोति सर्वाꣲ᳭श्च कामान्यस्तमात्मानमनुविद्य विजानातीति प्रजापतिरुवाच प्रजापतिरुवाच ।६।

 

इति द्वादशः खण्डः

 

त्रयोदश : खण्ड :

 

श्यामाच्छबलं प्रपद्ये शबलाच्छ्यामं प्रपद्येऽश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवामीत्यभिसंभवामीति ।१।

 

इति त्रयोदशः खण्डः

 

चतुर्दश : खण्ड :

 

आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म तदमृतꣲ᳭ आत्मा प्रजापतेः सभां वेश्म प्रपद्ये यशोऽहं भवामि ब्राह्मणानां यशो राज्ञां यशो विशां यशोऽहमनुप्रापत्सि हाहं यशसां यशः श्येतमदत्कमदत्कꣲ᳭ श्येतं लिन्दु माभिगां लिन्दु माभिगाम् ।१।

इति चतुर्दशः खण्डः

 

पञ्चदश: खण्ड :

 

तद्वैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्य आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणा- भिसमावृत्य कुटुम्बे शुचौ देशे स्वाध्यायमधीयानो धार्मिकान्विदधदात्मनि सर्वेन्द्रियाणि संप्रतिष्ठाप्याहिꣲ᳭ सन्सर्वभूता- न्यन्यत्र तीर्थेभ्यः खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोक- मभिसंपद्यते पुनरावर्तते पुनरावर्तते

 

इति पञ्चदशः खण्डः

 

इत्यष्टमोऽध्यायः

 

आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि सर्वाणि सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु तदात्मनि निरते उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु

  शान्तिः शान्तिः शान्तिः

 

छान्दोग्योपनिषत्संपूर्णा

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

बृहदारण्यकोपनिषत्

 

पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।।

।।ॐ शान्तिः शान्तिः शान्तिः

 

प्रथमोऽध्यायः

 

प्रथमं ब्राह्मणम्

 

उषा वा अश्वस्य मेध्यस्य शिरः सूर्यश्चक्षुर्वातः प्राणो व्यात्तमग्निर्वैश्वानरः संवत्सर आत्माश्वस्य मेध्यस्य द्यौः पृष्ठमन्तरिक्षमुदरं पृथिवी पाजस्यं दिशः पार्श्वे अवान्तरदिशः पर्शव ऋतवोऽङ्गानि मासाश्चार्धमासाश्च पर्वाण्यहोरात्राणि प्रतिष्ठा नक्षत्राण्यस्थीनि नभो माꣲ᳭ सानि ऊवध्यꣲ᳭ सिकताः सिन्धवो गुदा यकृच्च क्लोमानश्च पर्वता ओषधयश्च वनस्पतयश्च लोमान्युद्यन्पूर्वार्धी निम्लोचञ्जघनार्थो यद्विजृम्भते तद्विद्योतते यद्विधूनुते तत्स्तनयति यन्मेहति तद्वर्षति वागेवास्य वाक् ।१

 

अहर्वा अश्वं पुरस्तान्महिमान्वजायत तस्य पूर्वे समुद्रे योनी रात्रिरेनं पश्चान्महिमान्वजायत तस्यापरे समुद्रे योनिरेतौ वा अश्वं महिमानावभितः संबभूवतुः हयो भूत्वा देवानवहद्वाजी गन्धर्वानर्वासुरानश्वो